प्राकार
prākāraपुं · masc.In 16 kośas: 14 synonym verses, 18 as a meaning of another word.
प्राकारो वरणः साले चयो वप्रोऽस्य पीठभूः ॥ ९८० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
हस्तिनखः परिकूटं च कथ्यते गोपुरं पुरद्वारम् ।वप्रं शालं प्राकारमाहुरररं कपाटं च ॥ २८८ ॥
आर्या
genderपुंmasc.
कोटो वप्रोऽस्त्रियां सालः प्राकारो वरणः पुमान् ।अस्त्री दुर्गोक्षणं क्लीबे पुनरावेष्टकः पुमान् ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
वीथी गृह[8b]तटी हट्टी पलिघः शालगोपुरम् ।शालः सालश्च वरणः प्राकारोऽथाश्मपीठभूः ॥ २५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
खेयं खातं च परिखा वप्रं स्याद्धूलिकुट्टिमम् ।प्राकारः परिधिः सालः प्रतोली गोपुराकृतिः ॥ १३४ ॥
अनुष्टुप्
genderपुंmasc.
वत्सपत्तनकौशाम्ब्यौ द्वारका द्वारवत्यपि ।वप्रोऽथ वरणः साले चयः प्राकार एव च ॥ २६३ ॥
अनुष्टुप्
genderपुंmasc.
वप्रः शालः कोट्टदुर्गौ प्राकारो वरणश्चयः ।प्रतोली विशिखा रथ्या पुरद्वारं च गोपुरम् ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
प्राकारो वरणः शालः इष्टकारचिते त्रयम् ॥
genderपुंmasc.
वरणे प्राकारः पारक् जान्तः क्षौमे तु अट्टवत् ।अट्टालकयुतोट्टालो, वृत्तौ वाटी च वाटिका ॥ २९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
genderपुंmasc.
प्राकारवरणसाला वप्रोऽस्त्री तस्य शिखरकूटानि ।क्षुद्राणि कपिशिरांसि प्राचीरं प्रान्ततोवृतिर्वाटः ॥ ८३२ ॥
गीतिः
genderपुंmasc.
उलपशल्योपकण्ठे द्वे कपाटो द्वारकण्टकः ।कवाटश्चाररं कन्थावाटः प्राकार इत्यपि ॥ ७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
प्राकारो वरणः सालः प्राचीरन्त्वेष सच्छदिः ।आवेष्टकस्तु वाटोऽस्त्री विवृतश्च वृतिद्रुमैः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
प्राकार as a meaning in nānārtha verses
- धरणिकोश वरणवरणः स्मृतः प्राकारे वरणो वरणद्रुमे । श्रवणो नक्षत्रभेदे स्याच्छ्रवणं श्रुतिकर्णयोः ॥ Dharaṇikośa 14.2.19
- धरणिकोश चयक्षयौ निलयकल्पान्तौ क्षयोऽपचयरोगयोः । चयस्त्वाचयने वृन्दे प्राकारे मूलबन्धने ॥ Dharaṇikośa 25.2.7
- धरणिकोश वप्रवप्रः पितरि केदारे वप्रः प्राकाररोधसोः । अमरौ देवास्थिसंहारावमरे दूर्वागुडूचिके ॥ Dharaṇikośa 26.2.24
- धरणिकोश सालसालः सर्जतरौ वापि सर्गप्राकारयोरपि । जालं गवाक्षयानाये दन्ते वृन्दे च कोरके ॥ Dharaṇikośa 27.2.13
- कोषकल्पतरु पलिघकाचकलशे च कलशे पलिघः प्राकारगोपुरे तद्वत् । परिघो योगविशेषे- ऽर्गलघातास्त्रेषु संदिष्टः ॥ ३६ ॥ Koṣakalpataru 6.4.36
- कोषकल्पतरु तल्पलेपः सुधालेपन-भोजनेषु तल्पस्तु न स्त्री शयनीयवाची । प्राकारदारेषु नपुंसकेऽथ । स्तूपोऽपि चैत्ये भुव उच्छ्रये च ॥ ५ ॥ Koṣakalpataru 6.22.5
- कोषकल्पतरु नेमतद्वत्संवसथे समूह उदितः शब्दादितश्चोत्तरः संपूर्वः समरेऽथ कालविवरे प्राकारगर्त्तेऽवधौ । अर्द्धे छद्मनि पुंसि नेम उदितः [31b] सोमस्तु शीतद्युतौ वित्तेशे पितृदैवते च पवने[व]स्वन्तरे स्यात्कपौ ॥ ६४ ॥ Koṣakalpataru 6.25.64
- नानार्थार्णवसंक्षेप अविअविः पुंस्यवतौ धातौ सूर्यपर्वतयोरपि । द्वयोस्तु मेषेऽथाविर्ना भाःप्राकारार्कवायुषु ॥ ५४ ॥ Nānārthārṇavasaṃkṣepa 2.5.54
- नानार्थार्णवसंक्षेप सालप्राकारे ना तु विटपिमात्रे वृक्षान्तरे तथा । अश्वकर्णाह्वये गत्यां मत्स्यभेदे तु स द्वयोः ॥ १४८७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1487
- नानार्थार्णवसंक्षेप परिधिप्राकारे दृश्यते चापि षट्सु शुक्रियसामसु । परिधानक्रियायां च परशुस्तु परश्वथे ॥ १५७ ॥ Nānārthārṇavasaṃkṣepa 3.2.157
- नानार्थार्णवसंक्षेप वरण्डतृणकाष्ठादिभारे च मुखरोगान्तरे तथा । पुम्बलाख्येऽन्तरावेदौ प्राकारेऽथ वटम्बवाक् ॥ १८४ ॥ Nānārthārṇavasaṃkṣepa 3.2.184
- नानार्थार्णवसंक्षेप वरणभेद्यवद्घातके ना तु वरणः पादपान्तरे । तिक्तशाकाह्वये चैव प्राकारे चैव नृप्यदः ॥ १६२६ ॥ Nānārthārṇavasaṃkṣepa 4.1626
- शब्दरत्नावली वरणवरुणस्तरुभेदे स्याज्जले पश्चिमदिक्पातौ । वरणं पूजनादौ ना प्राकारतिक्तशाकयोः ॥ Śabdaratnāvalī 7.15.51
- शब्दरत्नावली शालशालः सर्जद्रुमे वृक्षमात्रप्राकारयोरपि । स्थालं भोजनपात्रे स्यात्स्थाली च पाटलेखयोः ॥ Śabdaratnāvalī 7.28.38
- शब्दरत्नाकर सालसालोऽश्वकर्णे प्राकारे तरुमात्रे झषान्तरे । सत्तायां प्रकृतौ प्राणे पिशाचादौ पराक्रमे ॥ २०२० ॥ Śabdaratnākara 4.1.2020
- वैजयन्ती सालस्कन्दो धाता नदीकूलं साद्यश्वारोहसूतयोः । सालो मत्स्ये वृक्षभेदे प्राकारद्रुममात्रयोः ॥ ६५ ॥ Vaijayantī 6.1.65
- वैजयन्ती अविअविर्भूपुष्पवत्योः स्त्री वायुप्राकारभास्तु ना । अजः पितामहेऽनादौ छागे विष्णौ हरे रवौ ॥ ४ ॥ Vaijayantī 6.5.4
- वैजयन्ती परिधिपरिधिर्यज्ञिये काष्ठे प्राकारे परिवेषणे । परिघाते मूढगर्भे परिघोऽर्गलदण्डयोः ॥ ४१ ॥ Vaijayantī 7.1.41