कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वाट

vāṭaपुं · masc.

In 14 kośas: 19 synonym verses, 6 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.982 · p. 39
मुखं निःसरणे वाटे प्राचीनावेष्टकौ वृतिः ॥ ९८२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.290 · p. 35
गृहभूमिस्तु वास्तुः स्याद्वाट आवेष्टको वृतिः ।गृहस्थानं स्मृतं राज्ञामुपकार्योपकारिका ॥ २९० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव देशप्रकाण्डः Kalpadrukośa 1.2.37 · p. 8
केदारश्च पुनर्वाट एषां कैदारिकं गणे ।एषूद्भूतं वस्तुजातं त्रिषु स्यादकृते खिलम् ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.94 · p. 19
पदविः स्त्री पुंसि वाटः पथः पेंडः पुमानयम् ।वर्त्तन्येकपदी पद्या वर्त्तनिः पद्धतिः स्त्रियाम् ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.247 · p. 160
वाटः पुमांस्तत्र गुडसम्मिश्रे कृसरः पुमान् ।तृसरस्तण्डुलैः सिद्धैः सगुडैः सोप्यथापरः ॥ २४७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.199 · p. 483
विलिङ्गस्य स्फुलिङ्गस्य कपाटस्य पुटस्य च ।वटवाटपुटानां च तटस्य शकटस्य च ॥ १९९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वतस्त्रिलिङ्गाधिकारः Koṣakalpataru 4.7.87 · p. 117
genderपुंस्त्रीक्लीm. f. n.
अन अन्ते यस्य तदिदमनान्तं अकर्त्तरि अन्प्रत्ययान्तं यत्प्रातिपदिकं तन्नपुंसके विद्धि जानीहि । "नपुंसकाद्भावे क्त" इत्यत्र "वर्तमाने ल्युट् चे"ति ल्युट् । "युवोरनामि"त्यनादेशः । वचनं भजनं भाजनं पानं आसनं प्रयाणं शासनम् । अधिकरणमित्यादि । अकर्त्तरीति किम् । "नन्द्यादिभ्यो ल्युट्" । नन्दनः मरणः मदनः कुलनः शतनः दमनः सङ्कर्षणः मधुसूदनः जनार्दन इत्यादि । अनिः स्त्रियामेव ।एवकारोऽवधारणार्थः । "आक्रोशे नञ्यनिः" । यथा इयमम्भोजनिः अकारणिः अहरणिः अखादनिः अशरणिरित्येवमादिः । अण च अप्च अणापौ यौ तौ पुंस्युक्तौ । णौ अण् चेत्यण् प्रत्ययः । त्यागः उपदेशः उपसर्गः इत्यण्प्रत्ययः । निघः पर्वतः । किञ्चान्यौ मन्युमृत्यू पुंसि भवतः । अयं मन्युर्दया शोकश्च । मृत्युर्नाशः ।पटपुटकटघटचण्टवाटजूटवटा हि पुंस्युक्ताः ।अवटखटपट्टकिराटकीटाश्च कूटतटयोश्च नपुंसकता ॥ २८ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.265 · p. 37
आवेष्टको वृतिर्वाटो मार्गोऽध्वा सरणिः सृतिः ।निगमः पद्धतिः पद्या पन्था एकपदी पुनः ॥ २६५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्वतस्त्रिलिङ्गसंग्रहः Paramānandīyanāmamālā 6.7.176 · p. 231
तटपुटवटवाटाः कुण्डपेटौ कपाटःकटशकटविडङ्गास्तारकस्तूणनीडौ ।पटपिटकविषाणा आढको मण्डलस्तुकुवलपिठरछत्राः कङ्कतः कन्दलोऽपि ॥ १७६ ॥
मालिनीmetre not read in every linenearly मालिनी: pāda 2, syllable 6 र (wrong syllable)
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1684 · p. 271
वाटो वृत्तिश्च प्राचीनमाऽऽवेष्टकश्च नाम वै ॥ १६८४ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.24 · p. 47
वर्तन्येकपदी वाटः सरणिर्वत्म वर्तनम् ।अयनं माच-माथौ च विवधो वीवधोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.30 · p. 220
वाटो-वाटं वाटिरिव प्राचीनं च प्रचीरवत् ।मार्गे तालव्य-दन्त्यादिः सरणिः सरणी पथः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.832 · p. 105
प्राकारवरणसाला वप्रोऽस्त्री तस्य शिखरकूटानि ।क्षुद्राणि कपिशिरांसि प्राचीरं प्रान्ततोवृतिर्वाटः ॥ ८३२ ॥
गीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण स्त्रीपुंसप्रकरणम् Śabdaratnākara 7.3.2325 · p. 283
स्त्रीपुंसमुच्यते लिङ्गे शारिः श्रे[णिः] सृणिर्मणिः ।दशाटोटः पटो वाटो वटः पेठो मठः पटः ॥ २३२५ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव भूमिवर्गः Trikāṇḍaśeṣa 2.1.19 · p. 33
वाटः पथश्च माथश्च खपुरन्तूर्ध्वगं पुरम् ।हरिश्चन्द्रपुरं शौभमुद्रङ्गः प्रतिमार्गकः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव पुरवर्गः Trikāṇḍaśeṣa 2.2.7 · p. 35
उलपशल्योपकण्ठे द्वे कपाटो द्वारकण्टकः ।कवाटश्चाररं कन्थावाटः प्राकार इत्यपि ॥ ७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.21 · p. 73
मैत्री वाटं नटी भोलं प्रसूते कीलुषी किटम् ।घर्घरी घिर्मिणं घोलमित्येते वैश्यसूनवः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.14 · p. 160
प्राकारो वरणः सालः प्राचीरन्त्वेष सच्छदिः ।आवेष्टकस्तु वाटोऽस्त्री विवृतश्च वृतिद्रुमैः ॥ १४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
धरणिकोश Dharaṇikośa · धरणिदास टार्धश्लोकः Dharaṇikośa 10.2.6 · p. 37
वाटो मार्गे वृतौ वाटो वृक्षे च गृहवास्तुनि ।त्रुटिः स्यात्संशये चाल्पे सूक्ष्मैलाकालमानयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ टान्ताः Koṣakalpataru 6.10.7 · p. 179
कूटं निश्चलयन्त्रकैतवपुरद्वाराद्रिशृङ्गानृत-मायातुच्छहलाङ्गराशिषु तथा स्त्री रोचनेऽयोघने ।लाटो देशविशेषके च वसने झाटो निकुञ्जे वनेसम्मृष्टावरुषोऽथ ना पथि वृतौ वाटस्त्रये वास्तुभित् ॥ ७ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1221 · p. 147
बहुप्रदे शठे चाथ शार्दूले व्याघ्रवाग्द्वयोः ।व्याघ्री तु कण्टकार्यां स्त्री वाटस्तु नरि वेष्टने ॥ १२२१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1222 · p. 147
मण्डले नगरे सीम्नि भोजने वलये गृहे ।त्रयी तु वाटी गेहान्तःक्लृप्ते फलफले वने ॥ १२२२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश टान्ताः Śabdaratnāvalī 7.11.26 · p. 201
लाटो देशान्तरे वस्त्रे जीणेषु भूषणादिषु ।वाटः पथि वृतिस्याने वाटी स्यात्कुटिवास्तुनोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.102 · p. 126
लाटोंऽशुके च देशे च व्युष्टं कल्ये त्रिषूषिते ।पथि वास्तुनि वाटः स्याद्विकटं विकृतं बृहद् ॥ १०२ ॥
अनुष्टुप्

वाट as a meaning in nānārtha verses