भित्तिका
bhittikāस्त्री · fem.In 9 kośas: 8 synonym verses, 2 as a nānārtha head word.
गौधेयोऽन्यत्र मुसली गोधिकागोलिके गृहात् ॥ १२९७ ॥माणिक्या भित्तिका पल्ली कुड्यमत्स्यो गृहोलिका ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
genderस्त्रीfem.
माणिक्या भित्तिका ज्येष्ठा गृहोली च विसंवरा ।द्वयोः कुड्याच्च मत्स्यार्था गृहगोधा गृहान्तिका ॥ ६७ ॥
अनुष्टुप्
genderस्त्रीfem.
कषीशीर्षं(?) तु तस्याग्रं प्राचीनं वाटिका वृतिः ।आवेष्टकोऽन्त्ये प्राचीरं कुड्यं भित्तिश्च भित्तिका ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
शशको लोमकर्णोऽपि मृदुलोमकशूलिकौ ।पल्ली तु भित्तिका माणिक्या स्मृता गृहगोलिका ॥ २०० ॥
अनुष्टुप्
genderस्त्रीfem.
गृहोलिका तथा कुड्यमत्स्यश्च गृहगोधिका ।भित्तिका चेति नामानि माणिक्यानां भवन्ति वै ॥ २३४५ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्री भित्तिर्भित्तिका कुड्यं कूड्यं कुड्यकमित्यपि ।भित्तौ न्यस्तं विचित्रार्थमस्थ्याद्येडूकमेडुकम् ॥
अनुष्टुप्
genderस्त्रीfem.
विपणी चाऽपणो, वेश्याश्रये वेशः सवेषकः ।भित्तौ स्याद्भित्तिका कुड्य-कुट्ये अत्र तृतीयकौ ॥ ४२ ॥
अनुष्टुप्
genderस्त्रीfem.
कुड्योऽस्त्री भित्तिका कन्थाप्येडूकं त्वन्तरस्थिकम् ।नीव्रं वलीकं चोलान्ते चोलोऽस्त्री पटलं छदिः ॥ ३७ ॥
अनुष्टुप्
genderस्त्रीfem.
भित्तिका तु नदीभेदे शरावत्याह्वये स्मृता ।तथा माषादिचूर्णे च वैजयन्त्यां त्वभूद्भ्रमः ॥ ६४ ॥
अनुष्टुप्