कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ब्रह्मयज्ञ

brahmayajñaपुं · masc.

In 6 kośas: 7 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.641 · p. 33
अध्ययनं ब्रह्मयज्ञः स्याद्देवयज्ञ आहुतिः ।होमो होत्रं वषट्कारः पितृयज्ञस्तु तर्पणम् ॥ ८२१ ॥तच्छ्राद्धं पिण्डदानं च नृयज्ञोऽतिथिपूजनम् ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.14
पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः ।एते पञ्चमहायज्ञा ब्रह्मयज्ञादिनामकाः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.98 · p. 79
भूतादिभ्योन्नादिदेये स्त्रीपुंसोर्वलिरित्यपि ।ब्रह्मदेवनरपितृभूतयज्ञा अमी क्रमात् ॥ ९८ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 व (wrong syllable)
genderपुंmasc.doubtful
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.99 · p. 79
चत्वारस्ते पाकयज्ञा ब्रह्मयज्ञोऽत्र पञ्चमः ।त्यागो विहापितं दानमुत्सर्जनविसर्जने ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.42 · p. 235
श्रुतिपाठो ब्रह्मयज्ञो देवयज्ञोऽनले हुतिः ।बलिदानं भूतयज्ञः पितृदानं पितृक्रतुः ।निवापः पिण्डदानं च श्राद्धं तर्पणमित्यपि ॥ ४२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.212 · p. 52
ब्रह्मयज्ञो देवयज्ञो मर्त्ययज्ञस्तथापि च ।पितृयज्ञो भूतयज्ञ इति यज्ञास्तु पञ्च हि ॥ २१२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1368 · p. 217
अध्ययनं ब्रह्मयज्ञो ब्रह्मज्ञानं स कथ्यते ।देवयज्ञो वषट्कारो होमो होत्रं तथाऽऽहुतिः ॥ १३६८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
genderपुंmasc.