इति मनुष्यवर्गः
अथ ब्रह्मवर्गः
सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ ।वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः ॥ १ ॥विप्रक्षत्रियविट्शूद्राश्चातुर्वर्ण्यमिति स्मृतम् ।
2.7.1
अनुष्टुप्
राजबीजी राजवंश्यो बीज्यस्तु कुलसंभवः ॥ २ ॥
2.7.2
अनुष्टुप्
महाकुलकुलीनार्यसभ्यसज्जनसाधवः ।
2.7.3
अनुष्टुप्
ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये ॥ ३ ॥
2.7.3
अनुष्टुप्
आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः ।विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः ॥ ४ ॥
2.7.4
अनुष्टुप्
विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः ।धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः ॥ ५ ॥
2.7.5
अनुष्टुप्
धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः ।दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ ॥ ६ ॥
2.7.6
अनुष्टुप्
मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि ।
2.7.8
अनुष्टुप्
वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि ॥
2.7.9
अनुष्टुप्
नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः ।
2.7.10
अनुष्टुप्
चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ ॥
2.7.11
अनुष्टुप्
उपाध्यायोऽध्यापकोऽथ स्यान्निषेकादिकृद्गुरुः ।
2.7.12
अनुष्टुप्
मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती ॥ ७ ॥
2.7.7
अनुष्टुप्
यष्टा च यजमानश्च स सोमवति दीक्षितः ।
2.7.14
अनुष्टुप्
इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान् ॥ ८ ॥
2.7.8
अनुष्टुप्
स गीर्पतीष्ट्या स्थपतिः सोमपीथी तु सोमपाः ।
2.7.16
अनुष्टुप्
सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः ॥ ९ ॥
2.7.9
अनुष्टुप्
अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः ।
2.7.18
अनुष्टुप्
लब्धानुज्ञः समावृत्तः सुत्वा त्वभिषवे कृते ॥ १० ॥
2.7.10
अनुष्टुप्
छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः ।
2.7.20
अनुष्टुप्
एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ॥ ११ ॥
2.7.11
अनुष्टुप्
सतीर्थ्यास्त्वेकगुरवश्चितवानग्निमग्निचित् ।
2.7.22
अनुष्टुप्
पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम् ॥ १२ ॥
2.7.12
अनुष्टुप्
उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः ।
2.7.24
अनुष्टुप्
यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः ॥ १३ ॥
2.7.13
अनुष्टुप्
पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः ।एते पञ्चमहायज्ञा ब्रह्मयज्ञादिनामकाः ॥ १४ ॥
2.7.14
अनुष्टुप्
समज्या परिषद्गोष्ठी सभासमितिसंसदः ।आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः ॥ १५ ॥
2.7.15
अनुष्टुप्
प्राग्वंशः प्राग्हविर्गेहात्सदस्या विधिदर्शिनः ।
2.7.28
अनुष्टुप्
सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते ॥ १६ ॥
2.7.16
अनुष्टुप्
अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात् ।आग्नीध्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते ॥ १७ ॥
2.7.17
अनुष्टुप्
वेदिः परिष्कृता भूमिः समे स्थण्डिलचत्वरे ।
2.7.31
अनुष्टुप्
चषालो यूपकटकः कुम्बा सुगहना वृतिः ॥ १८ ॥
2.7.18
अनुष्टुप्
यूपाग्रं तर्म निर्मन्थ्यदारुणि त्वरणिर्द्वयोः ।
2.7.33
अनुष्टुप्
दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽग्नयः ॥ १९ ॥
2.7.19
अनुष्टुप्
अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः ।
2.7.35
अनुष्टुप्
समूह्यः परिचाय्योपचाय्यावग्नौ प्रयोगिणः ॥ २० ॥
2.7.20
अनुष्टुप्
यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते ।तस्मिन्नानाय्योऽथाग्नायी स्वाहा च हुतभुक्प्रिया ॥ २१ ॥
2.7.21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 य्योऽ (wrong syllable)
ऋक्सामिधेनी धाय्या च या स्यादग्निसमिन्धने ।
2.7.38
अनुष्टुप्
गायत्रीप्रमुखं छन्दो हव्यपाके चरुः पुमान् ॥ २२ ॥
2.7.22
अनुष्टुप्
आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः ।
2.7.40
अनुष्टुप्
धवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा ॥ २३ ॥
2.7.23
अनुष्टुप्
पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम् ।
2.7.42
अनुष्टुप्
हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्रुवादिकम् ॥ २४ ॥
2.7.24
अनुष्टुप्
ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः ।
2.7.44
अनुष्टुप्
उपाकृतः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः ॥ २५ ॥
2.7.25
अनुष्टुप्
परम्पराकं शमनं प्रोक्षणं च वधार्थकम् ।
2.7.46
अनुष्टुप्
वाच्यलिङ्गाः प्रमीतोपसम्पन्नप्रोक्षिता हते ॥ २६ ॥
2.7.26
अनुष्टुप्
सान्नाय्यं हविरग्नौ तु हुतं त्रिषु वषट्कृतम् ।
2.7.48
अनुष्टुप्
दीक्षान्तोऽवभृथो यज्ञे तत्कर्मार्हं तु यज्ञियम् ॥ २७ ॥
2.7.27
अनुष्टुप्
त्रिष्वथ क्रतुकर्मेष्टं पूर्तं खातादि कर्म यत् ।
2.7.50
अनुष्टुप्
अमृतं विघसो यज्ञशेषभोजनशेषयोः ॥ २८ ॥
2.7.28
अनुष्टुप्
त्यागो विहापितं दानमुत्सर्जनविसर्जने ।विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ २९ ॥प्रादेशनं निर्वपणमपवर्जनमंहतिः ।
2.7.52
अनुष्टुप्
मृतार्थं तदहे दानं त्रिषु स्यादौर्ध्वदेहिकम् ॥ ३० ॥
2.7.30
अनुष्टुप्
पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्त्रतः ।
2.7.54
अनुष्टुप्
अन्वाहार्यं मासिकेंऽशोऽष्टमोऽह्नः कुतपोऽस्त्रियाम् ॥ ३१ ॥
2.7.31
अनुष्टुप्
पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा ।
2.7.56
अनुष्टुप्
सनिस्त्वध्येषणा याच्ञाभिशस्तिर्याचनार्थना ॥ ३२ ॥
2.7.32
अनुष्टुप्
षट्तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि ।क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि ॥ ३३ ॥
2.7.33
अनुष्टुप्
स्युरावेशिक आगन्तुरतिथिर्ना गृहागते ।
2.7.59
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 घू (wrong syllable)
प्राघूर्णिकः प्राघूणकश्चाभ्युत्थानं तु गौरवम् ।
2.7.60
अनुष्टुप्metre not read in every line
पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः ॥ ३४ ॥
2.7.34
अनुष्टुप्metre not read in every line
वरिवस्या तु शुश्रूषा परिचर्याप्युपासना ।
2.7.62
अनुष्टुप्
व्रज्याटाट्या पर्यटनं चर्या त्वीर्यापथे स्थितिः ॥ ३५ ॥
2.7.35
अनुष्टुप्
उपस्पर्शस्त्वाचमनमथ मौनमभाषणम् ।
2.7.64
अनुष्टुप्
प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिश्च सः ॥वाल्मीकिश्चाथ गाधेयो विश्वामित्रश्च कौशिकः ।
2.7.65
अनुष्टुप्
व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः ॥
2.7.66
अनुष्टुप्
आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः ॥ ३६ ॥पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः ।
2.7.67
अनुष्टुप्
नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम् ॥ ३७ ॥
2.7.37
अनुष्टुप्
औपवस्तं तूपवासो विवेकः पृथगात्मता ।
2.7.69
अनुष्टुप्
स्याद्ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिरथाञ्जलिः ॥ ३८ ॥पाठे ब्रह्माञ्जलिः पाठे विप्रुषो ब्रह्मबिन्दवः ।
2.7.70
अनुष्टुप्
ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ ॥ ३९ ॥
2.7.39
अनुष्टुप्
मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः ।
2.7.72
अनुष्टुप्
संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः ॥ ४० ॥
2.7.40
अनुष्टुप्
समे तु पादग्रहणमभिवादनमित्युभे ।
2.7.74
अनुष्टुप्
भिक्षुः परिव्राट्कर्मन्दी पाराशर्यपि मस्करी ॥ ४१ ॥
2.7.41
अनुष्टुप्
तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः ।
2.7.76
अनुष्टुप्
तपःक्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः ॥ ४२ ॥
2.7.42
अनुष्टुप्
ऋषयः सत्यवचसः स्नातकस्त्वाप्लुतो व्रती ।
2.7.78
अनुष्टुप्
ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते ॥ ४३ ॥
2.7.43
अनुष्टुप्
यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ ।स्थाण्डिलश्चाथ विरजस्तमसः स्युर्द्वयातिगाः ॥ ४४ ॥
2.7.44
अनुष्टुप्
पवित्रः प्रयतः पूतः पाषण्डाः सर्वलिङ्गिनः ।
2.7.81
अनुष्टुप्
पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणवः ॥ ४५ ॥
2.7.45
अनुष्टुप्
अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं वृषी ।
2.7.83
अनुष्टुप्
अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम् ॥ ४६ ॥
2.7.46
अनुष्टुप्
स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा ।
2.7.85
अनुष्टुप्
सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम् ॥ ४७ ॥
2.7.47
अनुष्टुप्
दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः पृथक् ।
2.7.87
अनुष्टुप्
शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः ॥ ४८ ॥
2.7.48
अनुष्टुप्
नियमस्तु स तत्कर्म नित्यमागन्तुसाधनम् ।
2.7.89
अनुष्टुप्metre not read in every line
क्षौरं तु भद्राकरणं मुण्डनं वपनं त्रिषु ।
2.7.90
अनुष्टुप्metre not read in every line
उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे ॥ ४९ ॥
2.7.49
अनुष्टुप्metre not read in every line
प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् ।
2.7.92
अनुष्टुप्metre not read in every line
अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूले कायम् ॥ ५० ॥
2.7.50
अनुष्टुप्metre not read in every line
मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले त्वङ्गुष्ठस्य ब्राह्मम् ।
2.7.94
अनुष्टुप्metre not read in every line
स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ॥ ५१ ॥
2.7.51
अनुष्टुप्metre not read in every line
देवभूयादिकं तद्वत्कृच्छ्रं सान्तपनादिकम् ।
2.7.96
अनुष्टुप्
संन्यासवत्यनशने पुमान्प्रायोऽथ वीरहा ॥ ५२ ॥
2.7.52
अनुष्टुप्
नष्टाग्निः कुहना लोभान्मिथ्येर्यापथकल्पना ।
2.7.98
अनुष्टुप्
व्रात्यः संस्कारहीनः स्यादस्वाध्यायो निराकृतिः ॥ ५३ ॥
2.7.53
अनुष्टुप्
धर्मध्वजी लिङ्गवृत्तिरवकीर्णी क्षतव्रतः ।
2.7.100
अनुष्टुप्
सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च ॥ ५४ ॥अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम् ।
2.7.101
अनुष्टुप्
परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात् ॥ ५५ ॥
2.7.55
अनुष्टुप्
परिवित्तिस्तु तज्ज्यायान्विवाहोपयमौ समौ ।तथा परिणयोद्वाहोपयामाः पाणिपीडनम् ॥ ५६ ॥
2.7.56
अनुष्टुप्
व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम् ।
2.7.104
अनुष्टुप्
त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः ॥ ५७ ॥
2.7.57
अनुष्टुप्
सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धा वरस्य ये ।
2.7.106