कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उत्सर्जन

utsarjanaक्ली · neut.

In 13 kośas: 12 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.52 · p. 19
दानमुत्सर्जनं त्यागः प्रदेशनविसर्जने ।विहायितं वितरणं स्पर्शनं प्रतिपादनम् ॥ ३८६ ॥विश्राणनं निर्वपणमपवर्जनमंहतिः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.52
त्यागो विहापितं दानमुत्सर्जनविसर्जने ।विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ २९ ॥प्रादेशनं निर्वपणमपवर्जनमंहतिः ।
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.99 · p. 79
चत्वारस्ते पाकयज्ञा ब्रह्मयज्ञोऽत्र पञ्चमः ।त्यागो विहापितं दानमुत्सर्जनविसर्जने ॥ ९९ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.72 · p. 238
प्रा[101b]देशनं निर्वपणमुत्सर्जन-विसर्जने ।तथापवर्जनं त्याग-विसर्गोत्सर्गकाः समाः ॥ ७२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.132 · p. 25
विहापनं निर्वपणं स्पर्शनं प्रतिपादनम् ।उत्सर्जनं प्रदेशनमपसर्जनमंहतिः ॥ १३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 श (wrong syllable)
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.52 · p. 107
दानं विसर्जनं त्याग उत्सर्जनविहायिते ।मार्गणो याचकोऽर्थी च तर्कुकोऽपि वनीपकः ॥ ५२ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.226 · p. 53
त्यागे विहायितं दानमुत्सजर्नविसर्जने ।विश्राणनं स्पर्शनं चाप्यपवर्जनमंहतिः ॥ २२६ ॥
अनुष्टुप्
genderक्लीneut.doubtful
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण ब्राह्मणप्रकरणम् Śabdacandrikā 5.1.13 · p. 42
विहायनं निर्वपणं स्पर्शनं प्रतिपादनम् ।उत्सर्जनं प्रदेशनमुपसर्जनमंहतिः ॥ १३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 श (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.573 · p. 74
अथ दानं तथा त्यागः प्रतिदानं प्रदेशनम् ।उत्सर्जनं विसर्जनं वितरणं विहायितम् ॥ ५७३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.57 · p. 114
विश्राणनं विश्रणनं दत्तिरंहतिरंहती ।उत्सर्जनं निर्वपणमुत्सर्गः प्रतिपादनम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1249 · p. 153
वितीर्णिरंहतिस्त्यागोऽतिसर्गः प्रतिपादनम् ।उत्सर्जनं वितरणं विश्राणनविसर्जने ॥ १२४९ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.119 · p. 92
उत्सर्जनं प्रादेशनमपवर्जनमंहतिः ।अतोयं सात्त्विकं दानमुदपूर्वं तु पौष्टिकम् ॥ ११९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 दे (wrong syllable)
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.11 · p. 19
अथोत्पतनमुत्पत्तावूर्ध्वं गमन एव च ।उत्सर्जनं तु दाने च परित्यागे च कीर्तितम् ॥ ११ ॥
अनुष्टुप्