पाठ
pāṭhaपुं · masc.In 8 kośas: 10 synonym verses, 4 as a nānārtha head word, 1 as a meaning of another word.
पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः ।एते पञ्चमहायज्ञा ब्रह्मयज्ञादिनामकाः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
वेदाध्ययनकाले ये विप्रुषो मुखनिःसृताः ।स्वाध्यायस्तु जपः पाठो धर्मभाणक इत्यपि ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
यजनं याजनं पाठोऽध्यापनं च प्रतिग्रहः ।दानं चेति च षड्यत्र सा स्यादाजीविका स्त्रियाम् ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
पाठोऽपि च जपोऽभ्यासो वेदेंगादौ पुनः पुनः ।एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
पाठिका स्यान्मधुकरी पाठो वंशश्च कीर्त्यते ।द्रगण(ड)स्तूर्यगण्डः स्याद्वंशी तु मुरली स्त्रियौ ॥स्यात्पुष्करं वाद्यमुखं टट्टरी पटहध्वनि ।वीणया तूपगायेद्यस्त्रिष्वसावुपवीणयन् ॥वीणावादो वैणिकः स्यान्नाडिध्व(?)स्ताडवादकः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
अधीतिः पठनं पाठो निपठश्च निपाठवत् ।पाठे शिष्योपदेशार्थे निगाद-निगदौ समौ ।साग्नि क्लीबाव्ययं तत्स्याच्चेदग्नि[97b]ग्रन्थिसीम तत् ॥ १७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
स्वाध्यायः पठनं पाठोऽधीतिरध्ययनं पठः ।जाप्यं जापो जपो मन्त्रे मानसे वचनेऽपि च ॥ १३९ ॥
अनुष्टुप्
genderपुंmasc.
पित्रर्थं पिण्डपातादिक्रिया आर्यक उच्यते ।पाठो होमस्तर्पणञ्च वलिश्चातिथिपूजनम् ॥
अनुष्टुप्
genderपुंmasc.
अनुक्रमश्च पर्यायः स्यात् पर्यय उपात्ययः ।निपाठो निपठः पाठः पठनाध्ययने समे ॥ १२०३ ॥
अनुष्टुप्
genderपुंmasc.
वण्ठः कुन्तायुधे खर्वे अकृतोद्वाह एव च ।पाठस्तु पठने प्रोक्तः पाठा स्याद्विद्धकर्णिका ॥
अनुष्टुप्
meaningsपठन
पाठस्त्वधीतावथ विद्धकर्ण्यांस्त्रियां च वण्ठस्तु विवाहहीने ।खर्वे च कुन्तेऽथ गले तु कण्ठोध्वनौ समीपे मदनद्रुमे च ॥ ५४ ॥
उपजातिः
meaningsअधीत
पाठो ना पठने स्त्री तु प्राचीनाख्यलतान्तरे ।पाठा पार्श्वं तु न स्त्री स्यात् पर्शुवृन्दात्मके तनोः ॥ ७५६ ॥
अनुष्टुप्
meaningsपठन
पाठस्तु पठने पुंसि विद्धकर्ण्यामपि स्त्रियाम् ।वण्ठः कुन्तायुधे खर्वे अकृतोद्वाहपूरुषे ।शठो धूर्ते च धूस्तूरे मध्यस्थपुरुषेऽपि च ॥
अनुष्टुप्
meaningsपठन
पाठ as a meaning in nānārtha verses
- शब्दरत्नाकर चर्चाचूर्णिर्ग्रन्थे कपर्दे च चर्चा चार्चिक्यचिन्तयोः । पाठे च चञ्चुरेरण्डे पुंसि पक्ष्यङ्गके स्त्रियाम् ॥ १९२१ ॥ Śabdaratnākara 4.1.1921