कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

त्याग

tyāgaपुं · masc.

In 17 kośas: 14 synonym verses, 7 as a nānārtha head word, 28 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.52 · p. 19
दानमुत्सर्जनं त्यागः प्रदेशनविसर्जने ।विहायितं वितरणं स्पर्शनं प्रतिपादनम् ॥ ३८६ ॥विश्राणनं निर्वपणमपवर्जनमंहतिः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.52
त्यागो विहापितं दानमुत्सर्जनविसर्जने ।विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ २९ ॥प्रादेशनं निर्वपणमपवर्जनमंहतिः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.99 · p. 79
चत्वारस्ते पाकयज्ञा ब्रह्मयज्ञोऽत्र पञ्चमः ।त्यागो विहापितं दानमुत्सर्जनविसर्जने ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.72 · p. 238
प्रा[101b]देशनं निर्वपणमुत्सर्जन-विसर्जने ।तथापवर्जनं त्याग-विसर्गोत्सर्गकाः समाः ॥ ७२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.131 · p. 25
वृत्तस्याध्ययनस्यापि संपत्तिर्ब्रह्मवर्चसम् ।त्यागो दानं वितरणं विश्राणनविसर्जने ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.52 · p. 107
दानं विसर्जनं त्याग उत्सर्जनविहायिते ।मार्गणो याचकोऽर्थी च तर्कुकोऽपि वनीपकः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण ब्राह्मणप्रकरणम् Śabdacandrikā 5.1.12 · p. 42
दानं दानप्रतिग्राह्यं षट्कर्माणीरितानि च ।त्यागो दानं वितरणं विश्राणनविसर्जने ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.130 · p. 32
अर्दना प्रार्थना याच्ञा दानं त्यागो विसर्जनम् ।विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ १३० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.573 · p. 74
अथ दानं तथा त्यागः प्रतिदानं प्रदेशनम् ।उत्सर्जनं विसर्जनं वितरणं विहायितम् ॥ ५७३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.56 · p. 114
अमृतं यज्ञशेषे स्यात् विघसो भुक्तशेषके ।दानं प्रदानं ददनं दायस्त्यागो विसर्जनम् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1249 · p. 153
वितीर्णिरंहतिस्त्यागोऽतिसर्गः प्रतिपादनम् ।उत्सर्जनं वितरणं विश्राणनविसर्जने ॥ १२४९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.118 · p. 92
त्यागो दानं वितरणं विश्राणनविसर्जने ।विहापनं निर्वपणं स्पर्शनं प्रतिपादनम् ॥ ११८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश धर्मकर्माध्यायः Vaijayantī 5.2.40 · p. 195
विधूननं विधुवनं त्यागो हानं च वर्जनम् ।आवर्जनं द्रवक्षेपे निधानं क्षेपणासने ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास गपादः Dharaṇikośa 3.1.2 · p. 21
दुर्गमगम्यं दुर्गोमा रोगः कुष्ठे गदेऽपि च ।त्यागो दाने परित्यागे पूगः क्रमुकवृन्दयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 र्ग (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.69 · p. 63
उज्झति जहाति धरतेरहयति रहति च बुस्यति त्यजति ।त्यागेऽवतो जहातिह्रासेऽथोच्छति विवासे स्यात् ॥ ६९ ॥
metre not recognised
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.16 · p. 76
सृज्यतिः सृजतिश्चाङो विशेषे त्यागदानयोः ।विसर्जनीये संप्रेषेऽतेर्दाने हिंसनेच्छयोः ॥ १६ ॥
अनुष्टुप्
meanings
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.59 · p. 26
शेफस्यपीति शब्दज्ञास्त्रिष्वर्थेषु स्मरन्त्यमुम् ।त्रासो भये मणेर्दोषे त्यागो दाने समुज्झने ॥ ५९ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तकारादयः Paramānandīyanāmamālā 5.15.220 · p. 190
परिच्छदे प्रधानेऽथ त्रपु सीसकरङ्गयोः ।तन्त्री नाड्यां तथा वीणागुणे त्यागो विसर्जने ॥ २२० ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तकारादयः Paramānandīyanāmamālā 5.15.221 · p. 190
परित्यागे तुला तूक्ता राशौ [24] सादृश्यभाण्डयोः ।पलानां शतमानेऽथ तमः खेदतमिस्रयोः ॥ २२१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश गान्ताः Śabdaratnāvalī 7.3.6 · p. 191
गाङ्गः पुंसि गुहे भीष्मे स्याद्गङ्गासम्भवे त्रिषु ।चङ्गो दक्षे शोभने च सारङ्गे हलयाजके ॥टङ्गोऽस्त्री तु खनित्रे स्याद् जङ्घा खङ्गभिदोरपि ।त्यागो दाने वर्जने च विवेकिपुरुषेऽपि च ॥
अनुष्टुप्

त्याग as a meaning in nānārtha verses