कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भुशुण्डी

bhuśuṇḍīस्त्री · fem.

In 3 kośas: 5 synonym verses.

कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.278 · p. 119
भुशुण्डी स्याद्दारुमयी वृत्तायःकीलसंचिता ।अपि गोलासनं क्लीबे बद्धोल्का नालिका स्त्रियाम् ॥ २७८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.323 · p. 124
पाशोङ्कुशो भिन्दिपालः कणपः पट्टिशस्ततः ।भुशुण्डी शङ्खमुसलस्तरुगोफणपत्रणाः ॥ ३२३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.38 · p. 465
वल्लरी काकिनी वीथी परिपाट्या रविः क्षुरिः ।मज्जरिर्लहरिर्भेरी राटिराठिर्भुशुण्ड्यपि ॥ ३८ ॥
अनुष्टुप्
genderस्त्रीfem.
एते स्त्रियामुदिताः । इयं यूका मस्तककृमिः । उल्का सङ्घातद्वयं दग्धकाष्ठं च । शुक्तिर्जलसम्भवम् । ओषधिः फलपाकान्तो वृक्षविशेषः । वर्तिर्दीपस्य । भ्रुकुटिर्भ्रूभङ्गः पुष्परचना वा । वाल्मीक्यादयः पुंसि भवन्ति । यथा वाल्मीकिः ऋषिः मृत्कूटश्च । अध्वरो यागः । निर्यूहश्चन्द्रपाणिः । व्यूहः समूहः प्रभूतः । मुस्तको गन्धद्रव्यं च कुम्भो घटः ।केयूरतरलतूर्याङ्गदानि नित्यं नपुंसके विद्धि ।पुंसि गवाक्षं विद्यात्स्त्रियां श्यामा भुशुण्डी भाण्डी च ॥ ८५ ॥
metre not recognised
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.229 · p. 16
परिघो लोहलगुडो मुद्गरो द्रुघनः सृगः ।भुशुण्डी लोहनलिका नाडिकाऽतिभुशुण्डिका ॥ २२९ ॥
अनुष्टुप्
genderस्त्रीfem.