कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सृग

sṛgaपुं · masc.

In 11 kośas: 12 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.786 · p. 32
भिन्दिपाले सृगः कुन्ते प्रासोऽथ द्रुघणो घनः ॥ ७८५ ॥मुद्गरः स्यात्कुठारस्तु परशुः पर्शुपर्श्वधौ ।परश्वधः स्वधितिश्च परिघः परिघातनः ॥ ७८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 धि (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.91
भिन्दिपालः सृगस्तुल्यौ परिघः परिघातिनः ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.313 · p. 123
पत्रतो धेनुकाथ स्यात्पत्रपालस्तु सायता ।भिन्दिपाले सृगः पुंसि कुट्टन्ती कुलमातृका ॥ ३१३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.35 · p. 265
कासूतरि तु सा ह्रस्वा प्रा[122a]सः कुन्तः शलश्च सः ।भिन्दिपालो भिण्डिपालः सृगश्चेति समार्थकाः ॥ ३५ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.389 · p. 150
संग्राहस्त्वस्य मुष्टिः स्याद्भिन्दिपा[82]लः सृगोऽपि सः ।प्रासकुन्तावथो दण्डो यष्टिः स्याल्लगुडोऽपि च ॥ ३८९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.16 · p. 212
पराग उत्तरासङ्गन्युङ्खपूगसृगा नरे ।मस्तुलुङ्गकुडङ्गौ च मङ्गकालिङ्गमञ्चकाः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.366 · p. 72
एकधारासिभेदे तु स्यादिली करवालिका ।भिण्डिपाले भिन्दिपालः सृगश्च लगुडोऽपि च ॥ ३६६ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.229 · p. 16
परिघो लोहलगुडो मुद्गरो द्रुघनः सृगः ।भुशुण्डी लोहनलिका नाडिकाऽतिभुशुण्डिका ॥ २२९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1140 · p. 203
सृगश्च भिन्दिपालोऽपि करक्षेप्यमथोच्यते ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.347 · p. 133
भिन्दिपालसृगौ हस्तप्रमाणे काण्डशस्त्रके ।द्वयोः कुठारः परशुः पर्शुश्चापि परस्वधः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1342 · p. 163
भिण्डिपालसृगौ तुल्यौ सर्वला तोमरोऽस्त्रियाम् ।बराहकर्णकोऽन्वर्थः कणयो लोहमात्रकः ॥ १३४२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.166 · p. 117
भिण्डिपालः क्षेपणीयः सृगो दीर्घे महाफले ।तोमरोऽस्त्री लोहहुलदण्डे कासूश्च सर्वला ॥ १६६ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 लो (wrong syllable)
genderपुंmasc.