कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नालिका

nālikāस्त्री · fem.

In 11 kośas: 22 synonym verses, 7 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर देवकाण्डः Abhidhānacintāmaśiloñcha 2.8 · p. 1
सौरिः सौरोऽपि राहुस्तु ग्रहकल्लोल इत्यपि ॥ १० ॥अभ्रपिशाचोऽपि तथा नाडिका नालिकाऽपि च ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 भ्र (wrong syllable)
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर नवमोपदेशः Bālaprabodhikā 9.173 · p. 82
कुवेलयं कुवलयं कैरवं कुमुदं मतम् ।नालन्तु नालिका नालः कणिका बिस इत्यपि ॥ १७३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.174 · p. 108
तोत्रं वेण्डकमालानं निर्वाणं वैणुकं पुनः ।नालिकाकर्णवेधिन्यामथ स्यादङ्कुशोऽस्त्रियाम् ॥ १७४ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.230 · p. 114
नाहुलं च तदेव स्यान्नालिका चाङ्गरक्षिणी ।त्रिष्वितो ध्वजिनीपूर्वा आमुक्तः प्रतिमुक्तवत् ॥ २३० ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.278 · p. 119
भुशुण्डी स्याद्दारुमयी वृत्तायःकीलसंचिता ।अपि गोलासनं क्लीबे बद्धोल्का नालिका स्त्रियाम् ॥ २७८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.557 · p. 194
वर्त्तलोहं नीललोहं वर्त्तकं नालिका स्त्रियाम् ।कान्तायसमयस्कान्तं कान्तं कृष्णोत्तरं च तत् ॥ ५५७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.218 · p. 272
कालकूटो रम्यफलोऽथ स्त्रियां स्याद्विषान्तिका ।कटभी नालिका शौण्डी पाटली गिरिकर्णिका ॥ २१८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.54 · p. 171
करम्भा कर्कशा द्रोणी दीर्घवृन्तोत्तमारणी ।इन्दीवरा युग्मफला सशोणी नालिका च सा ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.38 · p. 265
शस्त्राण्यथो स्युर्यन्त्राणि नाल्यपि नालिका स्त्रियाम् ॥ ३८ ॥
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.129 · p. 24
होमधेनुस्त्वग्निहोत्री होमकाष्ठी तु नालिका ।होमधूमस्तु निगणो होमभस्म तु वैष्णुतम् ॥ १२९ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.138 · p. 45
नालीनाला नालामपि नालिकेत्यपि कुत्रचित् ।तन्तुलञ्च मृणालोऽस्त्री विषण्डं बिसमित्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ला (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.238 · p. 75
गन्धद्रव्ये नलीनाम्नि केचित्तु नालिकाह्वये ।अथ हट्टविलासिन्यां धमनि धमनीति च ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 त्तु (wrong syllable); pāda 4, syllable 2 म (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.28 · p. 179
नाडी-नाली-नालिकाश्च, दिने तु दिवसो दिवम् ।दिवा प्रतिदिवा नान्तौ द्युरस्त्र्यव्ययमप्यहः ॥ २८ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.736 · p. 94
अलंकारे निगालस्तु गलोद्देशः शफं खुरः ।घोणा तु प्रोथमस्त्री स्याद्दन्तवेष्टस्तु नालिका ॥ ७३६ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.740 · p. 94
त्रिष्वाश्वीनं तदश्वेन यदेकाहेन गम्यते ।दामाञ्चनं पादपाशस्तैल यन्त्रं तु नालिका ॥ ७४० ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.849 · p. 107
गञ्जा तु मदिराशाला चित्रशाला तु जालिनी ।श्रावेशनं शिल्पशाला पक्षिशाला तु नालिका ॥ ८४९ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1447 · p. 175
साजाजीडाडिमव्योषं पटे घट्टं (घृष्टं?) च सट्टकम् ।शाकोऽस्त्रियां हरितकं शिग्रुः पुंस्यस्य नालिका ॥ १४४७ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.58 · p. 39
ऐश्वरं नालिका चाथ पंचहस्तोऽर्धहस्तकः ।अष्टहस्ता तु रज्जुः स्यान्नवहस्ता तु नालिका ॥ ५८ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.95 · p. 90
होमधेनुस्त्वग्निहोत्री होमकाष्ठी तु नालिका ।होमधूमस्तु निगणो होमभस्म-तु-वैष्णुतम् ॥ ९५ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.110 · p. 113
आवर्तो रोमजो देवमणिस्त्वेष निगालजः ।कश्यमश्वस्य मध्यं स्यात् दन्तवेष्टस्तु नालिका ॥ ११० ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.117 · p. 113
तैलस्य नालिका सूत्रसंग्रहोऽश्वस्य कर्षकः ।केशकारक्षौरकारौ नलिवाहस्तु घासिकः ॥ ११७ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.127 · p. 146
नालिका सुषिरच्छेदे मुरली पुष्पिकेति च ।चाण्डालिका तु कण्डोलवीणा चण्डालवल्लकी ॥ १२७ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.1.37 · p. 4
दीधितिस्त्वङ्गुलौ रश्माविभीधेन्वोस्तु धेनुका ।नालिका तु चतुर्हस्तप्रमाणे युगसंज्ञके ॥ ३७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.1.38 · p. 4
नवहस्तप्रमाणे च मुनिभिः परिभाषिता ।चुल्लीरन्ध्रे च रन्ध्रे च नाले काले तथैव च ॥ ३८ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.1.39 · p. 4
वेणुभाजनभेदे च जलशाकलतान्तरे ।कलम्बीशतपर्वादिशब्दैः शास्त्रेषु विश्रुते ॥ ३९ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नकारादयः Paramānandīyanāmamālā 5.18.273 · p. 196
नियमोऽथावधौ ज्ञाने व्रते निश्चयबन्धयोः ।नालिका चुल्हिकारन्ध्रे बिलकालविशेषयोः ॥ २७३ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2113 · p. 256
नालिका विवरे वेणुभाजने चुल्लिरन्ध्रके ।निर्गन्धः श्रमणे निःस्वे निर्वृतिः सौख्यनाशयोः ॥ २११३ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 7.2.11 · p. 247
निवृत्तिस्तु मनस्तोषे मोक्षेऽस्तमयबाढयोः ।नालिका चुल्लिकारन्ध्रे विवरे वेणुभाजने ॥ ११ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 7.2.12 · p. 248
नाले काले देशमाने नियतिः संयमे विधौ ।प्रकृतिः पंचभूतेषु स्वभावे मूलकारणे ॥ १२ ॥
अनुष्टुप्
doubtful

नालिका as a meaning in nānārtha verses