कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अङ्कुश

aṅkuśaपुंक्ली · m. n.

In 14 kośas: 24 synonym verses, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1230 · p. 47
तोत्त्रं वेणुकमालानं बन्धस्तम्भोऽङ्कुशः सृणिः ॥ १२३० ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.41
तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ शृङ्खले ।अन्दुको निगडोऽस्त्री स्यादङ्कुशोऽस्त्री सृणिः स्त्रियाम् ॥ ४१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.224 · p. 27
कलभः करिपोतः स्यादङ्कुशः सृणिरुच्यते ।औपवाह्यो राजवाह्यः सन्नाह्यः समरोचितः ॥ २२४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.83 · p. 17
पुंस्यङ्कुशो निकुञ्चः स्याद्वारणी स्यात्स्त्रियामथ ।अर्गल्यादेरधिष्ठाने शृङ्खला वल्गनी स्त्रियौ ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.208 · p. 43
स्यादङ्कुशो मणिरथ लिङ्गं लाङ्गलमस्त्रियाम् ।शेवशेपौ ध्वजोपस्थौ भगमेढ्रौ च मेहनः ॥ २०८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.174 · p. 108
तोत्रं वेण्डकमालानं निर्वाणं वैणुकं पुनः ।नालिकाकर्णवेधिन्यामथ स्यादङ्कुशोऽस्त्रियाम् ॥ १७४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.323 · p. 124
पाशोङ्कुशो भिन्दिपालः कणपः पट्टिशस्ततः ।भुशुण्डी शङ्खमुसलस्तरुगोफणपत्रणाः ॥ ३२३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.189 · p. 482
कुलिशाकाशकोशानां तथा कणिशकाशयोः ।पाशाङ्कुशोष्णीषवेषाम्बरीषाणां विषस्य च ॥ १८९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.3 · p. 253
क्लीबे करिकराघातस्तोत्रं वैणुकमद्वयोः ।अङ्कुशोऽस्त्री सृणिर्द्वंद्वेऽपष्ठं त्वग्रं सृणेर्मतम् ॥ ३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.70 · p. 115
भावारावशरावपल्लवशवक्लीवा अपूर्वं तथानिष्ठीवं च सदैवमर्थविषये स्वं सत्त्वमङ्गिन्यपि ।नल्वः स्याल्लवणे च सैन्धवमधो लोके तथा वाडवःपाशः कर्कशकोशवच्च कुलिशं चाकाश-काशाङ्कुशाः ॥ ७० ॥
शार्दूलविक्रीडितम्
genderपुंक्लीm. n.
सैन्यादीनि तृतीयाप्रकृतौ जानीहि । इदं सैन्यं बलम् । आयुधमस्त्रम् । मङ्गलं प्रशस्तम् । नगरं पुरम् । वृन्तं प्रसवबन्धनम् । फलं मूलम् । हरितालं प्रसिद्धम् । बिम्बं प्रतिरूपम् । मुकुटं शिरोभूषणम् । कुद्मलं कलिका । अवसथोद्गीथौ पुंसि भवतः । अयमवसथः परिव्राजकः । अयमुद्गीथः साम । संवीथो घटिकात्रयम् । कालगीथोऽपि तदेव ।दर्पणमृदङ्गजठराः पुंस्युक्ताः कुन्तकुतपधूमाश्च ।व्रातहृददण्डाङ्कुशकटाक्षसङ्ग्रामविटपाश्च ॥ ७२ ॥
metre not recognised
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.175 · p. 30
मुखे पृषन्ति पद्मानि वमथुः करशीकरः ।चूला कक्ष्या वरत्रा स्यादङ्कुशोऽस्त्री शृणिः षणि ॥ १७५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.144 · p. 70
गात्रयोर्बन्ध इत्येवं वैणुकं तोत्रमुच्यते ।बन्धस्तम्भस्तथालानमङ्कुशः सृणिरित्यपि ॥ १४४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.161 · p. 231
genderपुंक्लीm. n.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2227 · p. 364
सृणिः शृणिरङ्कुशश्च स्यादऽपष्ठं तदग्रभाक् ।अङ्कुशवारणं यातं कथ्यते पण्डितैः र्पुनः ॥ २२२७ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 णि (wrong syllable); pāda 3, syllable 3 श (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.241 · p. 127
अन्धुरन्धुः षडेवैते हस्तिनां निगडे मनाः ।अङ्कुशोऽस्त्री हस्तिवाहः शृणिः सृणिरपि द्वयोः ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.711 · p. 91
सृणिर्द्वयोरङ्कुशोऽस्त्री सूना दण्डार्पितोऽङ्कुशः ।हिञ्जीरः स्याल्लोहमयं शृङ्खलं शृङ्खला त्रिषु ॥ ७११ ॥
अनुष्टुप्
genderपुंक्लीm. n.
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.10 · p. 28
क्रोधीशरक्तभीमाक्ष्योऽङ्कुशोऽयं नादबिन्दुमान् ॥क्रो̐॥
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.28 · p. 37
वामाङ्गुल्यग्रतः(गः) सिद्धिरङ्कुशः सर्वसंज्ञकः ।ज्ञप्रियो(प्तिगो) ह्यनुनासश्च ञ-कारश्च निरञ्जनः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात भूतडामरतन्त्रोक्तबीजाभिधान Tantrābhidhāna 10.16 · p. 62
कलाद्यं क्लेदिनीबीजं ॥क्ल्ह्रीं॥ क्रोङ्कारस्त्वङ्कुशाभिधः ॥क्रों॥
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मुद्रानिघण्टु Tantrābhidhāna 12.10 · p. 69
दन्तपाशाङ्कुशाविघ्नपर्शुर्लड्डुकसंज्ञिताः ।बीजपूराह्वया मुद्रा विज्ञेया विघ्नपूजने ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मुद्रानिघण्टु Tantrābhidhāna 12.11 · p. 69
पाशाङ्कुशवराभीतिखड्गचर्मधनुःशराः ।मौषली मुद्रिका दौर्गी मुद्राः शक्तेः प्रियङ्कराः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मुद्रानिघण्टु Tantrābhidhāna 12.85 · p. 76
पाशाङ्कुशवराभीतिधनुर्बाणाः समीरिताः ।कनिष्ठाऽनामिके बद्ध्वा स्वाङ्गुष्ठेनैव दक्षतः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.9 · p. 273
genderपुंक्लीm. n.

अङ्कुश as a meaning in nānārtha verses

  • कोषकल्पतरु सृणिमुष्णस्तु सूर्येऽप्यनले च दिष्टो वेणुर्नदे देशविशेषके च । सृणिः पुमान्वायुरवीन्दुवाची स्त्री[280b]पुंसयोरङ्कुशवाचकश्च ॥ Koṣakalpataru 6.15.17
  • कोषकल्पतरु कन्दरदेवखाते बिले पुंस्यसावङ्कुशे कंधरोऽम्भोधरे स्याच्छिरोधौ स्त्रियाम् । वल्लरं शाद्वले निर्जले च स्थले कुञ्जके क्षेत्रके श्रीतरौ पुंसि सः ॥ २७ ॥ Koṣakalpataru 6.27.27
  • नानार्थार्णवसंक्षेप सृणिबहुनिर्मितयोर्मुक्ते सृणिस्तु नरि पावके । अङ्कुशे तु स्त्रियामेव केचिदन्ये तु पुंस्यपि ॥ १५५१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1551
  • शब्दरत्नावली कन्दूरकटप्रूः कौणये पुंसि हाहि(?) रुद्रेऽक्षदेवने । कन्दरं कन्दरादर्यां कन्दूरस्त्वङ्कुशे पुमान् ॥ काश्मीरं कुङ्कुमे टङ्के क्लीबं पुष्करमूलके । कावेरी पण्यनार्याञ्च सरिद्भेदहरिद्रयोः ॥ Śabdaratnāvalī 7.27.62
  • तन्त्राभिधान रयकारः पवनः काली पुरुषोत्तम एव च । रोऽसुः पञ्चकसीशोऽग्निरङ्कुशं परगुर्विणी ॥ २५ ॥ Tantrābhidhāna 1.25