कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Pañcatattvaprakāśa

पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa

409 verses · 3,817 words tagged · 962 marked doubtful (dashed)

भूमिभानुः

इति श्रीपञ्चतत्त्वप्रकाशे वृक्षलतौषधिमरीचिः ।

सैन्यं वरूथिनी चक्रं ध्वजिनी चतुरङ्गिणी ।पताकिका ध्वजः केतुर्नासीरः पृतना मुखम् ॥ २१९ ॥
2.219 · p. 15
अनुष्टुप्
क्रोशतालः क्रोषरवो ढक्का विजयमर्द्दलः ।आताड्यो दुन्दुभिः भेरी भेरिका पटहानकौ ॥ २२० ॥
2.220 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्रो (wrong syllable)
मृदङ्गो मुरजो झिल्ली झिल्लिका कांस्यतालिका ।वेणुर्वंशी मुरलिका सुर्नाईकाष्टभेरिका ॥ २२१ ॥
2.221 · p. 16
अनुष्टुप्
शस्त्रमस्त्रं प्रहरणं हननं हेतिरायुधम् ।धनुः शरासनं चापः कोदण्डः कार्मुकेषुमुक् ॥ २२२ ॥
2.222 · p. 16
अनुष्टुप्
प्रत्यञ्चा सिञ्जिनी मौर्वी ज्या जीवा चापडोरकः ।चापाग्रमटिनी कोटिर्गोधा ज्याघातवारणम् ॥ २२३ ॥
2.223 · p. 16
अनुष्टुप्
कोदण्डमध्यं तलकः छुरिका खड्गधेनुका ।बाणः कलम्बो विशिखः शरः पत्री शिलीमुखः ॥ २२४ ॥
2.224 · p. 16
अनुष्टुप्
सायकेषू कङ्कपत्रो नाराचो मार्गणाभिधः ।तूणीर इषुधिस्तूणी निषङ्गः सायकाश्रयः ॥ २२५ ॥
2.225 · p. 16
अनुष्टुप्
लक्षं वेधनकं शक्यं कुठारः परशुः स्वधिः ।करवालो मण्डलाग्रः खड्गोऽसिर्ल्लोहपन्नगः ॥ २२६ ॥
2.226 · p. 16
अनुष्टुप्
तरवारिस्तीव्रमार्गः कृपाणः कोषमन्दिरः ।प्रासः कुन्तो लोहविद्युत् फलकं चर्म चार्मिकम् ॥ २२७ ॥
2.227 · p. 16
अनुष्टुप्
वारबाणः कण्टककः कवचो वर्मकञ्चुकः ।खड्गस्वसा लोहदंष्ट्रा तोमरं नागयोधनम् ॥ २२८ ॥
2.228 · p. 16
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
परिघो लोहलगुडो मुद्गरो द्रुघनः सृगः ।भुशुण्डी लोहनलिका नाडिकाऽतिभुशुण्डिका ॥ २२९ ॥
2.229 · p. 16
अनुष्टुप्
दारुका वह्निचूर्णाख्या सुरङ्गा दुर्गसर्पिणी ।समरः प्रधनं युद्धं जन्यमायोधनं मृधम् ॥ २३० ॥
2.230 · p. 16
अनुष्टुप्
सङ्ग्रामः संयुगः सख्यं स्कन्दनं संपरायकम् ।हस्तिपको हस्तिपालो निषादी गजकर्मवित् ॥ २३१ ॥
2.231 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
अश्वारोहो वाजिपालः सादी गन्धर्वधर्मवित् ।गोयानं शकटं षाड्गं हयगं स्यन्दनं रथः ॥ २३२ ॥
2.232 · p. 16
अनुष्टुप्
नृयानं दोलिका दोली भूपयानं चतुष्किका ।अपराधो मन्तुरागो दण्डो भूपवलिः करः ॥ २३३ ॥
2.233 · p. 16
अनुष्टुप्
निवेशः शिबिरं वस्त्रमन्दिरमुपकारिका ।वितानं मण्डपाच्छादो वस्त्रभित्तिस्तिरष्किका ॥ २३४ ॥
2.234 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 न्दि (wrong syllable)
मध्यालोका जवनिका कीलकं भूमिशङ्कुकम् ।सन्नद्धो दंशितः सज्झो वर्म्मितः कल्पितास्त्रकः ॥ २३५ ॥
2.235 · p. 16
अनुष्टुप्
धनुर्धनो धनुर्जीवो धानुष्कश्चापजीवनः ।निर्याणं गमनं यात्रा प्रस्थानमभिषेणनम् ॥ २३६ ॥
2.236 · p. 17
अनुष्टुप्
पांशुर्धूली रजो रेणुः केतुमद्वैजयन्तिका ।अग्रेसरः पुरोयायी वभयं? विजयो जयः ॥ २३७ ॥
2.237 · p. 17
अनुष्टुप्
पराजयः परिभवः कश्मलं मोहमूर्च्छने ।जेयः शक्योऽभिगन्तव्यः पराभूतः पराजितः ॥ २३८ ॥
2.238 · p. 17
अनुष्टुप्
निःकाशनं निराकारो गलहस्तः परासनम् ।निर्वापनं निहननं मारणं परिवर्ज्जनम् ॥ २३९ ॥
2.239 · p. 17
अनुष्टुप्
मृतः परासुर्निर्ज्जिवः प्रमीतस्त्यक्तजीवनः ।आसुः प्राणो वसुर्जीव आयुर्जीवितजीवने ॥ २४० ॥
2.240 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र्नि (wrong syllable)
कबन्धः शीर्षरहितः श्मशानं पितृकाननम् ।चिता चित्या चितिः काष्ठशय्या मृतकमन्दिरम् ॥ २४१ ॥
2.241 · p. 17
अनुष्टुप्
विपत्तिरापद्दुःखाधिः कुणपः शवकः शवः ।प्रग्रहोपग्रहौ बन्धः कारा बन्धनमन्दिरम् ॥ २४२ ॥
2.242 · p. 17
अनुष्टुप्
सिंहनादो वीरनादः क्ष्वेडा विजयनिःस्वनः ।आतो मृगव्यं मृगया मांसं पललमामिषम् ॥ २४३ ॥
2.243 · p. 17
अनुष्टुप्
विहङ्गिका पक्षिपेटी वागुरा मृगबन्धिनी ।मञ्जूषा पेटिका पेटी जालं जालकजालिके ॥ २४४ ॥
2.244 · p. 17
अनुष्टुप्
खगासनं खगसभा खगयष्टिर्विहङ्गिका ।भूतिर्विभूतिः संपत्तिः कोशो वसुसमुच्चयः ॥ २४५ ॥
2.245 · p. 17
अनुष्टुप्
जीविका वेतनं वृत्तिः द्रव्यं द्युम्नं धनं वसु ।कार्त्तस्वरम् शातकुम्भं हिरण्यं हेमहाटकम् ॥ २४६ ॥
2.246 · p. 17
अनुष्टुप्
रूप्यं श्वेतम् दर्पणकं रजतं तारशुक्लगू ।उदुम्बरं म्लेच्छमुखं वरिष्ठं शुल्बताम्रके ॥ २४७ ॥
2.247 · p. 17
अनुष्टुप्
हेमरुक्पित्तलं रीतिः लोहोऽयस्तीक्ष्णमायसम् ।सूतो रसः शम्भुशुक्रं पारदो रसराजकः ॥ २४८ ॥
2.248 · p. 17
अनुष्टुप्
रङ्गं चङ्गं त्रपुः शीतं नागं सर्पाह्वसीसके ।अभ्रकं गगनाकाशौ गन्धकं शक्तिशुक्रकम् ॥ २४९ ॥
2.249 · p. 17
अनुष्टुप्
बाह्लीकं रामठं हिङ्गुः कर्पूरं चन्द्रनामकम् ।सर्वस्वादुरसं क्षारं लवणं रोचकं बलम् ॥ २५० ॥
2.250 · p. 18
अनुष्टुप्
फाण्टं तक्रं दधिसुता नवनीतं सुधासितम् ।आज्यं रेतो घृतं हव्यं तेजो ज्योतिः सुधान्तिकम् ॥ २५१ ॥
2.251 · p. 18
अनुष्टुप्
रसातलं बलिग्रहं पातालं शेषवेशनम् ।तलातलाधोभुवने नागलोकोऽहिभूमिका ॥ २५२ ॥
2.252 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ग्र (wrong syllable)
गर्त्तो वटो भूमिखातो भूककुद्भूच्चकस्थलम् ।रन्ध्रं रोकं बिलं छिद्रं सुषिरं विवरं वषा ॥ २५३ ॥
2.253 · p. 18
अनुष्टुप्
दुर्गं कोटो गढो वप्री परिखा गर्त्तमालिका ।अश्मक्षेपणिका गोफ्णा तमिस्रं तिमिरं तमः ॥ २५४ ॥
2.254 · p. 18
अनुष्टुप्
विष्वक्तमः संतमसं गाढध्वान्तान्धतामसे ।क्षीणंतमोऽवतमसं? कद्रूरुरगजन्मदा ॥ २५५ ॥
2.255 · p. 18
अनुष्टुप्
व्रीहिः शालिस्तन्दुलिकः कलमः षष्ठिको गुडः ।कङ्गुः प्रियङ्गुर्नीवारो वनशालिर्मुनिप्रियः ॥ २५६ ॥
2.256 · p. 18
अनुष्टुप्
गोधूमो वर्हणो वल्पः तीक्ष्णशूको यवोऽवलः ।स्नेही तिलो वलीमाषः स्निग्धः सन्तर्पणः सरः ॥ २५७ ॥
2.257 · p. 18
अनुष्टुप्
पथ्यः कुलत्थः कुलथो मुष्टिको धूलिभूनिकः ।तीक्ष्णतैलः सर्षपकः चपला बहुला तसी? ॥ २५८ ॥
2.258 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
मसूरो मृदुलो वाती मुद्गो हव्योऽज्ञभूर्लघुः ।आढकी वातकी धन्या मारीचश्चणकः पुटी ॥ २५९ ॥
2.259 · p. 18
अनुष्टुप्
जवारिका दीर्घदण्डा कोद्रवः कठिनो सरः ।ग्राही घनो मटरको मरुधान्यकबाजरौ ॥ २६० ॥
2.260 · p. 18
अनुष्टुप्
वलायुधं हलं कुट्टं सीता लाङ्गलपद्धतिः ।लाङ्गलाग्रं फलं फालः क्षेत्रं धान्याकरक्षितिः ॥ २६१ ॥
2.261 · p. 18
अनुष्टुप्
सीत्यं हल्यं हलाकृष्टं क्षेत्राजीवः कृषीवलः ।बुसं कडङ्गरः शूकस्तुषो दण्डपलालकः ॥ २६२ ॥
2.262 · p. 18
अनुष्टुप्
धान्योच्चयः खललको राशिर्निस्तुषधान्यकः ।अयोग्रं मुसलः शूर्पः प्रस्फोटनमुलूखलम् ॥ २६३ ॥
2.263 · p. 18
अनुष्टुप्
दात्रं लवित्रं मन्थानो वैशाखो मन्थदण्डकः ।चालनी तितउश्चुल्ही चुल्हिकाऽग्नी हसन्तिका ? ॥ २६४ ॥
2.264 · p. 19
अनुष्टुप्
भ्राष्ट्रोऽम्बरीषं तत्कम्बिः कन्दुर्दर्विः खजाकिका ।ऋचीषकं लोहपृष्ठं कटाहः स्नेहपाचिका ॥ २६५ ॥
2.265 · p. 19
अनुष्टुप्
मलिकोऽलिञ्जरो वेल्लः चरुपाशी सनासिका ।कम्बुग्रीवो घटः कुम्भः शरावो वर्द्धमानकः ॥ २६६ ॥
2.266 · p. 19
अनुष्टुप्
कमण्डलुर्गण्डुकोऽब्दो भाण्डं पात्रममत्रकम् ।चषकश्चन्द्रभाण्डाह्वः स्थाली भोजनपात्रिका ॥ २६७ ॥
2.267 · p. 19
अनुष्टुप्
भक्तौदनावन्नमन्धः पायसं क्षीरिका जरा ।मण्डकः पोलिका पोली काकडाऽङ्गारमण्डकः ॥ २६८ ॥
2.268 · p. 19
अनुष्टुप्
अङ्गारकर्कर्याङ्गारी कृशरा खिच्चिका वला ।द्वैदलं सूपकः सूपो सूपपूषः कटुः सरः ॥ २६९ ॥
2.269 · p. 19
अनुष्टुप्
मण्डो ग्राही भक्तयूषो घृतपूरो निलापहः ।लड्डुको मोदकः फेणी फेणिका पूपपूपकौ ॥ २७० ॥
2.270 · p. 19
अनुष्टुप्
मधुशीर्षः खाजलाह्वो लप्सिका गुडपिष्टिका ।वटको माषघोण्टाको वटिका मासनग्निका ॥ २७१ ॥
2.271 · p. 19
अनुष्टुप्
पैष्टिका काञ्जिका काञ्जी पर्पटो माषमण्डकः ।तैलं तिलद्रवः स्नेहः शाकस्तेमनतैमलौ ॥ २७२ ॥
2.272 · p. 19
अनुष्टुप्
रसालाह्वा शिखरिणी पयस्यं दधि द्रप्सकम् ।दुग्धं पयः क्षीरसञ्ज्ञं क्वथिका तक्रमण्डिका ॥ २७३ ॥
2.273 · p. 19
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 धि (wrong syllable)
आसुरी राजिका राजी राजितैमनराघते? ।कचूरिकाङ्गजवरा शष्कुल्याह्वा जलेम्बिका ॥ २७४ ॥
2.274 · p. 19
अनुष्टुप्
सोहालिका पूरिकाख्या गुञ्झः पक्वान्नगुच्छलः ।मन्थः सक्तुः चिपिटकः पृथुकः क्षुत्क्षु[क्षु]धाभिधा ॥ २७५ ॥
2.275 · p. 19
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 1 पृथु (syllable split)
लाजास्तण्डुलपुष्पाणि तृषोदन्या पिपासिका ।आहारो जैमनं लेयः केला भुक्तसमुज्झितम् ॥ २७६ ॥
2.276 · p. 19
अनुष्टुप्
गोमेदजं पल्युलनं? चूर्णं क्षारः सुधाह्वयः ।कृष्णकन्दो गुडो ग्रन्थी शर्करा खण्डकः सिता ॥ २७७ ॥
2.277 · p. 20
अनुष्टुप्