तरु
taruपुं · masc.In 17 kośas: 16 synonym verses, 37 as a meaning of another word.
वृक्षोऽगः शिखरी च शाखिफलदावद्रिर्हरिद्रुर्द्रुमोजीर्णो द्रुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः ।नन्द्यावर्तकरालिकौ तरुवसू पर्णी पुलाक्यंह्रिपःसालानोकहगच्छपादपनगा रूक्षागमौ पुष्पदः ॥ १११४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
वृक्षो महीरुहः शाखी विटपी पादपस्तरुः ।अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षोंऽह्रिपः क्षितिरुहः शिखरी च शाखी,शालो वनस्पतिरगो विटपी कुठश्च ।अद्रिः कुजस्तरुरनोकह इत्यभिन्नाः,शब्दा द्रुविष्टरनगद्रुमपादपाश्च ॥ १७७ ॥
वसन्ततिलका
genderपुंmasc.
पाशोङ्कुशो भिन्दिपालः कणपः पट्टिशस्ततः ।भुशुण्डी शङ्खमुसलस्तरुगोफणपत्रणाः ॥ ३२३ ॥
अनुष्टुप्
genderपुंmasc.
वह्निपर्यायजन्मार्थो जन्तुरारोहकस्तरुः ।कारस्कर उरुर्द्वीपः पादपो विष्टर स्थिरः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
महीपर्यायरुहजपर्यायस्तरुरागमः ।कराली पुष्पफलद ऊर्णो रूक्षः पुलाक्यपि ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
फलदो भूरुहो भूजस्तरु-जर्ण-पलाशिनः ।सालः स्थिरः पुलाकी च रुह्वानोकह-पादपौ ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
त्सरुपुंभरुपुंमरुपुंचरुपुंशत्रुपुंतरुपुंमेरुपुंकेतुपुंसेतुपुंहेतुपुंतन्तुपुंधातुपुंकशेरुक्लीदारुक्लीजतुक्लीवस्तुक्लीमस्तुक्लीग्रन्थिपुंप्रस्थपुंसर्पिस्क्लीहविस्क्लीबर्हिस्क्लीवपुस्क्लीआयुस्क्लीधनुस्क्लीसौकुमार्यक्लीशौक्ल्यक्लीकार्ष्ण्यक्लीदाक्ष्यक्लीपाटलिपुंस्त्रीगोपुंस्त्रीमुष्टिपुंस्त्रीअशनिपुंस्त्रीबाहुपुंस्त्रीसिन्धुपुंस्त्रीमणिपुंस्त्रीआशिस्स्त्रीधुर्स्त्रीपुर्स्त्रीक्षुध्स्त्रीतृष्स्त्रीगिर्स्त्रीमुद्स्त्रीरुष्स्त्री
genderपुंmasc.
अनोकहस्तरुः शाखी विटपी फलिनो नगः ।द्रुमोऽङ्घ्रिपः फलेग्राही पादपोऽगो वनस्पतिः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
अमात्यादेर्गृहोद्याने वनं प्रमदपूर्वकम् ।तरुः शाखी नगो वृक्षः पर्णी कारस्करोंऽह्रिपः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
तरुर्महीरुहो वृक्षः पादपो विटपी कुटः ।पलाशी मूलपः शालो दुर्द्रुमो वल्लरीपतिः ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षो द्रुमस्तरुः शाखी पादपश्च महीरुहः ।अनोकहोंऽह्रिपः सालः पलाशी विटपी कुटः ॥ १४१ ॥
अनुष्टुप्
genderपुंmasc.
पादपः पुष्पदः पर्णी विटपी विष्टरस्तरुः ।शालः सालः पलाशी च पुलाकी फलदो वसु ॥ १९५४ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षः शाखी द्रुमो गच्छः पलाशी विटपी तरुः ।महीरुहो विष्टरः स्याद् महीरुट् पादपः कुचिः ॥
अनुष्टुप्
genderपुंmasc.
पादपवृक्षपलाशिद्रुमतरुकुटविटपिशाखिनगसालाः ।अगमो द्ररगो भूरुट् कुजोऽनोकह इत्यपि ॥ ४३९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अनोकहो नगो भूरुट् तरुः शाखी कुठः कुजः ।वसुः करालिकोऽगच्छो जर्णो रूक्षः पुलाक्यपि ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
तरु as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् शिखरिन्तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ ॥ १०६ ॥ Amarakośa 3.3.106
- धरणिकोश वटजटा लग्नकचे मूले मांसी च कर्करी जटा । वटी कपर्दके शुम्बे रक्तिकायां तरौ वटः ॥ Dharaṇikośa 10.2.7
- धरणिकोश वरुणहरणं यौतुकद्रव्ये हृतौ हरणमिष्यते । वरुणः कथितः सूर्ये वरुणौ तरुदिक्पती ॥ Dharaṇikośa 14.2.21
- धरणिकोश मुचुकुन्दमुचुकुन्दस्तरोर्भेदे मुनिदैत्यप्रभेदयोः । अभिष्यन्दं तु स्रवणमभिष्यन्दोऽक्षिको मलः ॥ Dharaṇikośa 17.2.19
- धरणिकोश शिखरिन्विलासी भोगिनि व्याले विषाणी गजशृङ्गिणोः । कलापी कोकिले प्लक्षे शिखरी पर्वते तरौ ॥ Dharaṇikośa 19.1.21
- धरणिकोश द्रुमद्रुमस्तरौ पारिजाते द्रुमः किंपुरुषेऽपि च । दमो दण्डः समाख्यातो दम इन्द्रियनिग्रहः ॥ Dharaṇikośa 24.2.4
- धरणिकोश प्लक्षप्लक्षः पिप्पलपर्कट्योर्गर्दभाण्डे तरावपि । प्लक्षो वीतियके द्वीपे द्वारपार्श्वे गृहस्य च ॥ Dharaṇikośa 33.3.3
- कोषकल्पतरु पर्णपर्णः पुंसि तरौ दले तु गमने पाने सहाये तथा सौपर्णेयपतत्रके च चरमे जर्णो जरच्चन्द्रयोः । जीर्णः स्यात्तरुशीर्णयोरितरवत्पूर्णस्तु शब्दे पुमां- स्त्रय्यां पूरितकृत्स्नयोरथ भवेज्जीर्णं सुपक्वेऽपि च ॥ ९ ॥ Koṣakalpataru 6.15.9
- कोषकल्पतरु वरुणमञ्जिष्ठातिविषात्रिवृत्सु वनिता तद्रागवत्स्वन्यव- द्वृक्षे पुंसि रसान्तरे च करुणः प्रोक्तो दयायां स्त्रियाम् । सूर्ये वारिपतौ तरौ च वरुणोऽथो कुब्जपुष्पे भवे- देरण्डे तरुणः स यूनि परवत्स्याद्दारुणो ना रसे ॥ १८ ॥ Koṣakalpataru 6.15.18
- कोषकल्पतरु जह्नुदानू पराक्रान्तवदान्यकौ स्तो मनू द्वयोरादिनृपालमन्त्रौ । हत्नू [उ ?]भावायुधमामयश्च जह्नू तरौ कृष्णनृपर्षिभेदौ ॥ ४ ॥ Koṣakalpataru 6.21.4
- कोषकल्पतरु शाखिन्शाखी तरौ वेदतुरुष्कलोके खड्गी तु खड्गान्वितशृङ्गिणि स्यात् । नागद्रुमादावपि गण्डके स्यात् स्युः सादिनोऽश्वेभरथाधिरोहाः ॥ ७५ ॥ Koṣakalpataru 6.21.75
- कोषकल्पतरु पलाशिन्वृक्षेऽप्यपामार्गतरौ च दुर्गे क्लीबे तु तद्धीरकरत्नवाचि । व्याले विलासी भुजगे सभोगे निशाचरे किं च तरौ पलाशी ॥ ४० ॥ Koṣakalpataru 6.21.40
- कोषकल्पतरु पादपअर्केऽनले स्यादुषपोऽथ मान- भेदे मुनौ ना कुटपस्तथैव । स्यान्निष्कुटेऽथो कुतपः स्त्रियां न दिनाष्टमांशे च[26b]कुशे च वाद्ये । स्यात्कम्बलेऽजस्य पुमांस्तु सूर्ये स्वसुश्च पुत्रेऽ प्युलपस्तु न स्त्री । वीरुद्गतो ना तु मृदौ तृणे स्या- च्चन्द्रे पुमान्स्यादुडुपः प्लवेऽस्त्री । विटाधिपे ना विटपोऽस्त्रियां तु स्कन्धोर्ध्वशाखासु तरोस्ततौ च । स्यात्पल्लवे चाथ निशाचरे ना स्याद्रक्तपः स्त्री नुवि( ? )पादपस्तु । स्यात्पादपीठे च तरौ च पुंसि स्त्री पादुकायां महिषे त्वनूपो ऽम्बुप्रायदेशे तु विशेष्यलिङ्गः । स्यात्पूतिगन्धे कुणपः शवेऽस्त्री न स्त्री तथावाप इहालवाले ॥ १३ ॥ Koṣakalpataru 6.22.13
- कोषकल्पतरु अङ्कुरखगद्रुभेदे च गिरौ चले तु विशेष्यगः स्यादथ चाङ्कुरोऽपि । रथे तरौ योषिति नाङ्कुरः स्या- दङ्कूरवद्रोम्णि जले च रक्ते ॥ ९ ॥ Koṣakalpataru 6.27.9
- कोषकल्पतरु कठेरगन्तरि पक्षिणि पुंसि पतेरः स्त्री तु करेणुपुराङ्गनयोः स्यात् । पुंसि तरूत्पलसंहतिवाची कृच्छ्रकजीविनि किं च कठेरः ॥ ६४ ॥ Koṣakalpataru 6.27.64
- कोषकल्पतरु कुठारुतरुवानरौ कुठारू दासेरावुष्ट्रदासिकापुत्रौ । हेम शटी चेति द्वौ कर्चूरौ वर्णयन्त्यार्याः ॥ ६८ ॥ Koṣakalpataru 6.27.68
- नानार्थार्णवसंक्षेप दृग्भूपेषण्यामश्ममात्रे च दृग्भूस्तु तरुसर्पयोः । बिले च द्रोहकजनैः कृतेऽथो नीलिकाह्वये ॥ ४९ ॥ Nānārthārṇavasaṃkṣepa 2.1.49
- नानार्थार्णवसंक्षेप नगमहानाम्न्यां त्रिधात्वादिवाक्येऽन्योऽर्थोऽस्य मृग्यताम् । नगो गिरौ तरौ नस्र ऋषौ नासापुटेऽप्यथ ॥ ६७ ॥ Nānārthārṇavasaṃkṣepa 2.2.67
- नानार्थार्णवसंक्षेप कुजद्वयोः पशौ कुजस्तु स्यात् पुमानङ्गारके तरौ । भूमिजे तु त्रि कुञ्जस्तु न स्त्री गह्वरदन्तयोः ॥ २३० ॥ Nānārthārṇavasaṃkṣepa 2.5.230
- नानार्थार्णवसंक्षेप तोरणतोरणस्त्वस्त्रियां गेहे (१)बहिर्द्वारे नपि त्वदः । तरुप्रभेदेऽस्य फले त्वरायां चाथ तोषणम् ॥ ८९३ ॥ Nānārthārṇavasaṃkṣepa 4.893
- नानार्थार्णवसंक्षेप शिखरिन्अपामार्गसमाख्ये च स्तम्बे रभस उक्तवान् । तरौ च स्त्री तु विज्ञेया छन्दस्यत्यष्टिसंज्ञके ॥ १८३६ ॥ Nānārthārṇavasaṃkṣepa 4.1836
- नानार्थार्णवसंक्षेप हारणकुन्तभेदे हारकस्तु यष्टिसंज्ञायुधान्तरे । पुमान् हर्तरि तु त्रि स्याद्धारणस्तु पुमांस्तरौ ॥ २०३३ ॥ Nānārthārṇavasaṃkṣepa 4.2033
- परमानन्दीयनाममाला चरुद्रे च हनने घा तु क्षुद्रघण्टौ घनध्वने । ङकारो विषये भीमे चस्तरौ चन्द्रचोरयोः ॥ १५ ॥ Paramānandīyanāmamālā 1.15
- परमानन्दीयनाममाला अब्जअर्घो मूल्येऽर्चनेऽथाब्जो विधौ धन्वन्तरौ तरौ । जम्बालशङ्खयोरब्जं संख्यायां कमलेऽपि च ॥ ३ ॥ Paramānandīyanāmamālā 5.1.3
- परमानन्दीयनाममाला अङ्कूररक्ते जले तरौ रोम्ण्यभया तु स्याद्धरीतकी । अभयो निर्भये वीरणीमूले मञ्जुलेऽपि च ॥ २३ ॥ Paramānandīyanāmamālā 5.1.23
- परमानन्दीयनाममाला उल्लाघउदर्चिः पावके वीरेऽनुजेतितरुणोद्रुवोः । उल्लाघो गतरोगे च तरौ निपुणहृष्टयोः ॥ ६७ ॥ Paramānandīyanāmamālā 5.3.67
- परमानन्दीयनाममाला कुलिककटकं कङ्कणे सैन्ये राजधानीनितम्बयोः । कुलिकस्तु तरौ नागे कुलश्रेष्ठेऽपि कथ्यते ॥ १२५ ॥ Paramānandīyanāmamālā 5.7.125
- परमानन्दीयनाममाला करहाटकरहाटः प्रसूने स्यात्पद्मकन्दे तरावपि । कौलेयकः कुलोत्पन्ने सारमेये तथाम्बुजे ॥ १३६ ॥ Paramānandīyanāmamālā 5.7.136
- परमानन्दीयनाममाला जम्भजम्भोंऽशेऽप्यशने दन्ते तरौ तूणेऽसुरान्तरे । जटा मांस्यां वृक्षमूले विकारे केशसंततेः ॥ १९७ ॥ Paramānandīyanāmamālā 5.13.197
- परमानन्दीयनाममाला जीवकजीविका वर्तनेऽथोक्तो जीवकः सेवके तरौ । प्राणके चातके व्यालग्राहे वृद्ध्युपजीविनि ॥ २०३ ॥ Paramānandīyanāmamālā 5.13.203
- परमानन्दीयनाममाला द्रुममेघे [25] मूर्खे द्विजो विप्रे दन्तनीडजयोरपि । द्रुमो रत्ने तरौ दिष्टिर्हर्षे मानेऽपि कथ्यते ॥ २४० ॥ Paramānandīyanāmamālā 5.16.240
- परमानन्दीयनाममाला धवधन्वी धनुर्धरे छेके ध्रुवः कीलकशर्वयोः । धवः प्रिये तरौ भीरौ धीदा कन्यामनीषयोः ॥ २५६ ॥ Paramānandīyanāmamālā 5.17.256
- परमानन्दीयनाममाला नगनगो भूध्रे तरौ नाम कुत्साख्यामन्त्रणेष्वथ । निर्वेशो मूर्च्छने स्तूपभोगेऽथ निगमः पुरे ॥ २६९ ॥ Paramānandīyanāmamālā 5.18.269
- परमानन्दीयनाममाला पीलुपीलुः काण्डे तरौ पुष्पे परमाणौ मतङ्गजे । पृथुर्भूपे विशाले च पुरं मन्दिरदेहयोः ॥ २९१ ॥ Paramānandīyanāmamālā 5.19.291
- शब्दरत्नाकर चन्द्रअदने हरिते घासो घृणिर्ज्वालांशुवीचिषु । चन्द्रः शशिनि कर्पूरे तरौ हेम्नि नपुंसके ॥ १९१६ ॥ Śabdaratnākara 4.1.1916
- त्रिकाण्डशेष तिलकतिलकं चित्रके क्लोम्नि ना तरौ तिलकालके । गृहदारौ तण्डकोऽस्त्री समासप्रायवाचि च ॥ २५ ॥ Trikāṇḍaśeṣa 3.3.25
- त्रिकाण्डशेष पिप्पलपरमाणौ च पीलुः स्याद्देहे चात्मनि पुद्गलः । शस्ताकारेऽप्यथ तरौ पिप्पलः पिप्पलं जले ॥ ३९८ ॥ Trikāṇḍaśeṣa 3.3.398