कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

स्वर्गस्कन्धः · स्त्र्यादिलिङ्गप्रकाण्डः (1/2)

मांसीहरिद्रालूदूर्वावलाकाकृष्णलागिराम् ।यत्तु प्राण्यङ्गवाचि स्यादीदूदेकस्वरं कृतः ॥ ४ ॥
3.5.4 · p. 461
अनुष्टुप्
पात्रादिवर्जितादन्तोत्तरपदः समाहारे ।द्विगुरत्रावन्तान्तो वाऽन्यस्तु सर्वो नपुंसकः ॥ ५ ॥
3.5.5 · p. 461
metre not recognised
लिन्मिष्टनिण्यणि स्त्र्युक्ताः क्वचित्तिङल्पह्रस्वकम् ।विंशत्याद्याशताद्द्वन्द्वे साचैक्ये द्वंद्वनेपशो ॥ ६ ॥
3.5.6 · p. 461
अनुष्टुप्metre not read in every line
लता गीतिस्रुचो भेदे ध्रुवाविटः प्रजाविशोः ।घटीभबन्धयोर्वारी दुन्दुभावक्षविन्दुषु ॥ ७ ॥
3.5.7 · p. 461
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
क्ष्वेडा वंशशलाकायां वाद्यभेदे तथा ध्वनौ ।गृह्या शाखापुरे प्रान्तेऽन्तिका कीला रताहते ॥ ८ ॥
3.5.8 · p. 461
अनुष्टुप्
महत्यर्थे त्वरण्यानी हिमानी यवनान्यपि ।लिप्यां दोषे यवानी स्याद्रज्जौ रश्मिः सुरागृहे ॥ ९ ॥
3.5.9 · p. 461
अनुष्टुप्
फलपाकगृहे गञ्जाप्यथाहंपूर्विकादिकाः ।मघा अप्कृत्तिका वर्षाः स्युर्बहुत्वे निरन्तराः ॥ १० ॥
3.5.10 · p. 462
अनुष्टुप्
वा बहुत्वे त्वप्सरसः सिकताः सुमनः समाः ।गायत्र्युष्णिक्प्रभृतयश्छन्दोभेदास्तथाष्टकाः ॥ ११ ॥
3.5.11 · p. 462
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्व (wrong syllable)
कूर्चिका कोशिका केका कोणिका च कृपाटिका ।स्यात्पक्षिका कञ्चुलिका ततोऽपि च गवेधुका ॥ १३ ॥
3.5.13 · p. 462
अनुष्टुप्
स्यात्पाचिका पूपलिका पञ्चिकाऽपि च पिण्डिका ।पर्यस्तिका बृहतिका मानिका मिहिका तथा ॥ १५ ॥
3.5.15 · p. 462
अनुष्टुप्
मक्षिका चापि मूका स्याद्वाका तद्वद्विपादिका ।धालुका शिविकान्यूका शम्बूकाऽपि च सर्जिका ॥ १६ ॥
3.5.16 · p. 462
अनुष्टुप्
भङ्गा जङ्घा च सरघा वचा चिञ्चा यदृच्छया ।कच्छा पिच्छा भुजा पिञ्जा स्यात्तुल्या प्रजया स्वजा ॥ १८ ॥
3.5.18 · p. 462
अनुष्टुप्
गाथा कन्था कुथा तद्वद् गदा स्यादजमोदया ।मर्यादा चानुराधेक्षुगन्धा गोधा च राधया ॥ २२ ॥
3.5.22 · p. 463
अनुष्टुप्
तुल्या सुधा स्वधा धाना रास्ना सूना कृपाऽपि च ।झञ्झा पंपा प्रपा तद्वद्वपा शंपा शिफाऽथ च ॥ २३ ॥
3.5.23 · p. 463
अनुष्टुप्
उपकार्या तथा कुल्या कक्ष्या चित्या च छायया ।इष्मा नस्या च पर्याद्या पर्यागया च मायया ॥ २५ ॥
3.5.25 · p. 463
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable); pāda 4, syllable 3 ग (wrong syllable)
मङ्गल्या रथ्यया तुल्या शस्या सन्ध्यार्द्रया समा ।कजेराकृसरेर्वारुः क्षुद्रा गोत्री च कन्धरा ॥ २६ ॥
3.5.26 · p. 463
अनुष्टुप्
धारा परम्परा गुन्द्रा छत्रा दंष्ट्रा च भस्त्रया ।प्रतिसीरा च मथुरा मात्रा भद्रा च मन्दुरा ॥ २७ ॥
3.5.27 · p. 463
अनुष्टुप्
मेला माला मेखला स्याद्रसाला लालया समा ।सुवर्चला सिध्मलाऽपि हेलया सर्वला समा ॥ ३० ॥
3.5.30 · p. 464
अनुष्टुप्
स्याद्राक्षा काङ्क्षया कक्षा मूषा मञ्जूषया समा ।लाक्षा लिक्षा च शेमूषा स्नसा स्याद्वस्नया समा ॥ ३२ ॥
3.5.32 · p. 464
अनुष्टुप्
स्याद्वितर्दिस्तिरीतिश्च दर्विर्नी विश्छविर्लविः ।राजिर्जाती रुचिः श्रेणी सूचिः साची खलिः खनिः ॥ ३५ ॥
3.5.35 · p. 464
अनुष्टुप्
वल्लरी काकिनी वीथी परिपाट्या रविः क्षुरिः ।मज्जरिर्लहरिर्भेरी राटिराठिर्भुशुण्ड्यपि ॥ ३८ ॥
3.5.38 · p. 465
अनुष्टुप्
ह्रादिनी स्वेदिनी कीर्त्तिरपदी हरणी स्थगी ।कर्त्तरील्पश्मरी तद्वत्प्रतोल्यक्षवती ब्रुसी ॥ ४१ ॥
3.5.41 · p. 465
अनुष्टुप्
गोष्ठी वानी रसवती मत्स्यण्ड्या सह दामनी ।कस्तूरी सिञ्जिनी मौर्वी क्षैरेय्यपि च देहली ॥ ४४ ॥
3.5.44 · p. 465
अनुष्टुप्
शष्कुली च चमूर्दद्रूः कर्णान्दूरक्तुरित्यपि ।कच्छूस्तनूर्गीः प्रियङ्गुश्चञ्चुस्तापुर्जुहूस्ततः ॥ ४५ ॥
3.5.45 · p. 466
अनुष्टुप्
सीमन् शरद्दृशदृक् दृशस्रक् त्वक् स्फिग्द्वार्धुरौ च नौः ।द्यौर्दिव् प्रावृट् त्विट्तृषौ दिगेषेति प्रकृतिः स्त्रियः ॥ ४६ ॥
3.5.46 · p. 466
metre not recognisednearly अनुष्टुप्
पुंलिङ्गमृतुहस्तौष्ठकोष्ठाधूनां नखस्य च ।कपोलकेशदिवसरसानां स्तनगुच्छयोः ॥ ४७ ॥
3.5.47 · p. 466
अनुष्टुप्
निर्यासगुल्फकेशानां पतद्ग्रहकुठारयोः ।रथाशनिश्वेतकण्टकफासीनामरेरपि ॥ ४८ ॥
3.5.48 · p. 466
अनुष्टुप्
वोलप्रवालमुरजद्विपानामभ्रपङ्कयोः ।सेवध्यम्बुधिमन्थानां विषयस्याशुगस्य च ॥ ४९ ॥
3.5.49 · p. 466
अनुष्टुप्
शोणमासद्रुमादीनां धान्याग्न्यध्वरदेहिनाम् ।महतां सभिदां नाम मानहायनयोरपि ॥ ५० ॥
3.5.50 · p. 466
अनुष्टुप्
तथावप्राछवर्हाणामनुवाकाङ्करक्तकैः ।सनक्तवैः पुंखरङ्गसमुद्गानां भगस्य च ॥ ५१ ॥
3.5.51 · p. 466
अनुष्टुप्
अपाङ्गमङ्गवेगानां वर्गस्यार्घाघयोरपि ।गञ्चपुच्छगच्छपिच्छकलिञ्जपुञ्जयोरपि ॥ ५२ ॥
3.5.52 · p. 466
अनुष्टुप्metre not read in every line
मुञ्जवाजाजावटानां तथा पट्टप्रकोष्ठयोः ।कोष्ठाङ्गुष्ठघटानां च प्रगण्डस्य गुडस्य च ॥ ५३ ॥
3.5.53 · p. 467
अनुष्टुप्
कूष्माण्डगण्डलगुडकरण्डानां ततः पुनः ।वरुडस्य पिचण्डस्य भ्रूणस्य च गुणस्य च ॥ ५४ ॥
3.5.54 · p. 467
अनुष्टुप्
नाडीव्रणोत्पातपोतव्रातानां पृषतस्य च ।कुन्तालक्तकपिष्ठातार्षानां जनपदस्य च ॥ ५५ ॥
3.5.55 · p. 467
अनुष्टुप्
कपर्दगदयोस्तद्वदगदस्य गदस्य च ।वुद्वुदागाधस्कन्धार्द्धगन्धानां फेनचिह्नयोः ॥ ५६ ॥
3.5.56 · p. 467
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ध (wrong syllable)
अनातोद्येऽपि च घनः शब्दे ध्वानस्वनौ ततः ।जताह्रामिजनानां च देवनेन समं पुनः ॥ ५७ ॥
3.5.57 · p. 467
अनुष्टुप्
स्यात्परिधानतस्यापि कलापसूपयोरपि ।स्तूपापूपशोफशेफनितम्बस्तम्बयोरपि ॥ ५८ ॥
3.5.58 · p. 467
metre not recognised
स्याच्छन्दतिष्यपुष्याणां पाञ्चजन्यनिकाय्ययोः ।सिचयामित्रमित्राणां तद्वद्वृत्रकटत्रयोः ॥ ५९ ॥
3.5.59 · p. 467
अनुष्टुप्
पुण्ड्रकल्लोलतल्लानां गलहिङ्गुलयोरपि ।खलोल्लोलपोटगलरुण्डोलानां … ॥ ६० ॥
3.5.60 · p. 467
अनुष्टुप्metre not read in every line
… कालपुद्गलयोरपि ।गोलाजगलवालानां तद्वत्कामलतालयोः ॥ ६१ ॥
3.5.61 · p. 468
अनुष्टुप्metre not read in every line
कुद्दालस्य निचोलस्य वारुलपत्रवालयोः ।स्याद्बाहुलदेवलयोर्जटिलस्य शिवस्य च ॥ ६२ ॥
3.5.62 · p. 468
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable); pāda 3, syllable 4 ल (wrong syllable)
आदीनवावयवयोर्दावमाधवयोरपि ।पणवध्रुवहावानां पुरोडाशांशयोरपि ॥ ६३ ॥
3.5.63 · p. 468
अनुष्टुप्
उडीशकुशकोटीशकुल्माषाणां वृषस्य (च) ।यज्ञनिर्यूहकलहनिःकुहाहसनस्ततः ॥ ६४ ॥
3.5.64 · p. 468
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नरासिराशिवमतिदुन्दुभीनामृषेरपि ।वृष्णिपाण्यञ्जलिज्ञातिगिरीणां कलिना सह ॥ ६५ ॥
3.5.65 · p. 468
अनुष्टुप्
अविराजिध्वनिशिशुकर्षूजायुयुजामपि ।हाहाहूहू नग्नहूनां गमत्पां दश्मनामपि ॥ ६६ ॥
3.5.66 · p. 468
अनुष्टुप्
स्थेमोष्मपक्ष्मणामात्मपाप्मनोर्मातरिश्वनः ।कठणथपभोपान्ता यद्यदन्ता अमी पुनः ॥ ६७ ॥
3.5.67 · p. 468
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ण (wrong syllable)
मभयरषसोपान्ता गोत्राख्याचरणाह्वयाः ।नाम्न्यकर्त्तरिभावे च द्व्यजजघ्न्यङ्णघाथुचः ॥ ६८ ॥
3.5.68 · p. 468
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
स्युः कर्त्तरीमनिज्भावे को घोः किः प्रादितोऽन्यतः ।द्वन्द्वेऽश्ववडवावश्ववडवं तत्समाहृते ॥ ६९ ॥
3.5.69 · p. 469
अनुष्टुप्
बर्होछदे बर्हिरग्नौ ब्रीहिभेदे तु हायनः ।मस्तुः सक्तौ वर्हिवव्रे स्यादच्छः स्फटिकेऽपि च ॥ ७० ॥
3.5.70 · p. 469
अनुष्टुप्
नीलो मणौ रवौ मित्रस्तलस्तालचपेटयोः ।कोणेऽश्रिश्चषकोऽशोको नाभिः क्षत्रियवेधसोः ॥ ७१ ॥
3.5.71 · p. 469
अनुष्टुप्
इति पुंसः प्रकृतयः स्युरेतेऽथ नपुंसकम् ।तलस्तु तालसंयुक्तो रुजुपान्तं ततः पुनः ॥ ७२ ॥
3.5.72 · p. 469
अनुष्टुप्
वेधआदीन्विना सान्तं द्विस्वरं मन्नकर्त्तरि ।धनरत्ननभोऽन्नानां मनसो घुसृणस्य च ॥ ७३ ॥
3.5.73 · p. 469
अनुष्टुप्
शुभावद्यहृषीकाणां शुक्लस्य जलपुष्पयोः ।दलांशुकमनोदारुविलपिच्छधनुर्युधाम् ॥ ७४ ॥
3.5.74 · p. 469
अनुष्टुप्
सुखदुःखत्वचरुचहलताल्वस्थिहिङ्गुनाम् ।भेषजागुरुसृक्काणामपि तुत्थकुसुम्भयोः ॥ ७५ ॥
3.5.75 · p. 469
अनुष्टुप्
शिलाभवान्तिकदृशां सिध्मवल्कलयोरपि ।यकृन्मरिचनलदसौवीराणां तथाऽसृजः ॥ ७६ ॥
3.5.76 · p. 469
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रि (wrong syllable)
क्लोमधौतेयकद्वारफेनानां लवणस्य च ।प्रसूनव्यजनस्थानद्रवन्नामानि यानि च ॥ ७७ ॥
3.5.77 · p. 469
अनुष्टुप्
पुरसद्माङ्गयोः शीर्षछत्रयोः पुण्डरीकके ।मधुद्रवे ध्रुवं शश्वत्तर्कयोः खपुरं घटे ॥ ७८ ॥
3.5.78 · p. 470
अनुष्टुप्
अपूर्वदैवकार्यादौ युगं दृष्टं तथा कटु ।असेद्वृद्धः स्थले धन्वारिष्टमद्रुमपक्षिणोः ॥ ७९ ॥
3.5.79 · p. 470
अनुष्टुप्
धर्मं दानादिके तुल्यभागेऽर्द्धं ब्राह्मणं श्रुतौ ।न्याय्ये सारं पद्ममिभबिन्दौ काममनुमतौ ॥ ८० ॥
3.5.80 · p. 470
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नु (wrong syllable)
खलं भुवि तथा लक्षं वेध्येऽहःसुदिनैकतः ।भूमौ संख्यात एकार्थे पथः संख्याव्ययोत्तरः ॥ ८१ ॥
3.5.81 · p. 470
अनुष्टुप्
द्वन्द्वैकत्वाव्ययीभावौ क्रियाव्ययविशेषणे ।कृत्याः क्तान्ताः खलनिजभाव आत्वदिः समूहजः ॥ ८२ ॥
3.5.82 · p. 470
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गायत्र्याद्यरारस्वार्थे व्यक्तमथानञ् कर्मधारयः ।तत्पुरुषो बहूनां चेच्छाया शाला विना सभा ॥ ८३ ॥
3.5.83 · p. 470
metre not recognised
राजवर्जितराजार्थराक्षसादेः पराऽपि च ।आदा उपक्रमो यज्ञे कन्थोशीनरनामनि ॥ ८४ ॥
3.5.84 · p. 470
अनुष्टुप्
सेनाशाला सुराछायानिशंचोर्णा शशात्परा ।भाभूणो गृहतः स्थूणा संख्याऽदन्ता शतादिका ॥ ८५ ॥
3.5.85 · p. 470
अनुष्टुप्
शालूकपुष्पकानूकमौक्तिकानां त्रिकस्य च ।छात्राकशल्कचिबुककुतुकानां ततोऽपि च ॥ ८६ ॥
3.5.86 · p. 470
अनुष्टुप्
माक्षिकालीकधान्याकतोकानां सौप्तिकस्य च ।तित्तिडीकक्लीतकयोः कञ्चुकोलुकयोरपि ॥ ८७ ॥
3.5.87 · p. 471
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्ली (wrong syllable)
माध्वीकनिम्बकल्कानां कवकालिकयोस्तथा ।स्यान्नाटकभाणकयोस्तोटकाह्निकयोरपि ॥ ८८ ॥
3.5.88 · p. 471
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
हलीमकरूपकयोः खण्डकस्य ततः पुनः ।स्याज्जालकवेणुकयोर्वैटिकान्वितयोरपि ॥ ८९ ॥
3.5.89 · p. 471
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable); pāda 3, syllable 4 क (wrong syllable)
वास्तुकोपसूर्यकयोः कारकनिःशलाकयोः ।प्रकीर्णकशीर्षकयोः कुहकमधुपर्कयोः ॥ ९० ॥
3.5.90 · p. 471
metre not recognised
तद्वच्चित्तकरुचककुलकानां स्फिगस्य च ।स्वलिङ्गाङ्गप्रगानां च तद्वत्स्याच्चोचपिञ्जयोः ॥ ९१ ॥
3.5.91 · p. 471
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्त (wrong syllable)
बीजारिष्टघुटेष्टानां ललाटव्युष्टयोरपि ।कृपाटपिष्टशृङ्गाटकरोटानां … ॥ ९२ ॥
3.5.92 · p. 471
अनुष्टुप्metre not read in every line
… तथा मोरटघृष्टयोः ।… गोष्ठाण्डतुण्डानां प्रवणस्येरिणस्य च ॥ ९३ ॥
3.5.93 · p. 471
metre not recognised
पिङ्गाणतीक्ष्णद्रविणपुराणानामृणस्य च ।घ्राणपर्याणहरिणलवणानां शणस्य च ॥ ९४ ॥
3.5.94 · p. 471
अनुष्टुप्
परायणोऽल्पशरणकार्मणानां ततः पुनः ।क्षुस्यधोरणभूतानां निशान्ताश्मन्तयोरपि ॥ ९५ ॥
3.5.95 · p. 471
अनुष्टुप्
स्याद्वीतवृन्ततूस्तानां तुत्थवाहित्थयोरपि ।गोधाछोदकुसीदानां कुसिदास्यदयोरपि ॥ ९६ ॥
3.5.96 · p. 472
अनुष्टुप्
वृन्दतुन्दपदानां च निम्नस्य शिल्पतल्पयोः ।पुष्पान्तरीपकूर्माणां त्रिविष्टपपरीपयोः ॥ ९७ ॥
3.5.97 · p. 472
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
रूपस्य निकुरम्बस्य तद्वच्छुल्वकुटुम्बयोः ।स्यात्तलभप्रसभयोस्तथैव युग्मतोक्मयोः ॥ ९८ ॥
3.5.98 · p. 472
अनुष्टुप्metre not read in every line
सूक्ष्मस्य किलिमस्यापि तथैव तलिमेर्मयोः ।तिग्माध्यात्मशुष्मधाम्नां शयनीयत्रिसन्ध्ययोः ॥ ९९ ॥
3.5.99 · p. 472
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्म (wrong syllable)
सायेन्द्रियकिशलयखेयद्रुवययोरपि ।भयद्वापरयोः क्षेत्रसत्रयोरजिरस्य च ॥ १०० ॥
3.5.100 · p. 472
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)
शृङ्गवेराम्रतीराणां पुष्करागारयोरपि ।नागरोत्तरयोः स्फारशूरयोः कदरस्य च ॥ १०१ ॥
3.5.101 · p. 472
अनुष्टुप्
ककुन्दरप्रान्तरयोः स्यादौशीरकुटीरयोः ।अपि सिन्दूरमण्डूरशिविराणामरस्य च ॥ १०२ ॥
3.5.102 · p. 472
अनुष्टुप्
चामरक्रूरदूराणां स्यात्कलेवरवेरयोः ।खुरोलूखलपातालयौतवानां दिवस्य च ॥ १०३ ॥
3.5.103 · p. 472
अनुष्टुप्
सान्त्वसत्त्वार्त्तवानां च तद्वत्स्यात् किण्वविश्वयोः ।तथा दृषस्य कुलिशस्यार्पिशस्यामिषस्य च ॥ १०४ ॥
3.5.104 · p. 472
अनुष्टुप्
शीर्षमन्दाक्षपीयूषकिल्विषाणां ततः परम् ।तर्षजीषऋषाणां च काशीसस्य तथैव च ॥ १०५ ॥
3.5.105 · p. 473
अनुष्टुप्
… काशीसवत्सानां तथैव साध्वसस्य च ।महानससाहसयोः प्रियालोरपि सच्छ्रितः ॥ १०६ ॥
3.5.106 · p. 473
metre not recognised
तुम्बरुस्वादुयातूनां मालुताल्वोरनन्तरम् ।कसेरोश्च शलालोश्च ललामजगतोरपि ॥ १०७ ॥
3.5.107 · p. 473
अनुष्टुप्
भसत्संपत्ककुत्पर्वमहद्वृषत्पुरीतताम् ।स्याद्रोम्णोऽह्न इतीहोक्ताः क्लीबप्रकृतयोऽथ तु ॥ १०८ ॥
3.5.108 · p. 473
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्वृ (wrong syllable)
पुंसि स्त्रियां च शङ्कुः स्यादङ्कस्थाने चतुर्दशे ।निरये दुर्गतिः कक्षो दोर्मूले गर्त्त आकरे ॥ १०९ ॥
3.5.109 · p. 473
अनुष्टुप्
स्याद्वाणपिप्पलौ वृक्षे नाभिर्वृन्ते तु वर्ष्मणः ।बलिरर्थविशेषेऽपि प्रधिर्नेमौ कुटो गृहे ॥ ११० ॥
3.5.110 · p. 473
अनुष्टुप्
श्रोण्यौषध्योः कटो मोहे भ्रमः कुम्भो घटेऽपि च ।वृन्दागोलकयोः पिण्डः स्फुलिङ्गलेशयोः कणः ॥ १११ ॥
3.5.111 · p. 473
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)
भकनीनिकयोस्तारो वराटो रज्जुशस्त्रयोः ।भेऽश्लेषहस्तश्रवणाः मेरुजम्ब्वां सुदर्शनः ॥ ११२ ॥
3.5.112 · p. 473
अनुष्टुप्
यष्ट्यर्कांशुसमुद्रेषु तरणिर्भूपदेयके ।भागधेयः करेणुस्तु करिणीकरिणोरपि ॥ ११३ ॥
3.5.113 · p. 473
अनुष्टुप्
लाजावस्त्रदशाभूम्नी दायाः प्रत्ययभेदतः ।अल्पाख्यापत्यवचनतद्धितस्तिन्दुकस्य तु ॥ ११४ ॥
3.5.114 · p. 474
अनुष्टुप्
चर्मप्रसेवकस्य स्याद्घुटिकस्य ततोऽपि च ।शुण्डिकस्य सल्लंकस्य शल्यकस्याप्यनन्तरम् ॥ ११५ ॥
3.5.115 · p. 474
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
वृश्चिकस्य चुलुकस्य स्याद्धुडुक्कतुरष्कयोः ।पिपीलकस्य शुङ्गौघलम्बानां भुजशाटयोः ॥ ११६ ॥
3.5.116 · p. 474
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 लु (wrong syllable)
फडचुडगुडानां च तथैव फणशाणयोः ।वारिपर्णस्य गर्तस्य रथाजमोदयोरपि ॥ ११८ ॥
3.5.118 · p. 474
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 चु (wrong syllable); pāda 4, syllable 3 ज (wrong syllable)
विधकूपकलम्बानां जित्यस्य सहवध्रया ।सहचरमुद्गरयोर्हीरस्य कृशरस्य च ॥ ११९ ॥
3.5.119 · p. 474
अनुष्टुप्metre not read in every line
नालिकेरस्य शारस्य बहुकरकुठारयोः ।स्यान्मसूरशफरयोर्वल्लरस्य ततः पुनः ॥ १२० ॥
3.5.120 · p. 474
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 हु (wrong syllable); pāda 3, syllable 4 र (wrong syllable)