कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मणिमाला

maṇimālāस्त्री · fem.

In 4 kośas: 3 synonym verses, 3 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.169 · p. 93
उपविष्टं प्रियं कान्ता सुप्ता वेष्टयते यदि ।तल्लतावेष्टितं ज्ञेयं कामानुभववेदिभिः ॥अर्धेन्दुस्तु नखाङ्कश्चोत्पलपत्रं नखक्षतम् ।तत्स्त्रीकुचे बर्कराटः शृङ्गारप्रणवोऽधरे ॥मणिमाला च खण्डाभ्रं नारीणां दशनक्षतम् ।अथ स्याद्दशनोच्छिष्टं यूनोरधरचुम्बने ॥स्याद्ग्राम्यधर्मो मदनोत्सवश्च[60b]व्यवाय-संभोगक-संप्रयोगाः ।कुरीर-संवेशन-मोहनानिमहासुखं स्यात्सुरतं रतं च ॥ १६९ ॥
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 स्या (wrong syllable)
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.74 · p. 103
मणिमाला ध्वनिमाला हरिताली सुरताली च ।लट्वा खट्वा मूर्वा दर्विर्नीविश्छविर्मौर्वी ॥ ७४ ॥
उपगीतिःmetre not read in every line
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.1009 · p. 126
वङ्क्षणालीकवक्षः सु गले च रदनैः कृता ।या क्षतिर्मणिमाला सा बिन्दुमालानुकारिणी ॥ १००९ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास लार्धश्लोकः Dharaṇikośa 27.2.50 · p. 198
मणिमाला तु हारेषु दन्तक्षतान्तरेष्वपि ।कृताञ्जलिरौषधौ स्याद्विहिता येन चाञ्जलिः ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 क्ष (wrong syllable); pāda 3, syllable 4 लि (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.81 · p. 356
स्त्रीणां दन्तक्षतभिदि मणिमाला स्यात्तथा हारे ।वेणौ तु ध्वनिमाला वीणायां काहलायां च ॥ ८१ ॥
metre not recognised
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.112 · p. 284
भद्रकाली च गन्धोल्यां कात्यायन्यामपि स्त्रियाम् ।महाकालो महादेवे किम्पाके प्रथमान्तरे ॥भवेन्मदकलो पचगजेऽव्यक्तप्रलापिनि ।महाबलो बृहद्वीर्ये सीसकेऽपि च न द्वयोः ॥महानीलो भृङ्गराजे मणिनागविशेषयोः ।मणिमाला स्त्रियां हारे लक्ष्म्यां दन्तक्षतान्तरे ॥मुक्ताफलञ्च कर्पूरे मौक्तिके लवलीफले ।भवेद्यवफलो मांसकूटजप्लक्षवेणुषु ॥रजस्वला पुष्पवत्यां महिषे तु रजस्वलः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 प (wrong syllable)