All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)
द्वितीयः काण्डः · नाट्याध्यायः
इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे उक्तिभेदाध्यायः षोडशः ॥
नाट्याध्यायः
विपञ्ची वल्लकी वीणा नकुलोष्ठी पिनाकिनी ।कुब्जिकालापिनी सैव सारङ्गी शततन्त्रिका ॥ ९३६ ॥
2.8.936 · p. 117
अनुष्टुप्
तन्त्रीभिः सप्तभिः सैव संयुता परिवादिनी ।तत्प्रभेदास्तु षड्कर्णः पौणो रावणहस्तकः ॥ ९३७ ॥
2.8.937 · p. 117
अनुष्टुप्
हस्तिकोदुम्बरी चाथ वीणावादस्तु वैणिकः ।महती नारदमुनेर्वीणा वाण्यास्तु कच्छपी ॥ ९३८ ॥
2.8.938 · p. 117
अनुष्टुप्
विश्वावसोस्तु बृहती तुम्बुरोस्तु कलावती ।वीणादिकं ततं वाचं कांस्यं तालादिकं धनम् ॥ ९३९ ॥
2.8.939 · p. 117
अनुष्टुप्
मुरजादिकमानद्धं सुषिरं वंशमुख्यकम् ।चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् ॥ ९४० ॥
2.8.940 · p. 118
अनुष्टुप्
निःसाणपटहमड्डुकदुन्दुभयः पणवझर्झरमृदङ्गाः ।दर्दरवंशोड्डावुजडिण्डिमकिरिकिट्टशङ्खघर्घरकाः ॥ ९४१ ॥
2.8.941 · p. 118
गीतिः
पाटः कुब्जः पावो डुण्डुकिनी त्रिवलिका सुरुली ।कम्रा घण्टा करटिर्मड्डुः करिका टट्टरी नादी ॥ ९४२ ॥
2.8.942 · p. 118
metre not recognised
भम्भा पविका तिमिला ढक्का धक्का च धक्कुली झक्का ।पट्टवाद्यं च शृङ्गं च गोमुखं काहली द्वयोः ॥ ९४३ ॥
2.8.943 · p. 118
अनुष्टुप्metre not read in every line
समाने गीतगान्धर्वे रागास्तु ललितादयः ।नटनं नर्तनं नाट्यं नृत्तं लास्यं तु तन्मृदु ॥ ९४४ ॥
2.8.944 · p. 118
अनुष्टुप्
स्यादुद्धतं ताण्डवोऽस्त्री कैशिक्याद्यास्तु वृत्तयः ।तौर्यत्रिकं नृत्तगीतवाद्यं नाट्यं च तत् त्रयम् ॥ ९४५ ॥
2.8.945 · p. 118
अनुष्टुप्
शाखा स्यान्नृत्तहस्तानां वैचित्र्यात्मा विवर्तना ।पूर्वरङ्गस्तु नान्द्यादिः करणं हरणं समे ॥ ९४६ ॥
2.8.946 · p. 118
अनुष्टुप्
सत्त्ववागङ्गभावानां व्यञ्जकोऽभिनयः पुमान् ।अङ्गहारोऽङ्गविक्षेपो मुखं(ख)संध्यादि पञ्चकम् ॥ ९४७ ॥
2.8.947 · p. 118
अनुष्टुप्
स्युः षड्जर्षभगान्धारमध्यमाः पञ्चमस्तथा ।धैवतश्च निषादश्च तन्त्रीकण्ठभवाः स्वराः ॥ ९४८ ॥
2.8.948 · p. 119
अनुष्टुप्
स्वरारोहावरोहः स्यान्मूर्च्छनाथ स्वरांशकाः ।श्रुतयो भूमिका वेषो रङ्गः स्यान्नटनस्थलम् ॥ ९४९ ॥
2.8.949 · p. 119
अनुष्टुप्
भरतं नाट्यशास्त्रं स्यान्नाट्योक्तौ गणिकाज्जुका ।माताम्बा मारिषस्त्वार्यो वासूर्बालावुकः पिता ॥ ९५० ॥
2.8.950 · p. 119
अनुष्टुप्
अलिका भगिनी ज्यायस्यावुत्तो भगिनीपतिः ।आर्यपुत्रः पतिर्देवो राजा भट्टारकोऽपि सः ॥ ९५१ ॥
2.8.951 · p. 119
अनुष्टुप्
भट्टारिका तज्जननी तत्पुत्री भर्तृदारिका ।कुमारो युवराजः स्याद्राज्ञः स्यालस्तु राष्ट्रियः ॥ ९५२ ॥
2.8.952 · p. 119
अनुष्टुप्
देवी कृताभिषेका स्त्री तदन्यास्वेव भट्टिनी ।भावो विद्वानवध्योक्तावब्रह्मण्यमनुक्रमात् ॥ ९५३ ॥
2.8.953 · p. 119
अनुष्टुप्
हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखी प्रति ।शृङ्गारवीरकरुणा हास्यरौद्रभयानकाः ॥ ९५४ ॥
2.8.954 · p. 119
अनुष्टुप्
बीभत्साद्भुतशान्ताश्च नव नाट्यरसा इमे ।स्याच्चित्तविकृतिर्भावोऽनुभावस्तस्य बोधकः ॥ ९५५ ॥
2.8.955 · p. 119
अनुष्टुप्
स्थायिभावो विभावाद्यैः स्थायितां प्रापितो रसः ।रतिर्हासक्रोधशोकजुगुप्सोत्साहविस्मयाः ॥ ९५६ ॥
2.8.956 · p. 119
अनुष्टुप्
भयं च स्थायिनो भावा विभावो भावदर्शकः ।स्युः स्तम्भस्वेदरोमाञ्चाः स्वरसंभेदवेपथू ॥ ९५७ ॥
2.8.957 · p. 120
अनुष्टुप्
वैवर्ण्यमश्रु प्रलय इति भावाश्च सात्त्विकाः ।निर्वेदो ग्लानिशङ्कास्मृतिधृतिमतयः प्रीतिनिद्रावहित्थाव्रीडेर्ष्यासुप्त्यसूया मरणमलसतोन्मादहर्षावमर्षाः ।तर्कापस्मारमोहश्रममदजडिमव्याधिवेगा विषादोगर्वश्चिन्तौग्य्रदैन्ये भयमपि चपलत्वं च संचारिभावाः ॥ ९५८ ॥
2.8.958 · p. 120
अनुष्टुप्two metres in one verse
वैवर्ण्यक्लीअश्रुक्लीप्रलयपुंसात्त्विकभावपुंनिर्वेदपुंग्लानिस्त्रीशङ्कास्त्रीस्मृतिस्त्रीधृतिस्त्रीमतिस्त्रीप्रीतिस्त्रीनिद्रास्त्रीअवहित्थास्त्रीव्रीडास्त्रीईर्ष्यास्त्रीसुप्तिस्त्रीअसूयास्त्रीमरणक्लीअलसतास्त्रीउन्मादपुंहर्षपुंअमर्षपुंतर्कपुंअपस्मारपुंमोहपुंश्रमपुंमदपुंजडिमन्पुंव्याधिपुंवेगपुंविषादपुंगर्वपुंचिन्तास्त्रीऔग्र्यक्लीदैन्यक्लीभयक्लीचपलत्वक्लीसंचारिभावपुं
स्तम्भो गदमदक्रोधविषादभयविस्मितैः ।स्याद्गर्वेण मुदा चाथ घर्मसंपीडनश्रमैः ॥ ९५९ ॥
2.8.959 · p. 120
अनुष्टुप्
सुखहर्षज्वरग्लानिक्रोधव्यायामभीतिभिः ।विषेण प्रलयस्वेदसंभवः पुलकस्य तु ॥ ९६० ॥
2.8.960 · p. 120
अनुष्टुप्
विषामय(विषस्पर्श?)भयक्रोधशीतहर्षगदैर्भवः ।मदमुत्क्रोधरुग्भीतिज्वरैः स्यात्स्वरभेदनम् ॥ ९६१ ॥
2.8.961 · p. 120
अनुष्टुप्
अश्रूदयस्तु शुग्धूलिजृम्भरुक्शीतभीतिभिः ।धूमातङ्काञ्जनासंगैरथ वैवर्ण्यसंभवः ॥ ९६२ ॥
2.8.962 · p. 120
अनुष्टुप्
व्याधिशीतभयक्लान्तिक्रोधतापविषस्मरैः ।कम्पः स्याद्भीगदस्पर्शहर्षरोषज्वरादिभिः ॥ ९६३ ॥
2.8.963 · p. 120
अनुष्टुप्
सर्वस्वभूतः पञ्चेषोः शृङ्गारः शुचिरुज्वलः ।स्निग्धं निष्पन्दमन्दस्तिमितविहसितन्यञ्चिताकुञ्चितानिस्मेरानन्दिप्रसन्नस्थिरमसृणमहीत्यश्रुविष्फारितानि ।प्रेङ्खोलोल्लासिलोलप्रणयिविलुलितप्रेमगर्भत्रिभङ्गि-व्यासङ्गिस्फीतकान्तीन्यलसमदनकह्लादिरूक्षाञ्चितानि ॥ ९६४ ॥
2.8.964 · p. 121
अनुष्टुप्two metres in one verse
अलसं वलितं वक्रं मधुरं मन्दमन्थरम् ।कूणितोत्कण्ठिते मन्दमभिलाषि विलासि च ॥ ९६५ ॥
2.8.965 · p. 121
अनुष्टुप्
एवमादीनि शृङ्गारवीक्षितानि मृगीदृशाम् ।रणोत्साहोद्धतो वीरः कारुण्यं तु कृपा घृणा ॥ ९६६ ॥
2.8.966 · p. 121
अनुष्टुप्
दयानुकम्पा करुणा तत्रानुक्रोश इत्यपि ।हासो हसश्च हास्यं च तत्प्रभेदाः स्युरुत्तरे ॥ ९६७ ॥
2.8.967 · p. 121
अनुष्टुप्
स्मितमिह विकासिनयनं किञ्चिल्लक्ष्यद्विजाङ्कुरं हसितम् ।मधुरस्वरं विहसितं सांसशिरःकम्पमुपहसितम् ॥ ९६८ ॥
2.8.968 · p. 121
आर्या
अपहसितं सास्राक्षं स्यादतिहसितं विकम्पितावयवम् ।द्वे द्वे हसिते क्रमतस्ते ज्येष्ठे मध्यमे अधमे ॥ ९६९ ॥
2.8.969 · p. 121
आर्या
रौद्रमुग्रं प्रतिभयं भीमं भीष्मं भयानकम् ।भीषणं दारुणं घोरं भैरवं च भयंकरम् ॥ ९७० ॥
2.8.970 · p. 121
अनुष्टुप्
दशामूनि त्रिषूमे तु बीभत्सविकृते त्रिषु ।साध्वसं तु भयं त्रासो दरो भीर्भीतिरित्यपि ॥ ९७१ ॥
2.8.971 · p. 121
अनुष्टुप्
अत्याहितं महाभीतिः समौ संवेगसंभ्रमौ ।आश्चर्यमद्भुतं चित्रं चोद्यं पुंस्येव विस्मयः ॥ ९७२ ॥
2.8.972 · p. 122
अनुष्टुप्
रीढावमाननावज्ञा परिभूतिस्तिरस्क्रिया ।अवहेडः परिभवः परीभावोऽप्यनादरः ॥ ९७३ ॥
2.8.973 · p. 122
अनुष्टुप्
मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा ह्रीतिरपत्रपा ।व्रीडं स्नेहः पुमान् प्रेमा प्रियता प्रेम सौहृदम् ॥ ९७४ ॥
2.8.974 · p. 122
अनुष्टुप्
ईप्सा लिप्सा स्पृहा वाञ्छा काङ्क्षेहेच्छातृषः समाः ।तर्षो मनोरथः कामोऽभिलाषो लालसा द्वयोः ॥ ९७५ ॥
2.8.975 · p. 122
अनुष्टुप्
उल्लासिका स्यादुत्कण्ठारतिरुत्कालिका च सा ।अमर्षप्रतिघक्रोधकोपरोषाः स्त्रियौ परे ॥ ९७६ ॥
2.8.976 · p. 122
अनुष्टुप्
रुट्क्रुधावक्षामेर्ष्याथ संरम्भः कोपैवकृतम् ।अवष्टम्भस्मयाटोपगर्वाहंकारदर्पकाः ॥ ९७७ ॥
2.8.977 · p. 122
अनुष्टुप्metre not read in every line
उत्सेकश्चाभिमानश्च मानः स्यान्मानसोन्नतिः ।गुणेषु दोषाविष्कारः स्यादसूयाथ शुक् स्त्रियाम् ॥ ९७८ ॥
2.8.978 · p. 122
अनुष्टुप्
मन्युः शोकोऽथ विद्वेषो विरोधो वैरमित्यपि ।समाः स्युर्विप्रतीसारपश्चात्तापानुतापकाः ॥ ९७९ ॥
2.8.979 · p. 122
अनुष्टुप्
क्षमा क्षान्तिस्तितिक्षा च सहनं मर्षणं समे ।कण्टकोऽस्त्री रोमहर्षो रोमाञ्चः पुलकः समाः ॥ ९८० ॥
2.8.980 · p. 122
अनुष्टुप्
परिरम्भः परिष्वङ्ग आश्लेष उपगूहनम् ।आलिङ्गनं स्त्र्यङ्गपालिः समे निंसनचुम्बने ॥ ९८१ ॥
2.8.981 · p. 123
अनुष्टुप्
उत्तरे तत्प्रभेदाः स्युर्निमितं स्फुरितं समम् ।तिर्यग्भ्रान्तं सुंपुटकं जिह्वायुद्धावपीडिते ॥ ९८२ ॥
2.8.982 · p. 123
अनुष्टुप्
गृहीता तु बलात् पत्या नारी तेन निजाननम् ।उदास्य यच्चुम्बयति तत् स्यान्निमितकाभिधम् ॥ ९८३ ॥
2.8.983 · p. 123
अनुष्टुप्
नायकेन मुदान्यस्तं जिघृक्षुर्नायकाधरम् ।न ददाति स्वोत्तरोष्ठं किञ्चित्प्रस्फुरिताधरा ॥ ९८४ ॥
2.8.984 · p. 123
अनुष्टुप्
यत्तत् स्फुरितकं स्त्री तु पत्या न्यस्तं निजानने ।अधरं मृदु गृह्णाना स्वोष्टाभ्यां पतिलोचने ॥ ९८५ ॥
2.8.985 · p. 123
अनुष्टुप्
पिधाय मीलिताक्षं तद् घट्टयेन्मृदु जिह्वया ।यदि घट्टितकं तत् स्यान्मुग्धायां त्रितयं चरेत् ॥ ९८६ ॥
2.8.986 · p. 123
अनुष्टुप्
गृह्णात्यभिमुखं सर्वमधरं यदि तत् समम् ।साचीकृतेन स्वोष्ठेन सर्वं चाधरपल्लवम् ॥ ९८७ ॥
2.8.987 · p. 123
अनुष्टुप्
वर्तुलीकृत्य दत्तं यद् गृह्यते तिर्यगेव तत् ।पार्श्वस्थः पतिरुन्नाम्य चिबुकं हरिणीदृशः ॥ ९८८ ॥
2.8.988 · p. 123
अनुष्टुप्
अवलम्ब्य कचान् गाढं भ्रामयित्वा ततोऽधरम् ।रसवत्परिगृह्णाति यत्तत् स्याद्भ्रान्तकाभिधम् ॥ ९८९ ॥
2.8.989 · p. 124
अनुष्टुप्
समतिर्यग्भ्रान्तकानां विधिनैवावपीड्य च ।गृह्यते दन्तवसनं यत्तत् स्यादवपीडितम् ॥ ९९० ॥
2.8.990 · p. 124
अनुष्टुप्
त्रयाणां नहि पूर्वेषामस्यैवाधरपीडनम् ।अङ्गुष्ठतर्जन्यग्रेण बहिराकृष्य कोमलम् ॥ ९९१ ॥
2.8.991 · p. 124
अनुष्टुप्
अधरं दन्तवासोभ्यां पीडयेद्दशनैर्विना ।तत् स्यात् संपुटकं तत्र सहासाक्षेपजल्पितम् ॥ ९९२ ॥
2.8.992 · p. 124
अनुष्टुप्
जिह्वायुद्धं यदि भवेत्तज्जिह्वायुद्धसंज्ञकम् ।पूर्वं प्रसुप्तां दयितामागत्य निभृतं पतिः ॥ ९९३ ॥
2.8.993 · p. 124
अनुष्टुप्
तस्याश्चुम्बति बोधार्थमधरं रसनिर्भरम् ।शायिकाचुम्बनं तत् स्यादथ स्त्रीप्रेयसोर्मिथः ॥ ९९४ ॥
2.8.994 · p. 124
अनुष्टुप्
सानुरागप्रतीत्यर्थं यद्भित्तिमुकुरादिषु ।प्रतिमाचुम्बनं यत्तच्छायाचुम्बनसंज्ञकम् ॥ ९९५ ॥
2.8.995 · p. 124
अनुष्टुप्
मैथुनं स्यान्निधुवनं कुहरं सुरतं रतम् ।याभसंवेशनिर्वेशग्राम्यधर्मव्यवायकाः ॥ ९९६ ॥
2.8.996 · p. 124
अनुष्टुप्
रतिरिन्द्राणिकाद्यं तु करणं रतिबन्धनम् ।नखक्षतं नखपदं नखाङ्कोऽस्त्री नखव्रणः ॥ ९९७ ॥
2.8.997 · p. 124
अनुष्टुप्
अधरनितम्बोरुगलस्तनगण्डारचितमात्तरोमाञ्चम् ।अस्पष्टरेखमतिमृदुनखकर्माच्छुरितमवधिजातरुजम् ॥ ९९८ ॥
2.8.998 · p. 125
गीतिः
ग्रीवायां स्तनयोर्वा नखरपदं वक्रमर्धचन्द्रं स्यात् ।तत्रान्योन्याभिमुखं रचितौ तावेव मण्डलकम् ॥ ९९९ ॥
2.8.999 · p. 125
आर्या
द्वित्र्यङ्गुलायता नाभीवङ्क्षणोरुककुन्दरे ।कृता नखक्षती रेखा स्यात्तु तत्रैव सा यदि ॥ १००० ॥
2.8.1000 · p. 125
अनुष्टुप्
वक्रैव व्याघ्रनखरं ता मयूरपदं नखैः ।पञ्चभिः स्तनयोः क्लृप्ताश्चूचुकाभिमुखा यदि ॥ १००१ ॥
2.8.1001 · p. 125
अनुष्टुप्
न संगतानि प्रत्येकं वक्राणि च कुचाग्रके ।स्पष्टानि पञ्चनखरपदान्येव शशप्लुतम् ॥ १००२ ॥
2.8.1002 · p. 125
अनुष्टुप्
यदुत्पलपलाशस्य प्रत्तिमाकृति दृश्यते ।स्तनयोर्वा नितम्बे वा स्यात्तदुत्पलपत्रकम् ॥ १००३ ॥
2.8.1003 · p. 125
अनुष्टुप्
स्मारकं तु प्रवसता पत्यात्मस्मृतिकारणात् ।दत्ता क्षतिस्त्रिचतुरस्वरूपा जघने स्तने ॥ १००४ ॥
2.8.1004 · p. 125
अनुष्टुप्
ऊर्वोर्वा स्यात्तु नवमं दन्तानां कर्म नर्मजम् ।[--------------------------- गूढकम् ] ?अधरे वामगण्डे वा तदेवातिनिपीडनात् ॥ १००५ ॥
2.8.1005 · p. 125
अनुष्टुप्metre not read in every line
किञ्चिदुन्नतमुच्छूनं कौशलेनैव कल्पितम् ।बिन्दुरोष्ठेऽल्पदेशायास्त्वचो दन्तद्वयक्षतिः ॥ १००६ ॥
2.8.1006 · p. 125
अनुष्टुप्
अथ दन्तोष्ठसंयोगाभ्यासवैदग्ध्यतोऽधरे ।दन्तक्षती रागमात्रचिह्ना क्षतविवर्जिता ॥ १००७ ॥
2.8.1007 · p. 126
अनुष्टुप्
स्यात् प्रवालमणिर्बिन्दुमाला तूरुललाटयोः ।बहुबिन्द्वात्मकं दन्तद्वितयारचितं क्षतम् ॥ १००८ ॥
2.8.1008 · p. 126
अनुष्टुप्
वङ्क्षणालीकवक्षः सु गले च रदनैः कृता ।या क्षतिर्मणिमाला सा बिन्दुमालानुकारिणी ॥ १००९ ॥
2.8.1009 · p. 126
अनुष्टुप्
सृक्वदन्तद्वयाग्रैकसाध्यं युक्तं समन्ततः ।पृथुमध्यमसूक्ष्मैः स्यात् खण्डाभ्रं दशनक्षतैः ॥ १०१० ॥
2.8.1010 · p. 126
अनुष्टुप्
स्तनयोर्मण्डलाकारमथ बह्व्योऽरुणान्तराः ।दीर्घा वक्षोरुहतटे वैदग्ध्येन विनिर्मिताः ॥ १०११ ॥
2.8.1011 · p. 126
अनुष्टुप्
दशनक्षतरेखाश्चेत् संहताः क्रोडचर्वितम् ।अवहित्थं न नाकारगुप्तिरश्रु तु रोदनम् ॥ १०१२ ॥
2.8.1012 · p. 126
अनुष्टुप्
प्रास्त्रमस्रं पुमान् बाष्पः स्यादथान्यस्य वतुस्नः ।अन्यथाकरणं माया स्वत एवासतः पुरा ॥ १०१३ ॥
2.8.1013 · p. 126
अनुष्टुप्metre not read in every line
सद्रूपोत्पादनं वा स्यादथ मन्त्रौषधादिभिः ।अदेशकालपारोक्ष्यं परोक्षस्यैव वस्तुनः ॥ १०१४ ॥
2.8.1014 · p. 126
अनुष्टुप्
इन्द्रजालं प्रमीला तु भृकुटिभ्रूकुटी स्त्रियौ ।तन्द्री तन्द्रा च कम्पस्तु वेपो वेपथुरेजनम् ॥ १०१५ ॥
2.8.1015 · p. 126
अनुष्टुप्
मोहो मूर्च्छा कश्मलं च रिङ्खणस्खलने समे ।कौतुकं कुतुकं कौतूहलं चापि कुतूहलम् ॥ १०१६ ॥
2.8.1016 · p. 127
अनुष्टुप्
अपदेशोपधिव्याजदम्भाः कपटमस्त्रियाम् ।छलं लक्षं पदं छद्म कैतवं कृतकं मिषम् ॥ १०१७ ॥
2.8.1017 · p. 127
अनुष्टुप्
छलना तु न ना शाठ्यं कुसृतिर्निकृतिः स्त्रियौ ।प्रतारणातिसंधानवञ्चनानि प्रलोभनम् ॥ १०१८ ॥
2.8.1018 · p. 127
अनुष्टुप्
अकृत्याचरणं यत्तदासुरं विप्रलम्भनम् ।कुहना त्वव्यये क्रुष्टं क्रन्दितं रुदितं समम् ॥ १०१९ ॥
2.8.1019 · p. 127
अनुष्टुप्
अविज्ञातेङ्गिताकारो भावो गाम्भीर्यमुत्सवः ।उद्धवः क्षण उद्धर्षो महो मान्द्यमपाटवम् ॥ १०२० ॥
2.8.1020 · p. 127
अनुष्टुप्
विप्रलम्भो विसंवादो जृम्भस्तु त्रिषु जृम्भणम् ।द्रवः केलिः परीहासः क्रीडा लीला च नर्म च ॥ १०२१ ॥
2.8.1021 · p. 127
अनुष्टुप्
मृगीदृशां च लीलाद्याः क्रियाः शृङ्गारभावजाः ।प्रियानुकरणं लीला मनोवागङ्गचेष्टितैः ॥ १०२२ ॥
2.8.1022 · p. 127
अनुष्टुप्
वागङ्गसत्त्वाभिनयभूषास्थानविपर्ययः ।त्वस्या कल्पितोऽभीष्टदर्शने यः स विभ्रमः ॥ १०२३ ॥
2.8.1023 · p. 127
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 त्व (syllables merged)
प्रेयसः संगसमये दृष्टिभ्रूवक्त्रकर्मणाम् ।विशेषो यो विलासः स्याद्विच्छित्तिस्तु स्वमण्डने ॥ १०२४ ॥
2.8.1024 · p. 127
अनुष्टुप्
वस्त्रमालाङ्गरागादेर्न्यासोऽनादरकर्मणा ।रुदितस्मितहर्षादेः संकरः किलिकिञ्चितम् ॥ १०२५ ॥
2.8.1025 · p. 128
अनुष्टुप्
प्रियलीलाकथालापहेलास्तुतिनिदर्शनैः ।तद्भावभावितं मोट्टायितमेवाथ योषिताम् ॥ १०२६ ॥
2.8.1026 · p. 128
अनुष्टुप्
सौख्योपचारैः सानन्दाधरकेशग्रहादिभिः ।दुःखोपचारवत् कुप्येद् बहिः कुट्टमितं तु तत् ॥ १०२७ ॥
2.8.1027 · p. 128
अनुष्टुप्
सुकुमारोऽङ्गविन्यासः सभ्रूनेत्राधरक्रियः ।ललितं विहृतं तु स्यात् प्राप्तकालमनुत्तरम् ॥ १०२८ ॥
2.8.1028 · p. 128
अनुष्टुप्
मानेर्ष्याभ्यां स्वभावाद्वा लज्जातिशयतोऽपि वा ।वसुधापर्वतारण्यचतुष्पात्खगपट्टणैः ॥ १०२९ ॥
2.8.1029 · p. 128
अनुष्टुप्
उक्तिनाट्यादिभिश्चाष्टावध्याया इह निर्मिताः ॥ १०३० ॥
2.8.1030 · p. 128