All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
नानार्थवर्गप्रकाशः · लान्ताः
इति रान्तवर्गः ॥
अलिः सुरायां भ्रमरे काककोकिलयोरपि ॥आलिः सख्यां सेतुपंक्त्योः सन्ततौ विशदाशये ।आलुर्गलन्तिकायां स्त्री क्लीबं पेचकमूलयोः ॥
7.28.2 · p. 277
अनुष्टुप्
इला स्याद्बुधनार्याञ्च भूमिवाण्योरपि स्त्रियाम् ।ओलः स्याच्छूरणेऽप्यार्द्रे ओलमप्यत्र न द्वयोः ॥
7.28.3 · p. 277
अनुष्टुप्
कला चन्द्रषोडशांशे शिल्पादौ चांशमात्रके ।कलो ना मूलवित्तर्द्धौ कालमानविशेषके ॥
7.28.4 · p. 277
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्द्र (wrong syllable)
कलं शुक्रेऽन्यलिङ्गं स्यादजीर्णे मधुरध्वनौ ।कलिः कलहशूराजिकलिकायुगभित्सु च ॥
7.28.5 · p. 277
अनुष्टुप्
कालः कृष्णे च समयमहाकालयमेषु च ।काला तु कृष्णात्रिवृतामञ्जिष्ठानीलिकासु च ॥
7.28.6 · p. 277
अनुष्टुप्
काली गौर्या क्षीरकीटे कालिकामातृभेदयोः ।कीलः सर्पे शिवे ज्वालाशङ्कुलेषेषु पुंस्ययम् ॥
7.28.7 · p. 277
अनुष्टुप्
कीला कफोणिघाते स्यात् कीलं रुग्मुष्टिघातयोः ।कुलं गोत्रे जनपदे सजातीयगणे गृहे ॥
7.28.8 · p. 277
अनुष्टुप्
देहे क्लीबं कष्टकार्या स्त्रियां कुलिरुदाहृता ।खलं भूस्थानकल्लेषु वाच्यवत्क्रूरनीचयोः ॥
7.28.9 · p. 277
अनुष्टुप्
खल्लो गर्ते यन्त्रभेदे चर्मण्यपि च चातके ।खल्ली चरणहस्तावमर्दरोगे भवेत्स्त्रियाम् ॥
7.28.10 · p. 277
अनुष्टुप्
खिलमप्रहते वेदसारसंक्षिप्तयोरपि ।गलः कण्ठे सर्ज्जरसे वादभेदेऽपि पुंस्ययम् ॥
7.28.11 · p. 277
अनुष्टुप्
गोला गोदावरीगौर्य्योः सखीषु कुनटीषु च ।चला लक्ष्म्यां शिरःकम्पे कम्पयुक्ते भवेत्त्रिषु ॥
7.28.12 · p. 277
अनुष्टुप्
चुल्ली चितायामुद्धाने चलं स्यादधमेंऽशुके ।छलं स्यात्स्खलिते शाष्ये छल्ली सन्तानवल्कयोः ॥
7.28.13 · p. 277
अनुष्टुप्
जलं गो कलने नीरे ह्रीवेरे च जडेऽन्यवत् ।जालमानायदम्भौघगवाक्षक्षारकेष्वपि ॥
7.28.14 · p. 278
अनुष्टुप्
कदम्बभूरुहे क्लीबं जाली पटलिकौषधौ ।झला स्त्रियां दुहितरि स्यादूर्म्य्यातयोरपि ॥
7.28.15 · p. 278
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
झिल्ली चीरावर्त्तीरुच्य तपोद्वर्तनकांशुके ।तलश्चपटे पुंसि स्यादस्त्री चाधःस्वरूपयोः ॥
7.28.16 · p. 278
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable); pāda 3, syllable 5 टे (wrong syllable)
ज्याघातवारणे क्लीबं कार्यबीजे च कानने ।तालं करतलास्फालमध्यमाङ्गुष्ठसस्मिते ॥
7.28.17 · p. 278
अनुष्टुप्
गीतकालक्रियामाने वाद्यकांस्ये द्रुमान्तरे ।ताली स्यादज्झटोषध्यां तालन्तु हरितालके ॥
7.28.18 · p. 278
अनुष्टुप्
तुला माने च सादृश्ये भाण्डराशिप्रभेदयोः ।तूली प(?) ब्रह्मदारुवियत्सु च नपुंसकम्(?) ॥
7.28.19 · p. 278
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दलं पत्रोत्सेधखण्डपाशशस्त्रिघनेषु च ।वलः पोटगले राज्ञि कविभित्पुतृदेवयोः ॥
7.28.20 · p. 278
अनुष्टुप्
सिहली वस्तुपक्षे स्त्री नली कुनरिकौषधौ ।नाला नीलं पद्मदण्डे ताली शाककडम्बके ॥
7.28.21 · p. 278
अनुष्टुप्
नीलः पुंसि कयौ श्याम नीली रागद्रुमेऽपि च ।पलन्तु मानके मांसे पल्लं स्थूलकुशूलयोः ॥
7.28.22 · p. 278
अनुष्टुप्
पल्ली स्वल्पग्रामकुट्योस्तथा नगरभिद्यपि ।पालिरङ्कप्रभेदाश्रिपंक्तिकर्णलताग्रके ॥
7.28.23 · p. 278
अनुष्टुप्
पालीच्छात्रादिदेये तु यूकाश्पश्रुयुतस्त्रियोः ।पीलुर्गजे द्रुमे काण्डे परमाणुप्रसूनयोः ॥
7.28.24 · p. 278
अनुष्टुप्
फलं हेतुसमुत्थे स्याद्व्युष्टौ फलकलामयोः ।शष्यकक्कोलवाणाग्रजातीफलार्त्तवेषु च ॥क्लीबलिङ्गं स्त्रियामेव प्रियङ्गौ तु फलीति च ।फालः सीरोपकरणे त्रिषु कार्पासवाससि ॥
7.28.25 · p. 278
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 फ (wrong syllable)
बलं सैन्ये गन्धरसे सामर्थ्यस्थौल्यरूपयोः ।बला वाहालके ना तु वायसे दैत्यसामयोः ॥
7.28.27 · p. 278
अनुष्टुप्
बालः केशे शिशौ मूर्खे वालधौ वालमौषधौ ।बालाऽलङ्कारभेदे स्याद्योषिति स्त्रीत्रुटावपि ॥
7.28.28 · p. 278
अनुष्टुप्
वेला स्त्री कालसीमाब्धिकूलेष्वीश्वरभोजने ।भल्लः स्यात्पुंसि भल्लुके भल्लातकास्त्रयोर्द्वयोः ॥
7.28.29 · p. 278
अनुष्टुप्metre not read in every line
भेलः प्लवे मुनौ भीरौ मूर्खेऽपि चञ्चलेऽपि च ।मलं पापे विटकिट्टे कृपणे वाच्यवत्क्वचित् ॥
7.28.30 · p. 279
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 3, syllable 6 ट (wrong syllable)
मल्लः पात्रे बलवति कपोलमत्स्यभेदयोः ।मल्ला नार्यां पत्रवल्ल्यां मल्ल्किायामपि क्वचित् ॥
7.28.31 · p. 279
metre not recognisedimpossible sign sequence: यां मल्ल्किायामपि nearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
मालः क्षेत्रजातिभिदोर्माला पृक्कास्रजोरपि ।मूलमाद्ये शिफायाञ्च निकटेभेतु नास्त्रियाम् ॥
7.28.32 · p. 279
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्र (wrong syllable)
मौलिः किरीटे चूडायां धम्मिल्लाशोकवृक्षयोः ।लीलाशृङ्गारचेष्टायां स्त्रियां केलिविलासयोः ॥
7.28.33 · p. 279
अनुष्टुप्
लीला स्त्री रसनालक्ष्म्योर्लोलञ्चलसतृष्णयोः ।व्यालो दुष्टे गजे सर्पे खलश्वापदयोरपि ॥
7.28.34 · p. 279
अनुष्टुप्
बिलं छिद्रे गुडायाञ्च पुमानुच्चैश्रवोहये ।शलो भृङ्गिक्षेत्रभिदोः शलले च विधातरि ॥शाला वृक्षस्कन्धशाखागृहैकदेशवेश्मसु ।शालः स्यान्मत्स्यभेदेऽपि नवभेदेऽपि कुत्रचित् ॥
7.28.35 · p. 279
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
शिला कुनट्यां दृशदि द्वाराधःस्थितदारुणि ।शिलमुञ्छे शिली भेक्यां शीलं सद्वृत्तभावयोः ॥
7.28.36 · p. 279
अनुष्टुप्
शूलमस्त्रे गदे शस्त्रे मृत्यौ योगे निकेतने ।शूला पण्यस्त्रियां स्त्री तु शैलः पर्वततार्क्ष्ययोः ॥
7.28.37 · p. 279
अनुष्टुप्
शालः सर्जद्रुमे वृक्षमात्रप्राकारयोरपि ।स्थालं भोजनपात्रे स्यात्स्थाली च पाटलेखयोः ॥
7.28.38 · p. 279
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
हलो हले सुरायां स्त्री हलाहाली च कुत्रचित् ।हेला स्त्रियां स्त्रीविलासेऽवज्ञायाञ्च निगद्यते ॥
7.28.39 · p. 279
अनुष्टुप्
अनलो वसुभिद्वह्न्योरनिलो वाजिवातयोः ।अर्गलस्त्रिषु कल्लोले चान्तर्दण्डकपाटयोः ॥
7.28.40 · p. 279
अनुष्टुप्
अरालो हस्तभेदे स्यात्कुटिले मत्तहस्तिनि ।पुंसि सर्जरसे स्त्री तु कुलटाधृष्टयोरपि ॥
7.28.41 · p. 279
अनुष्टुप्
अचलः पर्वते पुंसि भुवि स्त्री निश्चले त्रिषु ।अञ्जलिः पुंसि कुडवे हस्तभेदेऽपि कीर्त्यते ॥
7.28.42 · p. 279
अनुष्टुप्
उपला शर्करायां स्त्री पुंसि पाषाणरत्नयोः ।उज्ज्वलः पुंसि शृङ्गारे दीप्ते विकसिते त्रिषु ॥
7.28.44 · p. 279
अनुष्टुप्
कमलो मृगभेदे ना जले पद्मे नपुंसकम् ।कमला तु भवेल्लक्ष्म्यां स्त्रियां वरस्त्रियामपि ॥
7.28.45 · p. 279
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
कपिला गोदिक्करिणीरेणुकाशिंशपासु च ।कमला तु भवेल्लक्ष्म्यां स्त्रियां वरस्त्रियामपि ॥कपिला गोदिक्करिणीरेणुकाशिंशपासु च ।कपिलो मुनिभेदे ना वाच्यभेदे तु वाच्यवत् ॥
7.28.46 · p. 280
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 दि (wrong syllable); pāda 4, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 दि (wrong syllable)
करालं सर्जतैले स्याद्भीषणे दन्तुरेऽन्यवत् ।कन्दलोऽस्त्री कलध्वाने नवाङ्कुरकपालयोः ॥
7.28.48 · p. 280
अनुष्टुप्
कन्दली मृगभेदे स्त्री त्रिष्वङ्कुरोपरागयोः ।कदला कदलः पृश्न्यां कदला शाल्मलीद्रुमे ॥
7.28.49 · p. 280
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्कु (wrong syllable)
कदली कदलं रम्भाद्रुमेऽपि न निगद्यते ।कामलः कामलारोगे पुमान् मरुवसन्तयोः ॥
7.28.50 · p. 280
अनुष्टुप्
कामलं कुम्भकारे च विषभिछ्राणकाकयोः ।सर्पे नरकभेदे च तथा शूकरभिद्यपि ।काहला स्त्री वाद्यभेदे स्त्रियां स्यादप्सरीभिदि ॥
7.28.51 · p. 280
अनुष्टुप्metre not read in every line
काहली स्यात्तरुण्याञ्च काहलः शब्दमात्रके ।कुक्कुटे ना भृशे शुष्के खलातिशययोस्त्रिषु ॥
7.28.52 · p. 280
अनुष्टुप्
किहालस्ताम्रकलसे तथा लोहमलेऽस्त्रियाम् ।कीलालं रुधिरे तोये पीयूषे च मधुन्यपि ॥कुशलं शिक्षिते क्षेमे पर्याप्तौ सुकृते त्रिषु ।कुवलं तूत्पले मुक्ताफले च बदरीफले ॥
7.28.53 · p. 280
अनुष्टुप्
कुन्तलेश्चषके केशे ह्रीवेरयवयोरपि ।कुलालः कुम्भकारे स्यात्कौशिके कुक्कुभेऽपि च ।कुम्भिलः शालमत्स्ये स्याच्चौरश्लोकार्यचौरयोः ॥
7.28.54 · p. 280
अनुष्टुप्
कुकूलं शङ्कुसङ्कीर्णरन्धे पुंसि तुषानले ।कुण्डलं कर्णभूषायां तथा वलयपार्श्वयोः ॥
7.28.55 · p. 280
अनुष्टुप्
कुण्डली स्त्री गुडुच्याञ्च तथा काञ्चनभूरुहे ।केवलं त्वतिनिर्णीते त्रिलिङ्ग्यामेककृत्स्नयोः ॥
7.28.56 · p. 280
अनुष्टुप्
केवली ज्ञानभेदे स्त्री केवली शास्त्रहोरयोः ।कोमलं मृदुले नीरे मनोज्ञेऽपि च न द्वयोः ॥
7.28.57 · p. 280
अनुष्टुप्
चपलः पारदे मीने चौरे च चञ्चलाश्मनोः ।चपला कुलटालक्ष्मीपिप्पलीचञ्चलासु च ॥
7.28.61 · p. 281
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
चूडाला तूच्चटायां स्त्री चूडायुक्ते भवेत्त्रिषु ।छगला वृद्धदारे स्यात्पुंसि नीलीशूकाञ्जयोः ॥
7.28.64 · p. 281
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 शू (wrong syllable)
जटिलस्तु जटायुक्ते मिस्यान्तु जटिला स्त्रियाम् ।जाङ्गलं त्रिषु निर्वारिदेशे स्यात्पिशिते स्त्रियाम् ॥
7.28.65 · p. 281
अनुष्टुप्
जाङ्गुली शूकशिम्ब्याञ्च जाङ्गलश्च कपिञ्जरे ।तरला मदिरायाञ्च यवाग्वामपि च स्त्रियाम् ॥तण्डुलो ना विडङ्गे च धान्यादिनिकरेऽपि च ।तमालस्तिलके खङ्गे तापिञ्जे वरणे द्रुमे ॥
7.28.67 · p. 281
अनुष्टुप्
ताम्बुली नागवल्ल्यां स्त्री क्लीबं पूगविशेषके ।तैतिलो गण्डके पुंस्सि क्लीबञ्च करणान्तरे ॥
7.28.68 · p. 281
अनुष्टुप्
दुकूलं श्लक्ष्णवसने क्षौमेऽपि च निगद्यते ।धवली धेतुभेदे स्याद्धवलापि च कुत्रचित् ॥
7.28.69 · p. 281
अनुष्टुप्
धवलं सुन्दरे शुभे त्रिषु ना वृषपुङ्गवे ।निर्मलं क्लीबमभेऽपि निर्माल्ये विमले त्रिषु ॥
7.28.70 · p. 281
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 शु (wrong syllable); pāda 3, syllable 6 म (wrong syllable)
नकुली कुक्कुटीमांस्योर्नकुलः पाण्डवे पणौ (?) ।नाभीलो वङ्क्षणे नार्या कृच्छ गर्भाण्डयोरपि ॥निष्कलस्तु कलाशून्ये नष्टवीर्ये भवेस्त्रिषु ।नेपाली स्त्री तु कुनटी सुवहामल्लिकासु च ॥पटलं नेत्ररोगे स्यापिटके गृहचालके ॥
7.28.71 · p. 281
अनुष्टुप्
परिच्छदे च तिलके न क्लीबं ग्रन्थवृक्षयोः ।प्रवालोऽस्त्री पल्लवे स्याद् वीणादण्डे च विद्रुमे ॥
7.28.72 · p. 281
अनुष्टुप्
पञ्चाली पुत्रिकागीतिभिदोः पुंभूम्नि देशके ।प्रतलोऽधोलोकभेदे तताङ्गुलिकरेऽपि च ॥
7.28.73 · p. 281
अनुष्टुप्
पांशुलः पापिहरयोः पुंश्चले … द्वयोः ।पांशुला कुलटायाञ्च तथा भूय्यामपि स्त्रियाम् ।पाकलं कुष्टकौषध्यां न स्त्रियां कुञ्जरज्वरे ॥
7.28.74 · p. 281
अनुष्टुप्metre not read in every line
पाचलं पाचने वह्नौ राधनद्रव्यवातयोः ।पाटलः श्वेतरक्ताशुधान्ययोः पाटलाद्रुमे ।पातालं नागलोके स्याद्विवरे ना तु वाडवे ॥
7.28.75 · p. 281
अनुष्टुप्
पातिली वागुरायान्तु नारी मृत्पात्रयोरपि ।पिचुलो जलकाके स्यादिज्वले झावुकेऽपि च ॥
7.28.76 · p. 282
अनुष्टुप्
पिङ्गलो नागभित्सूर्यपारिर्पार्श्वकवह्निषु ।निधिभेदे कपौ रुद्रे गुनौ ना कपिले त्रिषु ॥
7.28.77 · p. 282
अनुष्टुप्
पिङ्गला गणिकाभेदे तथा दिग्गजयोषिति ।पिच्छिला शाल्मलीसिन्धुभेदयोः पौतिकाह्वये ॥
7.28.78 · p. 282
अनुष्टुप्
शिंशपायां स्त्रियामेव विजिले पिच्छिलं त्रिषु ।पुङ्गलः सुन्दराकारे त्रिष्वात्मदेहयोः पुमान् ॥पेशलं रुचिरे धूर्ते चतुरेऽपि च वाच्यवत् ।बहुलः कृष्णपक्षाग्न्योर्वाच्यवद्भूरिकृष्णयोः ॥
7.28.79 · p. 282
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्म (wrong syllable)
वार्दलं दुर्दिने मेलानन्दायां दुष्टसद्मनि ।मङ्गला पार्वतीशुक्लदूर्वापतिव्रतासु च ॥
7.28.81 · p. 282
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
मङ्गलो भूमिपुत्रे स्यात्कल्याणे तु नपुंसकम् ।मण्डलं परिधौ कोठे देशे द्वादशराजके ॥
7.28.82 · p. 282
अनुष्टुप्
स्यात्पुमान् कुक्कुरेऽपि स्यात्रिषु बिम्बः पोरपि ।मञ्जुलो जलरङ्कौ स्यान्निकुञ्जे ललिते त्रिषु ॥
7.28.83 · p. 282
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
महिला फलिनीनार्य्योर्मदमत्तास्वपि स्त्रियाम् ।मातुलो व्रीहिभेदे स्यान्मातृभ्रातरि धुस्तूरे ॥
7.28.84 · p. 282
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 स्तू (wrong syllable)
माचलोऽपि ग्रहे रोगे स्यात्पुमान् वन्दिचौरयोः ।मुषली तालमूल्याखुपर्णिकागृहगोधिषु ॥मेखला स्त्रीनितम्बे स्यात्स्त्री काञ्ची खड्गकोषयोः ।रसाला रसना दूर्वा विदारी मार्जितासु च ॥
7.28.85 · p. 282
अनुष्टुप्
रसाले इक्षौ पनसे च माकन्दे सिह्लकेऽपि च ।रामिलो रमणे कामे लाङ्गुलं पुच्छशेफयोः ॥
7.28.86 · p. 282
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
लाङ्गलं तृणराजे स्यात्पुष्पभिद्गृहदारुणोः ।गोदारणेऽपि च क्लीबं पिप्पल्यामपि लाङ्गली ॥
7.28.87 · p. 282
अनुष्टुप्
वण्ठालः स्याद्युद्धभेदे तथा नौकाखनित्रके ।वातुलः पुंसि वात्यायां वाच्यवन्मारुतासहे ॥
7.28.90 · p. 282
अनुष्टुप्
वामिलो दाम्भिके वामे विमला सप्तलाभुवोः ।विमलो वाच्यवच्चारौ निर्मलेऽपि निगद्यते ॥
7.28.91 · p. 282
अनुष्टुप्
विपुलः पृथुलेऽगाधे त्रिषु ना पश्चिमाचले ।विपुलो वेतसे चाम्बुवेतसे च भवेत्पुमान् ॥
7.28.92 · p. 282
अनुष्टुप्
विडालोऽस्त्री नेत्रपिण्डे पुंसि मार्जारकेऽपि च ।विशाला त्विन्द्रवारुण्यामुज्जयिन्यामपि स्त्रियाम् ॥
7.28.93 · p. 283
अनुष्टुप्
विशाली नृपभिद्वृक्षभिदोर्ना पृथुले त्रिषु ।वृषलो गृञ्जने शूद्रे चन्द्रगुप्ते च वाजिनि ॥
7.28.94 · p. 283
अनुष्टुप्
शकलं त्वचि खण्डे स्याद्रागवस्तुनि वल्कले ।शयालुः शुन्यजगरे निद्राशीले भवेत्त्रिषु ॥श्रद्धालुर्दोहदयुतस्त्रियां श्रद्धायुते त्रिषु ।श्यामलः पिप्पले पुंसि कृष्णवर्णेऽभिधेयवत् ॥
7.28.95 · p. 283
अनुष्टुप्
शार्दूलो राक्षसे व्याघ्रे पशुभेदे पुमानयम् ।स्यादुत्तरपदस्थोऽयं श्रेष्ठ एव निगद्यते ॥
7.28.96 · p. 283
अनुष्टुप्
शाल्मली तरुभेदे स्याद् द्वीपभेदे च पुंस्ययम् ।श्रीफलः पुंसि बिल्वे स्याद्धात्रीनीलिकयोः स्त्रियाम् ॥शीतलं चन्दने शैत्ये शैलजे ना द्रुमान्तरे ।शीवलं शैवले क्लीबं शैलेयेऽपि निगद्यते ॥
7.28.97 · p. 283
अनुष्टुप्
शृगालो जम्बुके दैत्ये शृगाली डमरे स्त्रियाम् ।शृङ्खलः पुंस्कटीवन्ध्यांशुके च निगडे त्रिषु ॥
7.28.98 · p. 283
अनुष्टुप्
शैवलं पद्मकाष्ठे स्याच्छैवाले तु भवेत्पुमान् ।शौष्कलः स्याच्छुष्कमांसे पणके पिशिताशिनि ॥
7.28.99 · p. 283
अनुष्टुप्
षण्डाली तु सरस्यां स्त्री कामुकी तैलमांसयोः ।सरलः पूतिकाष्ठे स्यादुदारवक्तयोस्त्रिषु ॥
7.28.100 · p. 283
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
सङ्कुलं न द्वयोर्व्याप्ते त्वविस्पष्टवचस्यपि ।सप्तला स्त्री नवमालीगुञ्जाचर्मकषासु च ॥
7.28.101 · p. 283
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
सन्धिला स्यात्सुरङ्गायां नदीमदिरयोः स्त्रियाम् ।सिध्मला मत्स्यविकृतौ पुमान्किलामरोगिणि ॥
7.28.102 · p. 283
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्कि (wrong syllable)
सुवलः पर्वते पुंसि शान्तप्रणतयोस्त्रिषु ।सुतलोऽहालिकावन्धनागलोकप्रभेदयोः ॥हिङ्गुला वर्णकद्रव्ये वार्त्ताक्यां हिङ्गुली स्त्रियाम् ।हेमलः स्वर्णकारे स्यात्कृकलाशे शिलान्तरे ॥
7.28.103 · p. 283
अनुष्टुप्
अक्षमाला चाक्षसूत्रे त्वरुन्धत्यामपि स्त्रियाम् ।अङ्कपाली परिरभ्ये कोटिधात्रिकयोः स्त्रियाम् ॥भवेदतिवलौषध्यां प्रबलेऽप्यभिधेयवत् ।उदूखलं गुग्गुलौ स्याद्भवेदुलूखलेऽपि च ॥एकाष्ठीला पापचेल्यां वकपुष्पेऽपि च स्त्रियाम् ।भवेत्कलकलः कोलाहले सर्जरसेऽपि च ॥भवेत्कर्मफलं कर्मरङ्गे च सुखदुःखयोः ॥
7.28.104 · p. 283
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 रि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 दु (wrong syllable)
कन्दराली गर्द्धभाण्डे प्लक्षभूमिरुहेऽपि च ।कुतूहलं क्लीबलिङ्गं शस्तकौतुकयोरपि ॥
7.28.105 · p. 284
अनुष्टुप्
खतमालो घने धूमे गन्धमालोऽनिले रवौ ।गण्डशैलो गिरिध्वस्तस्थूलग्रावकपालयोः ॥
7.28.106 · p. 284
अनुष्टुप्
गन्धफली तु गुन्द्रायां स्त्रियां चम्पककोरके ।चक्रवालो मण्डले स्याद्गिरिभेदे भवेत्पुमान् ॥जलाञ्चलं शैवले स्यात्स्वतोवारिविनिर्गमे ।जयपालो विधौ विष्णौ भूपाले वृक्षभिद्यपि ॥जम्बूमालाऽप्सरोभेदे कपिभूधरयोः पुमान् ।दलामलो मरुवके दमने मदनद्रुमे ॥
7.28.107 · p. 284
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 फ (wrong syllable)
भवेद्बहुफलो नीपे मलप्वां बहुफल्यपि ।भस्मतूलो ग्रामकूटे पांशुवर्षे हिमेऽपि च ॥
7.28.111 · p. 284
अनुष्टुप्
भद्रकाली च गन्धोल्यां कात्यायन्यामपि स्त्रियाम् ।महाकालो महादेवे किम्पाके प्रथमान्तरे ॥भवेन्मदकलो पचगजेऽव्यक्तप्रलापिनि ।महाबलो बृहद्वीर्ये सीसकेऽपि च न द्वयोः ॥महानीलो भृङ्गराजे मणिनागविशेषयोः ।मणिमाला स्त्रियां हारे लक्ष्म्यां दन्तक्षतान्तरे ॥मुक्ताफलञ्च कर्पूरे मौक्तिके लवलीफले ।भवेद्यवफलो मांसकूटजप्लक्षवेणुषु ॥रजस्वला पुष्पवत्यां महिषे तु रजस्वलः ॥
7.28.112 · p. 284
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 प (wrong syllable)
रतकेलिः कलालापे षिङ्गे दन्तक्षतेऽपि च ।भवेद्वायुफलं शक्रकार्मुके करकेऽपि च ॥तथा विचकिलो मल्लीप्रभेदे मदनेऽपि च ।बृहन्नलो बृहत्पोटगले दीर्घेऽर्जुनेऽपि च ॥सदाफलं स्कन्धफले नारिकेलेऽप्युडूम्बरे ।सिनीवाली दृष्टचन्द्रकलामान्दुर्गयोरपि ॥सौवर्चलं लवणभित्सर्जिकाक्षारयोरपि ।हस्तिमल्लः शङ्खनागे ऐरावतगणेशयोः ॥हरितालं धातुभेदे स्त्री दूर्वाकाशयोरपि ।हालाहलो ब्रह्मसर्प त्वञ्जनाखुभिदि स्त्रियाम् ॥
7.28.113 · p. 284
अनुष्टुप्
स्यादासुतीवलः पुंसि कल्पपालकयज्वनोः ।भवेदुद्दण्डपालस्तु मत्स्यसर्पविशेषयोः ॥स्यादेककुण्डलः पुंसि बलभद्रकुबेरयोः ।कृपीटपालः पवने नीरधौकेनिपातके ॥स्यात्तु पाण्डुकम्बलः श्वेतकम्बलग्रावभेदयोः ।भवेत्सुरतताली स्त्री दूतिकामौलिमालयोः ॥
7.28.114 · p. 285
अनुष्टुप्metre not read in every linenearly अनुष्टुप्