कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

व्यवाय

vyavāyaपुं · masc.

In 11 kośas: 12 synonym verses, 5 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.251 · p. 24
राका तु सरजाः कन्या स्त्रीधर्मः पुष्पमार्तवम् ।रजस्तत्कालस्तु ऋतुः सुरतं मोहनं रतम् ॥ ५३६ ॥संवेशनं संप्रयोगः संभोगश्च रहो रतिः ।ग्राम्यधर्मो निधुवनं कामकेलिः पशुक्रिया ॥ ५३७ ॥व्यवायो मैथुनं स्त्रीपुंसोर्द्वंद्वं मिथुनं च तत् ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1509 · p. 57
विघ्नेऽन्तरायप्रत्यूहव्यवायाः समये क्षणः ।वेला वाराववसरः प्रस्तावः प्रक्रमान्तरम् ॥ १५०९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.104
व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम् ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.401 · p. 46
विघ्नोऽन्तरायः प्रत्यूहो व्यवायश्च प्रकीर्तितः ।साकल्यवचनं प्राज्ञैः पारायणमुदाहृतम् ॥ ४०१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.169 · p. 93
उपविष्टं प्रियं कान्ता सुप्ता वेष्टयते यदि ।तल्लतावेष्टितं ज्ञेयं कामानुभववेदिभिः ॥अर्धेन्दुस्तु नखाङ्कश्चोत्पलपत्रं नखक्षतम् ।तत्स्त्रीकुचे बर्कराटः शृङ्गारप्रणवोऽधरे ॥मणिमाला च खण्डाभ्रं नारीणां दशनक्षतम् ।अथ स्याद्दशनोच्छिष्टं यूनोरधरचुम्बने ॥स्याद्ग्राम्यधर्मो मदनोत्सवश्च[60b]व्यवाय-संभोगक-संप्रयोगाः ।कुरीर-संवेशन-मोहनानिमहासुखं स्यात्सुरतं रतं च ॥ १६९ ॥
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 स्या (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ प्रकीर्णवर्गः Koṣakalpataru 3.4.6 · p. 30
[178a]अभिचारोऽथान्तरायो व्यवायो विघ्न इत्यपि ।प्रत्यूहः प्रतिबन्धस्तु प्रतिष्टम्भोऽप्यथाग्रहः ॥निर्बन्धोऽभिनिवेशः स्यात्पर्यवस्था विरोधनम् ।निग्रहस्तु निरोधः स्यादभियोगस्त्वभिग्रहः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.382 · p. 99
विघ्नो व्यवायसंज्ञोऽसौ प्रत्यूहश्चान्तरायवत् ।प्रस्तावोऽवसरो वेला वारो प्रक्रमनाम च ॥ ३८२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.201 · p. 126
संभोगो ग्राम्यधर्मश्च मैथुनं कामकेल्यपि ।पशुक्रियानिधुवने व्यवायो मिथुनं च तत् ॥ २०१ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.246 · p. 56
मैथुने तु व्यवायः स्याद्ग्राम्यधर्म इति द्वयम् ।निर्बन्धवर्तमानोक्तपुरुषार्थचतुष्टये ॥ २४६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.539 · p. 127
निधुवनं व्यवायश्च कथ्यते कोविदैः किल ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable); pāda 4, syllable 3 त (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2747 · p. 447
अन्तरायश्च प्रत्यूहो व्यवायो विघ्न इत्यपि ॥ २७४७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.996 · p. 124
मैथुनं स्यान्निधुवनं कुहरं सुरतं रतम् ।याभसंवेशनिर्वेशग्राम्यधर्मव्यवायकाः ॥ ९९६ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.815 · p. 94
स्नेहेऽप्यपह्नवः प्रोक्तो द्वेषेऽप्यनुशयः स्मृतः ।सुरतेऽपि व्यवायः स्यान्नैगमश्च ऋतावपि ॥ ८१५ ॥
अनुष्टुप्
meaningsसुरत
धरणिकोश Dharaṇikośa · धरणिदास यपादः Dharaṇikośa 25.1.13 · p. 150
आदित्यौ सुरमार्तण्डौ भ्रातृव्यौ भ्रातृजद्विषौ ।व्यवायः सुरते शुद्धौ हृदयं चित्तवक्षसोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.65 · p. 296
पर्यायोऽवसरे क्रमेऽर्थविवृतौ निर्माणवाची तथासंस्त्यायस्तु समूहविस्तृतिगृहे स्यात्संनिवेशे स्थितौ ।अन्तर्द्धौ सुरते व्यवाय उदितस्तेजोर्थकस्त्वव्ययं ।शालेयं शतपुष्पिकौषधभिदि क्षेत्रे च शाल्यर्हके ॥ ६५ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.186 · p. 27
वात्स्यायनमुनौ चाथ व्यवायो मैथुनेऽपि च ।व्यवधानेऽथ वहतिः कुटुम्बेऽमात्यपुत्रयोः ॥ १८६ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.65 · p. 244
व्यवायो मैथुनेऽन्तर्धौ चित्रे दर्पे च विस्मयः ।वाहसौ वह्न्यजगरौ द्रुप्रवालौ तु विद्रुमौ ॥ ६५ ॥
अनुष्टुप्