हार
hāraपुं · masc.In 17 kośas: 28 synonym verses, 5 as a nānārtha head word, 23 as a meaning of another word.
हारो मुक्तातः प्रालम्बस्रक्कलापावलीलताः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तः (wrong syllable)
genderपुंmasc.
genderपुंmasc.
स्वर्णैः प्रालम्बिकाथोरःसूत्रिका मौक्तिकैः कृता ॥ १०४ ॥हारो मुक्तावली देवच्छन्दोऽसौ शतयष्टिका ।हारभेदा यष्टिभेदाद्गुच्छगुच्छार्धगोस्तनाः ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
देवच्छन्दः शतयष्टिरर्धो माणवकः स्मृतः ।हारो गुच्छार्धगुच्छौ च गोपुच्छश्च भवेत्क्रमात् ॥ ५६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
genderपुंmasc.
ग्रैवेयकः स्याद्ग्रैवेयं हारो हारा च कथ्यते ।परिहार्यः पारिहार्यः आवापावापकौ समौ ॥ १८७ ॥
अनुष्टुप्
genderपुंmasc.
अवगाहो वगाहश्च विश्रामो विश्रमो भवेत ।शर्वः सर्वश्च शम्भौ तु तत्र हारो हरे भवेत् ॥ २७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
कलापः पुंसि मुक्तार्थाद्धारः प्रालम्ब इत्यपि ।स्त्र्यावली स्रग्लता यष्टिः सूत्रं प्रतिसरस्त्रिषु ॥ २५९ ॥
अनुष्टुप्
genderपुंmasc.doubtful
देवच्छन्दः शतं साग्रमिन्द्रच्छन्दः सहस्रकम् ।तदर्धं विजयच्छन्दो हारस्त्वष्टोत्तरं शतम् ॥ २६० ॥
अनुष्टुप्
genderपुंmasc.
स्नानं वसनं तिलको लेपो हारोऽञ्जनं काञ्ची ।नासामौक्तिककुण्डलनूपुरकुचकञ्चुकीमालाः ॥ १७५ ॥
उपगीतिः
genderपुंmasc.
मौक्तिद्वंद्वे तु हारः स्यान्मुक्तास्रङ्मौक्तिकावली ।मुक्तालता भवेन्मुक्ता प्रालम्बो मध्यगोऽस्य च ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
इन्द्रच्छन्दोऽष्टोत्तरी स्याद्यष्टीनां च सहस्रतः ।तदर्द्धं विजयच्छन्दो हारस्त्वष्टोत्तरं शतम् ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
बहुकर ऊरुर्हारोगीः शारो मुद्गरो वध्रः ।वल्लर-शफर-मसूराःसहचर-कृशरौ कुठार-नालिकेरौ च ॥ २८ ॥
metre not recognised
genderपुंस्त्रीm. f.
स्त्री तु देवनिवासस्य हारा कक्ष्यासु सा पुनः ।हारी नाम्नैव दुष्टायां कन्यायामथ स त्रिषु ॥ १५९० ॥
अनुष्टुप्
genderविadj.
हारो मुक्तालता मुक्तावली मुक्ताकलापकः ।तद्विशेषा यथा देवच्छन्दः साष्टं शतं स्मृतम् ॥ ३०७ ॥
अनुष्टुप्
genderपुंmasc.
किटश्चपेटो गुडशुण्डशाणागर्ताजमोदौ रथवारिपर्णौ ।कुठारहारौ शफरो मसूरोवर्ध्रो विधो मुद्गरनालिकेरौ ॥ १११ ॥
उपजातिः
genderपुंस्त्रीm. f.
मुक्तावली हारलता हारो माला प्रसूनस्रक् ।तरलो मध्यमाणिक्यं नायको हारभूपतिः ॥ १०३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 न (wrong syllable)
genderपुंmasc.
ग्रैवेयं कण्ठाभरणं कण्ठसूत्रं च कण्ठिका ।हारो मुक्तावली मुक्तामाला मुक्ताकलापकम् ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
हारो मुक्ताप्रालम्बश्च मुक्तालता तथैव च ।मुक्तावली च मुक्तास्त्रक् मुक्ताकलाप उच्यते ॥ १०६८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
देवच्छन्दः शतमिन्द्रच्छन्दः साष्टसहस्रकम् ।तस्यार्धं विजयछन्दो हारश्चाष्टोत्तरं शतम् ॥ १०६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
genderपुंmasc.
तरलस्तु भवेदेष मणिश्चेत् हारमध्यगः ।हारो मुक्ताबली हारा यष्टिर्यष्टी लतापि च ॥
अनुष्टुप्
genderपुंmasc.
कण्ठभूषायां ग्रैवेयं ग्रैवं ग्रैवेयकं तथा ।मुक्तास्रज्याहारो हारः स्त्रीन्रोर्यष्ट्यां सरिः सरः ॥ २१३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 यां (wrong syllable); pāda 3, syllable 5 हा (wrong syllable)
genderपुंmasc.
विकृतौ पयसः क्षीरच्छदः संतानिका स्त्रियाम् ।विवधो वीवधो हारः पर्याहारो विहङ्गिका ॥ ७७४ ॥
अनुष्टुप्
genderपुंmasc.
हारो मुक्तावली मुक्तासारो मौक्तिकदाम च ।गोस्तनस्तु चतुष्षष्टियष्टिः स्याच्छतयष्टिकः ॥ ११६१ ॥
अनुष्टुप्
genderपुंmasc.
दारो विदारणे हारो हृतौ वारः कदम्बके ।प्रवासो दूरगमनं परिसर्पः परिक्रया ॥ १७०७ ॥
अनुष्टुप्
genderपुंmasc.
फेणाभिजनकलापनिकाया हारोच्चारोपलकल्लोलाः ।फालचषालकीलनलतण्डुलशैवलखलविभवप्रसवाश्च ॥ ४ ॥
metre not recognised
genderपुंmasc.
हारो मुक्तावली स्त्री स्यात्तद्भेदा यष्टिसंख्यया ।देवच्छन्दः शतं साष्टमिन्द्रच्छन्दः सहस्रकम् ॥ १३८ ॥
अनुष्टुप्
genderपुंmasc.
तस्यार्धं विजयच्छन्दो हारस्त्वष्टोत्तरं शतम् ।अर्धं रश्मिकलापोऽस्य द्वादशस्त्वर्धमाणवः ॥ १३९ ॥
अनुष्टुप्
genderपुंmasc.
अपि गोस्तनगोपुच्छावर्धमर्धं यथोत्तरम् ।एकावल्यनुकण्ठी च हारः स्यादेकयष्टिकः ॥ १४१ ॥
अनुष्टुप्
genderपुंmasc.
हरस्य च हरेश्चापि सम्बन्धिन्यथ हालवाक् ।हलसम्बन्धिनि त्रि स्यान्नृलिङ्गस्तु विलेखने ॥ १५९१ ॥
अनुष्टुप्
doubtful
हार as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् गुच्छप्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः । Amarakośa 3.3.58
- हलायुधकोशः (अभिधानरत्नमाला) रजतश्वेतं रजतेऽप्युक्तं रजतं हारे शरेऽपि किंशारुः । दम्भेऽपि गह्वरं स्यादुपह्वरं सन्निधानेऽपि ॥ ७९१ ॥ Abhidhānaratnamālā (Halāyudha) 5.791
- धरणिकोश रजतरजतमवदाते स्याद्रजतं हाररुप्ययोः । ज्वलितं तु दीप्तमिव स्मृतं दग्धे प्रभास्वरे ॥ Dharaṇikośa 15.2.22
- धरणिकोश आहारआहारो भोजने हारे तथैवाहरणेऽपि च । आसारः स्यात्प्रसरणे वेगाद्धर्षे सुहृद्बले ॥ Dharaṇikośa 26.2.57
- धरणिकोश मणिमालामणिमाला तु हारेषु दन्तक्षतान्तरेष्वपि । कृताञ्जलिरौषधौ स्याद्विहिता येन चाञ्जलिः ॥ Dharaṇikośa 27.2.50
- कोषकल्पतरु यष्टिवृद्धौ तु पुष्टिः परिपोषणे च यष्टिर्द्वयोर्हारशरे च शस्त्रे । ध्वजस्य दण्डे मधुके च भार्ङ्ग्यां मुष्टिः पले बद्धकरेऽपि युग्मे ॥ १७ ॥ Koṣakalpataru 6.10.17
- कोषकल्पतरु रजतउन्नद्धवृद्धौदनिकेषु चोच्छ्रितं हेम्न्यस्त्रियां स्यात्कलधौतके तथा । हारे द्विपानां दशनेऽथ पाण्डुरे- ऽन्यवद्गिरौ ना रजतं प्रदिष्टम् ॥ ८० ॥ Koṣakalpataru 6.16.80
- कोषकल्पतरु गोस्तनउष्णीषकर्णपाल्योः परिभृत्य वेष्टनं क्लीबे । स्याद्गोस्तनस्तु हारे द्राक्षायां गोस्तनी गदिता ॥ ४९ ॥ Koṣakalpataru 6.21.49
- कोषकल्पतरु आहारआहार उक्तोऽप्यशनक्रियायां हारे तथैवाहरणे प्रदिष्टः । विहारमस्त्री किल भिक्षुगेहे तथा यतीनां चरणक्रियायाम् ॥ ४८ ॥ Koṣakalpataru 6.27.48
- कोषकल्पतरु मणिमालास्त्रीणां दन्तक्षतभिदि मणिमाला स्यात्तथा हारे । वेणौ तु ध्वनिमाला वीणायां काहलायां च ॥ ८१ ॥ Koṣakalpataru 6.28.81
- नानार्थार्णवसंक्षेप गोपुच्छहारभेदे पुमान् गोस्तु लाङ्गूले पुन्नपुंसकम् । गोरक्षो नागरङ्गे ना गवां तु त्रातरि त्रिषु ॥ ६८९ ॥ Nānārthārṇavasaṃkṣepa 4.689
- नानार्थार्णवसंक्षेप तरलतरलं तु त्रिषु ज्ञेयं चञ्चले भास्वरेऽपि च । हारमध्यगरत्ने तु पुमान् हारे च नप् पुनः ॥ ८१८ ॥ Nānārthārṇavasaṃkṣepa 4.818
- नानार्थार्णवसंक्षेप रजतमृगाणां स्याद्रमयितर्यथ क्ली रजतं विदुः । पुंस्यप्येके विदू रूप्यहारयोः शोणिते ह्वदे ॥ १४८५ ॥ Nānārthārṇavasaṃkṣepa 4.1485
- नानार्थार्णवसंक्षेप ललितललितं हारभेदे क्ली लसितेऽथ त्रिरीप्सिते । लङ्गनं तु गतौ क्लीबं लङ्गनी तु स्त्रियामियम् ॥ १५५७ ॥ Nānārthārṇavasaṃkṣepa 4.1557
- नानार्थार्णवसंक्षेप मातामहपूर्वजातेषु वंश्येषु स्यात् तु मातामही स्त्रियाम् । मातुर्जनन्यामथ ना हारे षोडशयष्टिके ॥ ४९६ ॥ Nānārthārṇavasaṃkṣepa 6.496
- नानार्थार्णवसंक्षेप नक्षत्रमालाएकयष्टौ हारभेदे नक्षत्राणां तथावलौ । अथ स्यान्मालिकायां च नवायां नवमालिका ॥ ७ ॥ Nānārthārṇavasaṃkṣepa 7.7
- परमानन्दीयनाममाला गुच्छगिरिः पूज्ये गिरौ गर्भे कन्तुके नेत्ररुज्यथ । गुच्छः स्तम्बे कलापेऽपि हारस्तबकयोः पुनः ॥ १५७ ॥ Paramānandīyanāmamālā 5.9.157
- शब्दरत्नावली सर्जूबीजं स्यादङ्कुरे हेतौ तत्त्वाधाने च शुक्रके । स्त्री सर्जूरभिसारे च हारे वणिजि विद्युति ॥ Śabdaratnāvalī 7.8.17
- शब्दरत्नावली रजतरजतं स्यात्त्रिषु श्वेते क्लीबन्तु रूप्यहारयोः । रमतिः पुंसि काके स्यान्नायकेऽपि निगद्यते ॥ Śabdaratnāvalī 7.16.127
- शब्दरत्नावली मणिमालाभद्रकाली च गन्धोल्यां कात्यायन्यामपि स्त्रियाम् । महाकालो महादेवे किम्पाके प्रथमान्तरे ॥ भवेन्मदकलो पचगजेऽव्यक्तप्रलापिनि । महाबलो बृहद्वीर्ये सीसकेऽपि च न द्वयोः ॥ महानीलो भृङ्गराजे मणिनागविशेषयोः । मणिमाला स्त्रियां हारे लक्ष्म्यां दन्तक्षतान्तरे ॥ मुक्ताफलञ्च कर्पूरे मौक्तिके लवलीफले । भवेद्यवफलो मांसकूटजप्लक्षवेणुषु ॥ रजस्वला पुष्पवत्यां महिषे तु रजस्वलः ॥ Śabdaratnāvalī 7.28.112
- त्रिकाण्डशेष गुत्सतैजसे कंस्यपात्रे च गुत्सः स्तबकहारयोः । छन्दः पद्यश्रुतीच्छासु तरो वेगे बलेऽपि च ॥ ४४५ ॥ Trikāṇḍaśeṣa 3.3.445
- वैजयन्ती तरलतातलो लोहकूटे ना त्रिषु तप्ते मनोजवे । तरलो भास्वरे हारे चञ्चलेऽप्यथ तारका ॥ ४४ ॥ Vaijayantī 7.5.44
- वैजयन्ती रजतवातूले विषवैद्येऽथ रजतं शोणिते ह्रदे । श्वेते हारेऽप्यथोष्ट्रेऽलौ रवणः शब्दनेऽर्थवत् ॥ ७० ॥ Vaijayantī 7.5.70