लट्वा
laṭvāस्त्री · fem.In 11 kośas: 7 synonym verses, 8 as a nānārtha head word, 2 as a meaning of another word.
लट्वायां महारजनं कुसुम्भं कमलोत्तरम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
genderस्त्रीfem.
खट्वा ग्रीवा तथा दूर्वा लट्वा सारिवया शिवा ।कशा शिवा कुशोशापि दशेषामिक्षया समा ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
संहर्षा चापि संस्पर्शा जन्तुकृष्णाह्वकृष्णिका ।अस्त्री कुसुम्भो लट्वा च महारजनमित्यपि ॥कटरो रक्तपुष्पः स्यात्किरिका पद्ममित्यपि ।कम्पिल्लकस्तु काम्पिल्लः कर्कशो रक्तचूर्णकः ॥ ८३ ॥
अनुष्टुप्
genderस्त्रीfem.
चलचञ्चुस्तथाङ्गारभोजी लट्वा तु पेचकः ।पुच्छाधोभागरक्तोऽथ कामी गृहकपोतकः ॥ ९४ ॥
अनुष्टुप्
genderस्त्रीfem.
मणिमाला ध्वनिमाला हरिताली सुरताली च ।लट्वा खट्वा मूर्वा दर्विर्नीविश्छविर्मौर्वी ॥ ७४ ॥
उपगीतिःmetre not read in every line
genderस्त्रीfem.
लट्वा वह्निशिखं चैव कुसुम्भं कमलोत्तरम् ।महारजनं नामाऽपि कथ्यते कुसुम्भस्य वै ॥ २०८७ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
हारीतः कोकिलो लट्वा कपोतशुकशारिकाः ।जीवंजीवकदात्यूहौ चटको भृङ्ग इत्यमी ॥ ८१४ ॥
अनुष्टुप्
genderस्त्रीfem.
ग्रीवा शिरोधावपि तच्छिरायांमीवा तु वायावुदरक्रिमौ च ।रेवा सरिद्भित्स्मरयोषितोः स्या-नील्यां च लट्वा तु करञ्जभेदे ॥ १० ॥
इन्द्रवज्रा
meaningsकरञ्जभेद
पक्ष्यन्तरे स्याच्च कुसुम्भशाकेतथा भवेद्गुग्गुलुशाक एषा ।नीवी वणिङ्मूलधनेऽङ्गनानांकटीस्थवस्त्रस्य च बन्धनेऽपि ॥ ११ ॥
उपजातिः
doubtful
करञ्जभित्फले लट्वा वाद्यपक्षिप्रभेदयोः ।विश्वं शुण्ठ्यां समस्ते च निर्वाणे विभवो धने ॥ ४२२ ॥
अनुष्टुप्
लट्वा as a meaning in nānārtha verses
- शिवकोष करककण्टकः कोरके वेणौ पद्मबीजे तु कण्टकम् । स्त्री शाल्मलीकछुरयोः करकः सारलट्वयोः ॥ १९ ॥ Śivakoṣa 1.3.19
- शिवकोष कुक्कुटीगूढपत्रे कुक्कुटी च काकणन्तीरसोनयोः । कन्दभेदे च लट्वायां मोचायामश्मभिद्यपि ॥ १२८ ॥ Śivakoṣa 8.2.128