कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

नानार्थस्कन्धः · लान्ताः (2/2)

कदला तु पृश्निपर्ण्यां डिम्बे स्यात्पिच्छिलायां च ।कदली तु वैजयन्त्यां रम्भायां स्यान्मृगान्तरेऽपि स्त्री ॥ ६५ ॥
6.28.65 · p. 354
उद्गीतिः
वृक्षद्वीपविभेदे शाल्मलिरुक्ता स्त्रियां पुंसि ।केवलमेकसमग्रे निर्णीतेऽन्त्ये पुमान्कुहने ॥ ६६ ॥
6.28.66 · p. 354
metre not recognised
स्त्रीलिङ्गं पाशाङ्के(?) काहल उक्तः खले परवत् ।शुष्के भृशे तु षण्ढे सरन्ध्रवाद्यान्तरे स नरि ॥ ६७ ॥
6.28.67 · p. 354
metre not recognised
तरुणीनामनि तु स्त्री[ग]न्धोली स्त्री वरट्यां स्यात् ।भद्राशच्योश्च कुडवकरसंपुटयोस्तथाञ्जलिः पुंसि ॥ ६९ ॥
6.28.69 · p. 354
metre not recognised

चतुर्लाः ।

मत्ते गजे मदकलो मदतोऽस्फुटौक्तौकोलाहले कलकलो नरि[74b]सर्जवृक्षे ।मल्ल्यां पुनर्विचकिलो दमनेऽतिमुक्ते-ऽथामर्दके परिमलोऽपि मनोज्ञगन्धे ॥ ७० ॥
6.28.70 · p. 354
वसन्ततिलकाmetre not read in every line
बृहन्नलः पोटगलेऽर्जुने चमुक्ताफलं स्याल्लवलीफलेऽपि ।कर्पूरके चाथ सदाफलः स्या-दुदुम्बरे स्कन्धफले पुटोदे ॥ ७१ ॥
6.28.71 · p. 354
उपजातिः
वेणौ भवेद्यवफलः कुटजे च मांस्यांहालाहलस्तुरगलालसमाह्वसर्पे ।ज्येष्ठ्यां न योषिति विषेऽथ कुतूहलं स्या-च्छस्तेऽपि कौतुक उदीरितमेवमेव ॥ ७२ ॥
6.28.72 · p. 354
वसन्ततिलका
कर्मणि दैवविपाके कर्मफलं कर्मरङ्गेऽपि ।मृत्युफलः किंपाके मृत्युफला स्यात्कदल्यां च ॥ ७३ ॥
6.28.73 · p. 355
metre not recognised
कमण्डलौ वायुफलं मघोन-श्चापेऽथ दान्तेऽपि दलामलं स्यात् ।फणिज्जके चाथ महाबलं स्या-त्सीसे बलाढ्ये तु विशेष्यलिङ्गम् ॥ ७४ ॥
6.28.74 · p. 355
उपजातिः
स्त्रियां भवेद्यातिबलाभिधानेधूमे पयोदे खतमाल उक्तः ।स्याद्गर्दभाण्डे नरि कन्दरालःप्लक्षे महाकालमुशन्ति शंभौ ॥ ७५ ॥
6.28.75 · p. 355
उपजातिः
किंपाकवृक्षे प्रमथान्तरेऽथमणौ महानील इहा[75a]हिभेदे ।स्याद्भृङ्गराजेऽथ जलाञ्चलं स्या-च्छैवालके स्रोतसि तद्वदेव ॥ ७६ ॥
6.28.76 · p. 355
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 म (wrong syllable)
नीपतरौ च मलप्वां कोशविदो बहुफलामाहुः ।भालेऽपि गण्डशैलो गिरितः स्थूलोपले भ्रष्टे ॥ ७७ ॥
6.28.77 · p. 355
उपगीतिः
उलूखलं गुग्गुलुपादपे चस्यात्कण्डनीनाम्न्यथ चक्रवालः ।गिरौ द्वयोनस्तु स मण्डलेऽथकाशे नले पोटगलो झषे च ।स्याद्धस्तिमल्लो गणपेऽभ्रनागे-ऽथ ग्रामवृन्देऽपि च भस्मतूलम् ।स्यात्पांशुवर्षे तुहिनेऽथ वात-केलिर्विटानां रदलेखने स्यात् ॥ ७९ ॥
6.28.79 · p. 355
उपजातिःtwo metres in one verse
तथा कलालापगताथ न स्त्रीकमण्डलुः स्यात्करकेऽथ पुंसि ।प्लक्षेऽक्षमाला तु किलाक्षसूत्रेवसिष्ठपत्न्यामपि संप्रदिष्टा ॥ ८० ॥
6.28.80 · p. 355
उपजातिः
स्त्रीणां दन्तक्षतभिदि मणिमाला स्यात्तथा हारे ।वेणौ तु ध्वनिमाला वीणायां काहलायां च ॥ ८१ ॥
6.28.81 · p. 356
metre not recognised
महिषे रजस्वलः स्यात्स्त्रीधर्मिण्यां तथा नार्याम् ।एकाष्ठीला तु स्याच्छिवमल्ल्यां स्याच्च पाठायाम् ॥ ८२ ॥
6.28.82 · p. 356
metre not recognised
अतिबला तु बला[75b]भिदि वाच्यव-द्भृशबलेऽप्यथ गन्धफली भवेत् ।विकचचम्पककोरकवाचिकानिगदिता च तथा फलिनीभिदि ॥ ८३ ॥
6.28.83 · p. 356
द्रुतविलम्बितम्metre not read in every line
गन्धोलिकायामपि भद्रकालीराढ्यौषधे भूधरकन्यकायाम् ।स्यादङ्कपाली किल धात्रिकायांकोट्यां तथा स्यात्परिरम्भणेऽपि ॥ ८४ ॥
6.28.84 · p. 356
इन्द्रवज्रा
हरिताली तु खरेखाखड्गलतादूर्विकासु स्यात् ।
6.28.139 · p. 356
metre not recognised

पञ्चलाः ।

पुंस्यासुतीवलः स्यान्मद्यकरे यायजूकेऽथ ॥ ८५ ॥
6.28.85 · p. 356
metre not recognised
शिलान्तरे स्यादपि पाण्डुकम्बलःसिते कुथे सीरिणि चैककुण्डलः ।मनुष्यधर्मण्यथ मस्तकस्रजिदूत्यां च ताली सुरतोत्तर स्थिता ॥ ४८६ ॥
6.28.486 · p. 356
upajati 12