मौर्वी
maurvīस्त्री · fem.In 16 kośas: 18 synonym verses, 18 as a meaning of another word.
मौर्वी जीवा गुणो गव्या शिञ्जा बाणासनं द्रुणा ।शिञ्जिनी ज्या च गोधा तु तलं ज्याघातवारणम् ॥ ७७६ ॥
अनुष्टुप्
genderस्त्रीfem.
लस्तकस्तु धनुर्मध्यं मोर्वी ज्या शिञ्जिनी गुणः ।
अनुष्टुप्
genderस्त्रीfem.doubtful
अस्त्रं धनुरिष्वासं कोदण्डं धन्व कार्मुकं चापम् ।बाणासनं द्रुणा स्यान्मौर्वी ज्या सिञ्जिनी गुणो जीवा ॥ ४६४ ॥
metre not recognised
genderस्त्रीfem.
अटनी धनुषो मध्ये लस्तको ना गुणालयः ।मौर्वी ज्या सिञ्जिनी जीवा न ना गव्या गुणो द्वयोः ॥ २६३ ॥
अनुष्टुप्
genderस्त्रीfem.
गोष्ठी वानी रसवती मत्स्यण्ड्या सह दामनी ।कस्तूरी सिञ्जिनी मौर्वी क्षैरेय्यपि च देहली ॥ ४४ ॥
अनुष्टुप्
genderस्त्रीfem.
मौर्वी ज्या शिञ्जिनी शिञ्जा जीवा वामा द्रुणा च सा ।गुणो बाणासनं च स्यात्तारणमादिगव्यकम् ॥ १७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
genderस्त्रीfem.
मणिमाला ध्वनिमाला हरिताली सुरताली च ।लट्वा खट्वा मूर्वा दर्विर्नीविश्छविर्मौर्वी ॥ ७४ ॥
उपगीतिःmetre not read in every line
genderस्त्रीfem.
मौर्वी जीवा गुणो गव्या ज्याऽलिर्भृङ्गः शिलीमुखः ।भ्रमरः षट्पदो ज्ञेयो द्विरेफश्च मधुव्रतः ॥ ८२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोदण्डं कार्मुकं चाप इष्वासोऽस्त्रं धनुस्तथा ।जीवा मौर्वी गुणो गव्या ज्या शिञ्जा शिञ्जिनी द्रुणा ॥ ३८२ ॥
अनुष्टुप्
genderस्त्रीfem.
अ[5]क्षवत्येकपद्यौ च करीरी रसवत्यथ ।द्योदिवौ द्वार्धुरौ मौर्वी कस्तूरी शृङ्ग्यपि दृषद् ॥ ६७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 पि (wrong syllable)
genderस्त्रीfem.
प्रत्यञ्चा सिञ्जिनी मौर्वी ज्या जीवा चापडोरकः ।चापाग्रमटिनी कोटिर्गोधा ज्याघातवारणम् ॥ २२३ ॥
अनुष्टुप्
genderस्त्रीfem.
धनुः कोदण्डमिष्वासश्चापो धन्व शरासनम् ।कार्मुकं जीवा प्रत्यञ्चा ज्यामौर्वीसिञ्जिनीगुणाः ॥ २७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
genderस्त्रीfem.
गुणो गव्या द्रुणा मौर्वी जीवा शिञ्जा च शिञ्जिनी ।ज्या च बाणासनं चेति जीवारज्जुर्निगद्यते ॥ १२६८ ॥
अनुष्टुप्
genderस्त्रीfem.
लस्तको ना धनुर्मध्यमस्त्रियां लस्तमित्यपि ।गुणः शिञ्जा शिञ्जिनी ज्या मौर्वी जीवा पतङ्गिका ॥
अनुष्टुप्
genderस्त्रीfem.
स्यात्तु सारस्वतो बैल्व औदुम्बर उलूखलः ।मौञ्जी तु मेखला सा तु मौर्वी स्यादेकमेखला ॥ १२२६ ॥
अनुष्टुप्
genderस्त्रीfem.
ज्याघातवारिणी गोधा धनुर्मध्ये तु लस्तकः ।जीवा ज्या शिञ्जिनी मौर्वी गुणः स्त्रीपुंसयोरिषुः ॥ १३२९ ॥
अनुष्टुप्
genderस्त्रीfem.
सिद्धकस्तीक्ष्णवृक्षश्च मौर्वी तु कवची समे ।पेचकाम्लककार्पासी सिराम्ला चाम्लिका च सा ॥ १४८० ॥
अनुष्टुप्
genderस्त्रीfem.
भिक्षाचारः कौक्कुटिकस्त्रिषु स्यादौर्ध्वरथ्यकः ।मौञ्जी तु मेखला क्षोणी मौर्वी त्वेकलमात्रिका ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
मौर्वी as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् गुणमौर्व्यां द्रव्याश्रिते सत्वशौर्यसन्ध्यादिके गुणः । Amarakośa 3.3.92
- धरणिकोश गुणगुणो मौर्व्यामप्रधाने रूपादौ सूद इन्द्रिये । शुल्वे विद्यादिसत्त्वादिसन्ध्यादिहरितादिषु ॥ Dharaṇikośa 14.3.1
- धरणिकोश ज्याद्युरह्नि त्रिदिवेऽपि स्याज्ज्या स्यान्मौर्वी वसुंधरा । द्योशब्दो गगने स्वर्गे यः सर्वनाम्नि योऽनिले ॥ Dharaṇikośa 25.1.1
- कोषकल्पतरु जीवाबृहस्पतौ प्राणभृति त्रिषु स्यात् स्त्रियां तु मौर्वीक्षितिजीवनीषु । तथा वचायामपि शिञ्जितेऽथ भावस्तु जन्तौ विबुधेऽथ शीले ॥ ९७ ॥ Koṣakalpataru 6.29.97
- नानार्थार्णवसंक्षेप ज्याक्ष्माशब्दो भुवि नद्यां च गिर्शब्दो वाचि योषिति । ज्या भूमिमौर्व्योस्त्वग्गन्धद्रव्ये चर्मणि वल्कले ॥ ५३ ॥ Nānārthārṇavasaṃkṣepa 1.1.53
- नानार्थार्णवसंक्षेप गुणग्रावा शैलशिलाभ्रेषु गुणो मौर्व्यप्रधानयोः । उपकारे सूपकारे तन्तुरज्ज्विन्द्रियेषु च ॥ ४७ ॥ Nānārthārṇavasaṃkṣepa 2.2.47
- नानार्थार्णवसंक्षेप गव्यरागद्रव्यान्तरे मौर्व्यां क्ली स्त्री तु निवहे गवाम् । गव्या गव्यूतिसंज्ञे चाप्यध्वमानेऽथ गोहिते ॥ ३२४ ॥ Nānārthārṇavasaṃkṣepa 2.5.324
- नानार्थार्णवसंक्षेप जीवाजीवो ना गीष्पतौ जन्तौ क्षेत्रज्ञे त्रि तु जीवति । त्रये प्राणे स्त्री तु मौर्व्यां जीवन्त्याख्यलतान्तरे ॥ ४८२ ॥ Nānārthārṇavasaṃkṣepa 2.5.482
- नानार्थार्णवसंक्षेप द्रुणीदुर्गा द्रुणी तु कच्छप्यां स्त्री मौर्व्यां तु द्रुणाथ नप् । द्रुणं धनुषि दुःखं तु क्ली व्यथायामथ त्रिषु ॥ ६०८ ॥ Nānārthārṇavasaṃkṣepa 2.5.608
- नानार्थार्णवसंक्षेप स्फारसाधनीये त्रि तु स्फारं प्रभूते स्फुरणे तु ना । मौर्व्यां तु सह चापस्य लाञ्छने स्यान्नपुंसकम् ॥ १४९६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1496
- नानार्थार्णवसंक्षेप शिञ्जिनीशिञ्जिनी नूपुरे मौर्व्यां शुश्रूषा तु कथानके । उपास्तौ श्रोतुमिच्छायां षण्डाली तु सरस्यपि ॥ ९५ ॥ Nānārthārṇavasaṃkṣepa 3.1.95
- शब्दरत्नावली गुणगणश्च प्रमथे वृन्दे संख्यायां सैनिकेऽपि च । गुणः सूत्रे चाप्रधाने मौर्व्वी त्यागवटीषु च ॥ कषादिशौर्यगन्धादिसत्त्वाद्यावृत्तिरज्जुषु । शुक्लादावपि पुंसि स्याद् गेष्णुर्ना गायने नटे ॥ Śabdaratnāvalī 7.15.8
- शब्दरत्नावली ज्यायकारो वायुयशसोर्योगे याने च यातरि । ज्या मातरि क्षितौ मौर्व्यां द्यु क्लीबं गगणे दिने ॥ Śabdaratnāvalī 7.26.1
- शब्दरत्नाकर गुणगुणो मौर्व्यामप्रधाने नाम्नि सत्त्वादिशौर्ययोः । शब्दार्थवृत्तिमाल्येषु तन्तुरश्मीन्द्रियेषु च ॥ १९०७ ॥ Śabdaratnākara 4.1.1907
- शब्दरत्नाकर जीवस्त्री मौर्व्यामथ जन्तुः स्यात् प्राणिनि क्षत्रियान्तरे । जम्बीरे दैत्यभेदे च जम्भो भूतान्तरेऽपि च ॥ १९२५ ॥ Śabdaratnākara 4.1.1925
- त्रिकाण्डशेष ज्यायुद्धे हुट्टे च जन्यं स्याज्ज्या स्यान्मौर्व्यां क्षितावपि । जटायुर्गुग्गुलुद्रौ च त्रिबेद्यां त्रितये त्रयी ॥ ३१३ ॥ Trikāṇḍaśeṣa 3.3.313
- वैजयन्ती जीवात्रिषु जीवति मौर्व्यां स्त्री स्याज्जीर्णो वज्रवृद्धयोः । झषा नागबलायां स्त्री ना मत्स्ये मकरे वने ॥ ३४ ॥ Vaijayantī 6.5.34
- वैजयन्ती ज्याधूः स्याद्यानमुखे भारे नौस्तु काले तरावपि । ज्या पृथिव्यां च मौर्व्यां च स्वर्व्योम्नोर्द्योदिवावुभे ॥ १७ ॥ Vaijayantī 8.2.17