कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मधुकृत्

madhukṛtपुं · masc.

In 5 kośas: 5 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य चतुरिन्द्रियाः Abhidhānacintāmaṇi 4.8.4 · p. 47
भ्रमरो मधुकृद्भृङ्गश्चञ्चरीकः शिलीमुखः ।इन्दिन्दिरोऽली रोलम्बो द्विरेफोऽस्य षडङ्घ्रयः ॥ १२१२ ॥भोज्यं तु पुष्पमधुनी खद्योतो ज्योतिरिङ्गणः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.177 · p. 337
रक्तवर्णश्चाग्निरजो भ्रमरस्तु शिलीमुखः ।रोलम्बः षट्पदो भृङ्गो मधुकृन्मधुपश्च सः ॥ १७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चा (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.129 · p. 68
वृश्चिकाली द्रुणोऽपिस्यादलं तत्पुच्छकण्टकः ।भ्रमरश्चञ्चरीकोऽली रोलम्बो मधुकृत्पुनः ॥ १२९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि चतुरिन्द्रियजीवनामानि Suśīlanāmamālā 5.8.2186 · p. 359
भ्रमरो भसलो भृङ्गो द्विरेफो मधुकृत् पुनः ।मधुकरश्च रोलम्बश्चञ्चरीकः शिलीमुखः ॥ २१८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.285 · p. 241
क्रिमिर्वृश्चिकेऽलि-राल्य-लालिर्द्रोणो द्रुणो द्रुतः ।भ्रमरेऽलि-रली मधुकृत् मधुकरः शिलीमुखः ॥ २८५ ॥
metre not recognised
genderपुंmasc.