कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शिलीमुख

śilīmukhaपुं · masc.

In 17 kośas: 23 synonym verses, 7 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.778 · p. 32
बाणे पृषत्कविशिखौ खगगार्ध्रपक्षौ काण्डाशुगप्रदरसायकपत्त्रवाहाः ।पत्त्रीष्वजिह्मगशिलीमुखकङ्कपत्त्ररोपाः कलम्बशरमार्गणचित्रपुङ्खाः ॥ ७७८ ॥
वसन्ततिलका
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य चतुरिन्द्रियाः Abhidhānacintāmaṇi 4.8.4 · p. 47
भ्रमरो मधुकृद्भृङ्गश्चञ्चरीकः शिलीमुखः ।इन्दिन्दिरोऽली रोलम्बो द्विरेफोऽस्य षडङ्घ्रयः ॥ १२१२ ॥भोज्यं तु पुष्पमधुनी खद्योतो ज्योतिरिङ्गणः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.255 · p. 31
मधुकरमधुपमधुव्रतशिलीमुखभ्रमरभृङ्गपुष्पलिहः ।इन्दिन्दिरालिषट्चरणचञ्चरीकालिनो द्विरेफाः स्युः ॥ २५५ ॥
गीतिः
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.466 · p. 53
कङ्कपत्त्रशरमार्गणबाणाश्चित्रपुङ्खविशिखेषुकलम्बाः ।सायकप्रदरकाण्डपृषत्काः पत्त्रिणः खगशिलीमुखरोपाः ॥ ४६६ ॥
स्वागता
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर चतुर्दशोपदेशः Bālaprabodhikā 14.305 · p. 93
मधूकरश्चञ्चरीको सारङ्गस्तु शिलीमुखः ।हिन्दोलो गन्धिलावासः कुसुमातिथिरीर्यते ।पतङ्गः शालभे तु स्याद्दंशस्तु वनमक्षिका ॥ ३०५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.267 · p. 118
सायकोऽजिह्मगो बाणः पृषत्कोपि शिलीमुखः ।कलम्बो मार्गणो रोपः पत्री स्यात्खग आशुगः ॥ २६७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.177 · p. 337
रक्तवर्णश्चाग्निरजो भ्रमरस्तु शिलीमुखः ।रोलम्बः षट्पदो भृङ्गो मधुकृन्मधुपश्च सः ॥ १७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चा (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.57 · p. 194
इन्दिन्दिरश्चञ्चरीकः षट्पदश्च शिलीमुखः ।अलिर्द्विरेफो रोलम्ब-घुण्ड-पुष्पंधया[68b]लिनः ॥ ५७ ॥
metre not recognised
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.20 · p. 265
उपासनं शराभ्यासोऽथो शरव्यं च वेध्यकम् ।लक्ष्यं लक्षं निमित्तं च चित्रपुङ्खः शिलीमुखः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 78 · p. 39
शिलीमुखः शरो बाणो मार्गणो रोपणः कणः ।इषुः काण्डं क्षुरप्रं च नाराचं तोमरं खगः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 82 · p. 41
मौर्वी जीवा गुणो गव्या ज्याऽलिर्भृङ्गः शिलीमुखः ।भ्रमरः षट्पदो ज्ञेयो द्विरेफश्च मधुव्रतः ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.130 · p. 68
शिलीमुखद्विरेफौ तु षडङ्ध्रि[ङ्घ्रिः]र्भृङ्ग इत्यपि ।इन्दिन्दिरोऽस्य भोज्यं तु मधुपुष्पे स्मृते पुनः ॥ १३० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.384 · p. 149
कलम्बमार्गणौ रोपः कङ्कपत्रशिलीमुखौ ।अजिह्मगश्चित्रपुङ्ख एषणः सर्वलौहकः ॥ ३८४ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.224 · p. 16
कोदण्डमध्यं तलकः छुरिका खड्गधेनुका ।बाणः कलम्बो विशिखः शरः पत्री शिलीमुखः ॥ २२४ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.379 · p. 26
शिलीमुखो मधुकरः षट्पदः पुष्पधूलिपः ।दीपप्रियः शलभकः पतङ्गो ज्योतिरन्तकः ॥ ३७९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.133 · p. 15
दण्डो नालं मृणालं च बिसतन्तुश्च तन्तुलम् ।द्विरेफो भ्रमरो भृङ्गो रोलम्बोऽलिः शिलीमुखः ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.29 · p. 37
पृषत्कः सायको रोपः कङ्कपत्रः शिलीमुखः ।कलम्बाजिह्मगखगा नाराचश्च क्षुरप्रवत् ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1273 · p. 200
लक्षहा मार्गणो वारो विशिखश्च शिलीमुखः ।चित्रपुङ्खश्च पत्रीषुः प्रदरो मर्मभेदनः ॥ १२७३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि चतुरिन्द्रियजीवनामानि Suśīlanāmamālā 5.8.2186 · p. 359
भ्रमरो भसलो भृङ्गो द्विरेफो मधुकृत् पुनः ।मधुकरश्च रोलम्बश्चञ्चरीकः शिलीमुखः ॥ २१८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.285 · p. 241
क्रिमिर्वृश्चिकेऽलि-राल्य-लालिर्द्रोणो द्रुणो द्रुतः ।भ्रमरेऽलि-रली मधुकृत् मधुकरः शिलीमुखः ॥ २८५ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.817 · p. 103
इन्दिन्दिरभ्रमरषट्पदचञ्चरीक-रोलम्बभृङ्गमधुलिण्मधुपद्विरेफाः ।पुष्पंधयो मधुकरोऽलिरली च तत्रस्यात् पुष्पलिट् च भसलश्च शिलीमुखश्च ॥ ८१७ ॥
वसन्ततिलका
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1331 · p. 162
कदम्बो जिह्मगः पुङ्खी वीरशङ्कुः शिलीमुखः ।स्नुही दलफलो भल्लः क्षुरप्रस्त्वर्धचन्द्ररुक् ॥ १३३१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.181 · p. 119
अर्धशल्योऽर्धनाराचः कंकपत्रः शिलीमुखः ।त्रिभागशल्यनाराचे द्वौ दण्डासनदण्डिकौ ॥ १८१ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.37
मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
धरणिकोश Dharaṇikośa · धरणिदास खपादः Dharaṇikośa 2.1.1 · p. 19
सखा मित्रं सहाये च प्रमुखश्चादिमुख्ययोः ।वैशाखो मासि मन्थे च शिलीमुखोऽलिबाणयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 मु (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ खान्ताः Koṣakalpataru 6.2.86 · p. 162
गजेऽथ बाणे भ्रमरे शिलीमुखःकन्दो नुत( ? )र्व्याघ्रनखे नखौषधौ ।संख्याविभेदे च नरास्थ्नि पण्डितानिधौ महाशङ्ख [मुदाहरन्ति] ॥ ८६ ॥
upajati mixed
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.610 · p. 79
रश्मिभिर्वेष्टिते चाथ पुल्लिँङ्गः स्याच्छिलीमुखः ।शरे मधुकरे तु द्वे शिंशुमारः पुनः पुमान् ॥ ६१० ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश खान्ताः Śabdaratnāvalī 7.2.18 · p. 191
गन्धद्रव्ये नखाधाने कन्दे व्याघ्रनखोऽस्त्रियाम् ।बाणे युद्धे जडीभूते भ्रमरे च शिलीमुखः ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2228 · p. 269
शंकुकर्णौ गर्दभोष्ट्रौ शरभृङ्गौ शिलीमुखौ ।श्रीवत्साङ्कौ हरिवृकौ सिंहकाकौ सकृत्प्रजौ ॥ २२२८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 8.1.44 · p. 268
वर्धमानः शरावे स्यादेरण्डे भूषणेऽपि च ।शंकुकर्णौ गर्दभोष्ट्रावलिबाणौ शिलीमुखौ ॥ ४४ ॥
अनुष्टुप्