द्विरेफ
dvirephaपुं · masc.In 13 kośas: 14 synonym verses, 1 as a meaning of another word.
भ्रमरो मधुकृद्भृङ्गश्चञ्चरीकः शिलीमुखः ।इन्दिन्दिरोऽली रोलम्बो द्विरेफोऽस्य षडङ्घ्रयः ॥ १२१२ ॥भोज्यं तु पुष्पमधुनी खद्योतो ज्योतिरिङ्गणः ।
अनुष्टुप्
genderपुंmasc.
मधुव्रतो मधुकरो मधुलिण्मधुपालिनः ।द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
मधुकरमधुपमधुव्रतशिलीमुखभ्रमरभृङ्गपुष्पलिहः ।इन्दिन्दिरालिषट्चरणचञ्चरीकालिनो द्विरेफाः स्युः ॥ २५५ ॥
गीतिः
genderपुंmasc.
शब्दस्य केका बर्हस्तु प्रचलापकलापकौ ।अलिर्द्विरेफो लम्बोभसवः पुष्पलोलुपः ॥ ३०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रे (syllables merged)
genderपुंmasc.
पुष्पंधयः कलालापो द्विरेफो मधुलोलुपः ।इन्दिन्दिरोऽलिर्झङ्कारी भसलो भ्रमरोऽपि च ॥ १७८ ॥
अनुष्टुप्
genderपुंmasc.
इन्दिन्दिरश्चञ्चरीकः षट्पदश्च शिलीमुखः ।अलिर्द्विरेफो रोलम्ब-घुण्ड-पुष्पंधया[68b]लिनः ॥ ५७ ॥
metre not recognised
genderपुंmasc.
स्रोतस्विनी धुनी सिन्धुः स्रवन्ती निम्नगाऽपगा ।नदी नदो द्विरेफश्च सरिन्नामा तरङ्गिणी ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
मौर्वी जीवा गुणो गव्या ज्याऽलिर्भृङ्गः शिलीमुखः ।भ्रमरः षट्पदो ज्ञेयो द्विरेफश्च मधुव्रतः ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
शिलीमुखद्विरेफौ तु षडङ्ध्रि[ङ्घ्रिः]र्भृङ्ग इत्यपि ।इन्दिन्दिरोऽस्य भोज्यं तु मधुपुष्पे स्मृते पुनः ॥ १३० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
दण्डो नालं मृणालं च बिसतन्तुश्च तन्तुलम् ।द्विरेफो भ्रमरो भृङ्गो रोलम्बोऽलिः शिलीमुखः ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
भ्रमरो भसलो भृङ्गो द्विरेफो मधुकृत् पुनः ।मधुकरश्च रोलम्बश्चञ्चरीकः शिलीमुखः ॥ २१८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable)
genderपुंmasc.
इन्दिन्दिरः पुष्पकीटः पुष्पलिट् मधुसूदनः ।द्विरेफो मधुलिट् भृङ्गराज-भ्रमर-षट्पदाः ॥
अनुष्टुप्
genderपुंmasc.
इन्दिन्दिरभ्रमरषट्पदचञ्चरीक-रोलम्बभृङ्गमधुलिण्मधुपद्विरेफाः ।पुष्पंधयो मधुकरोऽलिरली च तत्रस्यात् पुष्पलिट् च भसलश्च शिलीमुखश्च ॥ ८१७ ॥
वसन्ततिलका
genderपुंmasc.
भृंगे भ्रमरभृंगाणमधुलिण्मधुपालिनः ।अलिर्द्विरेहफो लोलंबो भसलः पुष्पलोलुपः ॥ ४२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 भस (syllable split)
genderपुंmasc.
द्विरेफ as a meaning in nānārtha verses
- कोषकल्पतरु अलिपत्राञ्जनेऽलिस्तु युगे द्विरेफे मद्ये स्त्रियां पुंसि तु वृश्चिके स्यात् । आलिस्तु पङ्क्तावपि सेतुसख्योः कलिः पुमान्स्यात्कलहे च युद्धे ॥ ८७ ॥ Koṣakalpataru 6.28.87