मधुकर
madhukaraपुं · masc.In 15 kośas: 15 synonym verses, 1 as a nānārtha head word, 5 as a meaning of another word.
भसलो मधुकरोऽली च पिक्को विक्कः करिः करी ॥ १०९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
मधुव्रतो मधुकरो मधुलिण्मधुपालिनः ।द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
मधुकरमधुपमधुव्रतशिलीमुखभ्रमरभृङ्गपुष्पलिहः ।इन्दिन्दिरालिषट्चरणचञ्चरीकालिनो द्विरेफाः स्युः ॥ २५५ ॥
गीतिः
genderपुंmasc.
भ्रमरो भसलो भृङ्गो मधुपो मधुलोलुपः ।मधुव्रतो मधुकरो मधुलिण्मधुसूदनः ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
भ्रमरे पुष्पलिट् प्रोक्तो मधुव्ययकरोऽप्यलिः ।भृङ्गो मधुलिहः पुष्पनन्दी मधुकरः समः ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
शुण्डापानं मदस्थानं शुण्डाली च सुरागृहे ।मध्वारको मधुकरो मधुवारो मधुक्रमः ॥ ६२० ॥
अनुष्टुप्
genderपुंmasc.
शिलीमुखो मधुकरः षट्पदः पुष्पधूलिपः ।दीपप्रियः शलभकः पतङ्गो ज्योतिरन्तकः ॥ ३७९ ॥
अनुष्टुप्
genderपुंmasc.
इन्दिन्दिरश्चश्चरीकः षट्पदश्च मधुव्रतः ।मधुपोऽली[लिः] मधुकरो मधुलिट् पुष्पलिट् स्मृतः ॥ १३४ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
भ्रमरो भसलो भृङ्गो द्विरेफो मधुकृत् पुनः ।मधुकरश्च रोलम्बश्चञ्चरीकः शिलीमुखः ॥ २१८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable)
genderपुंmasc.
मधुलेही मधुकरो येणुवासोऽलिरप्यली ।पिपीलिका पिपीलिकं पिपीलोऽपि च पीलकः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 लि (wrong syllable)
genderपुंmasc.
क्रिमिर्वृश्चिकेऽलि-राल्य-लालिर्द्रोणो द्रुणो द्रुतः ।भ्रमरेऽलि-रली मधुकृत् मधुकरः शिलीमुखः ॥ २८५ ॥
metre not recognised
genderपुंmasc.
कूर्चशीर्षो मधुकरो ह्रस्वाङ्गः शृङ्गिजीवकौ ।ब्रह्म्यां सत्यवती ब्राह्मी मत्स्याक्षी सोमवल्लिका ॥ ६५० ॥
अनुष्टुप्
genderपुंmasc.
इन्दिन्दिरभ्रमरषट्पदचञ्चरीक-रोलम्बभृङ्गमधुलिण्मधुपद्विरेफाः ।पुष्पंधयो मधुकरोऽलिरली च तत्रस्यात् पुष्पलिट् च भसलश्च शिलीमुखश्च ॥ ८१७ ॥
वसन्ततिलका
genderपुंmasc.
genderपुंmasc.
इन्दिन्दिरो मधुकरश्चञ्चरीको मधुव्रतः ।शित्पुटः षट्पदश्चाथ पतंगः शलभः समौ ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
मधुकर as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप शिलीमुखरश्मिभिर्वेष्टिते चाथ पुल्लिँङ्गः स्याच्छिलीमुखः । शरे मधुकरे तु द्वे शिंशुमारः पुनः पुमान् ॥ ६१० ॥ Nānārthārṇavasaṃkṣepa 6.610
- शब्दरत्नावली भृङ्गराजभारद्वाजी मुनौ द्रोणे वनकार्पासके स्त्रियाम् । भृङ्गराजः पक्षिवृक्षभिदो मधुकरेऽपि च ॥ Śabdaratnāvalī 7.8.36
- शब्दरत्नावली अलिन्अरत्निः पुंसि कफनौ स्यात्प्रकोष्ठकरेऽपि च । अली मधुकरे पुंसि वृश्चिके च भवेत्पुमान् ॥ Śabdaratnāvalī 7.20.33
- शब्दरत्नावली मधुसूदनअमेरुद्रुमभिदो(?)र्ना जम्बुमाली निगद्यते । स्यात्क्लीबं दन्तशुद्धौ ना खदिरे दन्तधावनः ॥ केतुग्रहे हुताशे च स्यात्पुमान् धूमकेतनः । शिवे सुते च पक्षान्ते मित्रे ना नन्दिवर्द्धनः ॥ दाने च प्रतिपत्तौ च बोधने प्रतिपादनम् । भुजङ्गे च मयूरे च प्रचलाकी भवेत्पुमान् ॥ धनदे भास्करे विष्णौ विधौ च पद्मलाञ्छनः । वाग्देवतायां तारायां पद्मायां पद्मलाञ्छना ॥ कालीयके हरिद्रायां न द्वयोः पीतचन्दनम् । भीमे षेष्ठे च महिष पृष्ठशृङ्गी भवेत्पुमान् ॥ देवदारुणि कालीये न द्वयोर्वरचन्दनम् । स्त्रीरत्नरोचनालाक्षाहरिद्राफलिनीषु च ॥ साध्व्यां गौरीसरस्वत्योः पद्यायां वरवर्णिनी । वासुदेवे मधुकरे स्यात्पुंसि मधुसूदनः ॥ Śabdaratnāvalī 7.20.134
- शब्दरत्नावली शैलेयपुमान् सिंहे मधुकरे शिलातुल्ये तु वाच्यवत् । संस्त्यायः पुंसि विस्तारे संस्थानसन्निवेशयोः ॥ Śabdaratnāvalī 7.26.50