All kośas › Suśīlanāmamālā
सुशीलनाममाला Suśīlanāmamālā
3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)
तिर्यग्विभागः · चतुरिन्द्रियजीवनामानि
॥ इति त्रीन्द्रियजीवाः समाप्ताः ॥
* अथ चतुरिन्द्रियजीवनामानि *
* लूतानामानि *
ऊर्णनाभः क्रिमिः कृमिः मर्कटकस्तथाऽष्टपाद् ।लालास्त्रावश्च लूताच जालिको जालकारकः ॥ २१८३ ॥
5.8.2183 · p. 358
अनुष्टुप्metre not read in every line
प्रख्यातस्तन्त्रवायश्च तन्तुवायस्तथैव च ।सर्वनामानि लूतायाः मन्यन्ते पण्डितै जनैः ॥ २१८४ ॥
5.8.2184 · p. 358
अनुष्टुप्
* वृश्चिकनामानि *
वृश्चिकश्च द्रुणो द्रोणश्चाऽऽलि राली ह्यलिर्द्रुतः ।अलं वृश्चिकपुच्छाग्रं कण्टकं विषवाहकम् ॥ २१८५ ॥
5.8.2185 · p. 359
अनुष्टुप्
* भ्रमरनामानि *
भ्रमरो भसलो भृङ्गो द्विरेफो मधुकृत् पुनः ।मधुकरश्च रोलम्बश्चञ्चरीकः शिलीमुखः ॥ २१८६ ॥
5.8.2186 · p. 359
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable)
अलिरिन्दिन्दिरश्चाऽली षट्चरणश्च षट्पदः ।षडंह्रिश्चेति नामानि मन्यन्ते भ्रमरस्य वै ॥ २१८७ ॥
5.8.2187 · p. 359
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
तद्भोज्यं पुष्पमधुनी तस्मान् मधुव्रतश्च सः ।पुष्पन्धयश्च पुष्पलिट् मधुपो मधुलिट् तथा ॥ २१८८ ॥
5.8.2188 · p. 359
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable); pāda 3, syllable 7 ष्प (wrong syllable)
* खद्योतनामानि *
खद्योतो ध्वान्तचित्रश्च ज्योतिर्माली तमोमणिः ।कीटमणिस्तथा ज्योतिरिङ्गणश्च परार्बुदः ॥ २१८९ ॥
5.8.2189 · p. 359
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
पुनर्निमेषद्युत् चेति नामानि कथयन्ति वै ।
5.8.8 · p. 359
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 षि (wrong syllable)
* पतङ्गनाम *
पतङ्गः शलभः ख्यातो दीपज्योतिषि भ्राम्यति ॥ २१९० ॥
5.8.2190 · p. 359
अनुष्टुप्metre not read in every line
* मधुमक्षिकानामानि *
* मधुनामानि *
* मधूच्छिष्टनामानि *
वर्वणा मक्षिका नीला कृष्णाऽपि कथ्यते पुनः ।पतङ्गिका च पुत्तिका मन्यते लघुमक्षिका ॥ २१९३ ॥
5.8.2193 · p. 360
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 3, syllable 7 त्ति (wrong syllable)
वनमध्येऽधिका जाता दंशस्तु वनमक्षिका ।तज्जातिरल्पिका दंशी कथ्यते कोविदैः सदा ॥ २१९४ ॥
5.8.2194 · p. 360
अनुष्टुप्
* झिल्लीकानामानि *
झिरीका झिरुका चैव झिरूका झिल्लका पुनः ।झिल्लीका झिल्लिका भृङ्गारिका वर्षकरी तथा ॥ २१९६ ॥
5.8.2196 · p. 360
अनुष्टुप्
भृङ्गारी चेति नामानि मन्यन्ते पण्डितैर्जनैः ।इत्युक्ताश्चतुरिन्द्रियाः जीवाः येऽत्र महीतले ॥ २१९७ ॥
5.8.2197 · p. 360
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 न्द्रि (wrong syllable)