कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मन्थदण्डक

manthadaṇḍakaपुं · masc.

In 6 kośas: 6 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1023 · p. 40
वैशाखः खजको मन्था मन्थानो मन्थदण्डकः ।मन्थः क्षुब्धोऽस्य विष्कम्भो मञ्जीरः कुटरोऽपि च ॥ १०२३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.131
वैशाखमन्थमन्थान मन्थानो मन्थदण्डके ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.110 · p. 144
संस्कृतेन दृतिः पुंसि खल्लो स्त्र्यालूश्च चर्मणा ।करपात्री चाथ मेथा मन्थः स्यान्मन्थदण्डकः ॥ ११० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.300 · p. 41
कटाहकर्परौ तुल्यौ करङ्को नालिकेरजः ।मन्थानः खजको मन्थो वैशाखो मन्थदण्डकः ॥ ३०० ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.264 · p. 19
दात्रं लवित्रं मन्थानो वैशाखो मन्थदण्डकः ।चालनी तितउश्चुल्ही चुल्हिकाऽग्नी हसन्तिका ? ॥ २६४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1760 · p. 287
मन्थो मन्थाश्च मन्थानस्तथा च मन्थदण्डकः ।खजश्च खजकः क्षुब्धो वैशाखश्च प्रसिद्ध्यति ॥ १७६० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderपुंmasc.