मञ्जीर
mañjīraक्ली · neut.In 13 kośas: 20 synonym verses.
नूपुरं तु तुलाकोटिः पादतः कटकाङ्गदे ॥ ६६५ ॥मञ्जीरं हंसकं शिञ्जिन्यंशुकं वस्त्रमम्बरम् ।सिचयो वसनं चीराच्छादौ सिक्चेलवाससी ॥ ६६६ ॥पटः प्रौतोऽञ्चलोऽस्यान्तो वर्तिर्वस्तिश्च तद्दशाः ।
अनुष्टुप्
genderक्लीneut.
वैशाखः खजको मन्था मन्थानो मन्थदण्डकः ।मन्थः क्षुब्धोऽस्य विष्कम्भो मञ्जीरः कुटरोऽपि च ॥ १०२३ ॥
अनुष्टुप्
genderपुंmasc.
पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम् ॥ १०९ ॥
अनुष्टुप्
genderपुंmasc.
सिञ्जिनी पादकटकस्तुलाकोटिस्तु नूपुरम् ।मञ्जीरं हंसकं स्त्रीणां चरणाभरणं स्मृतम् ॥ ५६१ ॥
अनुष्टुप्
genderक्लीneut.
स्यात्पादकटकं चास्त्री तुलाकोटिरपि द्वयोः ।मञ्जीरोऽस्त्री नूपुरोऽपि तुलाकोट्यपि च स्त्रियाम् ॥ २६८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
जीरपञ्जरमञ्जीरजठराणां ततः परम् ।युगन्धरनूपुरयोर्दुरोदरकुटीरयोः ॥ १८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
genderपुंक्लीm. n.
मञ्जीरो हंसको न स्त्री नूपुरश्च तथान्दुकः ।[92b] त्वक्फल-कृमि-रोमाणि चतस्रो वस्त्रयोनयः ॥ ८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ल (wrong syllable)
genderपुंक्लीm. n.
नेत्रं मथिगुणो न स्त्री मन्थनं तु विलोडनम् ।वैशाखः खजको मन्थो मन्थास्तक्राट इत्यपि ।माथः क्षुब्धोऽस्य विष्कम्भो मञ्जीरः कुटकोऽपि सः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
हिञ्जीरमञ्जीरशरीरजीराःकर्पूरवन्नूपुरकर्णपूराः ।शृङ्गारकान्तारकरीरकूरा-न्धकारवत्कूबरबेरमेढ्राः ॥ ६० ॥
उपजातिः
genderपुंक्लीm. n.
तद्वाहने तु मञ्जीरस्तदक्षसर ईक्षणम् ।वर्णोदरं तदीयं स्यात्पुस्तकं तद्गतिर्नयः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
मन्था मन्थस्य विष्कम्भे मञ्जीरकुटरावपि ।शरावे वर्धमानोऽपि तथा शालाजिरोऽप्यसौ ॥ ३०१ ॥
अनुष्टुप्
genderपुंmasc.
किङ्किणी लघुघण्टिः स्यात्तुलाकोटिस्तु नूपुरे ।पादाङ्गदं च मञ्जीरं पादात्कटकमित्यपि ॥ ३१२ ॥
अनुष्टुप्
genderक्लीneut.
तिमिराङ्गारराष्ट्राणि जीरमञ्जीरवासराः ।विहारवारकान्तारकासाराणि च नूपुरम् ॥ १५६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पादाङ्गदं तुलाकोटिः हंसो मञ्जीरनूपुरे ।पादाटनोऽङ्घ्रिवलयं नवटोऽङ्गुष्ठमौद्रिकम् ॥ १०० ॥
अनुष्टुप्
genderक्लीneut.
मञ्जीरं पादकटकं तुलाकोटिश्च नूपुरम् ।हंसकं सिञ्जिनी चेति यावकोऽलक्तकः स्मृतः ॥ ५३ ॥
अनुष्टुप्
genderक्लीneut.
मन्दीरं चापि मञ्जीरं वै पादकटकं पुनः ।नूपुरस्येति नामानि विज्ञायन्ते सदा बुधैः ॥ १०८१ ॥
अनुष्टुप्
genderक्लीneut.
विष्कम्भः कुटकश्चैव कुटरः कुठरस्तथा ।मञ्जीरश्चापि मन्दीरं नामान्यष्टौ भवन्ति वै ॥ १७६२ ॥
अनुष्टुप्
genderपुंmasc.
नूपुरोऽस्त्री तुलाकोटिस्तुलाकोटी च हंसकः ।मञ्जीरं पादकटकं पादाङ्गद-पदाङ्गदे ॥
अनुष्टुप्
genderक्लीneut.
समे मञ्जीर-मन्दारे नूपुरे पादतः परे ।शीली च नालिका पादाङ्गुलीये पादतः परे ॥ २१७ ॥
अनुष्टुप्
genderक्लीneut.
नूपुरोऽस्त्री तुलाकोटिर्मञ्जीरो हंसकः समाः ।आवापकः पारिहार्यमुभयं कटकान्तरे ॥ ११६८ ॥
अनुष्टुप्
genderपुंmasc.