दृति
dṛtiपुं · masc.In 12 kośas: 11 synonym verses, 4 as a nānārtha head word, 5 as a meaning of another word.
genderपुंmasc.
गवलं माहिषं शृङ्गं दृतिश्चर्मप्रसेवकः ।समुद्गः सम्पुटो ज्ञेयो वडिशं मत्स्यबन्धनम् ॥ ७६४ ॥
अनुष्टुप्
genderपुंmasc.
संस्कृतेन दृतिः पुंसि खल्लो स्त्र्यालूश्च चर्मणा ।करपात्री चाथ मेथा मन्थः स्यान्मन्थदण्डकः ॥ ११० ॥
अनुष्टुप्
genderपुंmasc.
भेद्यवत्सर्वचर्मीणं दृतिर्भस्त्रा च खल्वकः ।प्रसेवकः पुमानत्र द्वयोश्चर्मप्रसेविका ॥भूते दृत्यां कलस्यां च दार्त्तेयं कालशेयवत् ।चर्मणो जलपात्रे स्यादालूः करकपात्रिका ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । लोहादिसञ्ज्ञा नपुंसके भवन्ति । इदं लोहमायसम् । मुखं लपनं तुण्डमाननमित्यादि । इदं पर्णं पलाशमित्यादि । वनं विपिनं काननमित्यादि । इदं धनं द्रविणं वस्वित्येवमादि । शीरार्थौ शब्दौ पुंसि भवतः । अयं शीरोऽलङ्कारः । अर्थो द्रव्यम् । अटवी तूक्ता स्त्रियामेव । इयमटवी वनम् ।राशिपलाण्डुकमण्डलुगडुतूलमुहूर्त्तपरशुशङ्कूनाम् ।दृतिसीधुकङ्कटानां पुंसि च गदितः प्रयोगो हि ॥ ३५ ॥
metre not recognised
genderपुंmasc.
दृतिश्चर्ममयी खल्लस्त्वालूः करकपात्रिका ।पर्वतः शिखरी भूध्रो गोत्राद्री भूधराचलौ ॥ ३०४ ॥
अनुष्टुप्
genderस्त्रीfem.
वह्न्यग्निदीदिविग्रन्थिकृमयो वमतिस्तथा ।गिरिजायू दृतिः शिश्रुरर्दनिः कलिरञ्जलिः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
सरावो ना दृतिस्तत्र खल्लं खल्लश्च भाण्डिभित् ।ध्रुवका ध्रूवकाऽमत्रे पात्रं पात्री च पात्रकाः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
पुंस्त्वे हाहा हूहू-र्ग्रन्थिः पाणिः कलिर्दृतिर्मौलि ।अञ्जलिङ्घ्रिः कुक्षिर्लावकलोकोत्तरासङ्गाः ॥ २ ॥
metre not recognised
genderपुंmasc.
घटी पारी कपाली तु त्रयी घोलश्च कर्परः ।शालाजिरो वर्धमानः शरावोऽस्त्री दृतिस्तु ना ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
भस्रायां चर्मखण्डे च ऋषिभेदेऽथ धाकवाक् ।ओदनानडुहोर्धातुशब्दस्तु धनलोहयोः ॥ ६४ ॥
अनुष्टुप्
doubtful
दितिः स्त्रियां खण्डने स्यात्तथा च दैत्यमातरि ।दीप्तं निर्भासिते दग्धे ज्वलितेऽपि च वाच्यवत् ॥द्रुतं शीघ्रे विनीते च विम्राणे चाभिधेयवत् ।दृतिश्चर्मपुटे मीते द्युतिः स्त्री रश्मिशोभयोः ॥धातुर्मनःशिलादौ तु श्लेष्मादौ गैरिकेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
दृति as a meaning in nānārtha verses
- कोषकल्पतरु ग्रहणआवर्ते प्रणते च दातरि वहौ क्षीणे क्रमान्निम्नक- क्ष्याभागे प्रवणोऽन्यवत्क्षणगतोऽप्यस्त्री तु शृङ्गाटके । बन्द्यां स्वीकरणे करेऽधिगमने राहूपरागे तथा- दृत्यां च ग्रहणं दृशीक्षणमपि ज्ञाने तथा दर्शने ॥ २३ ॥ Koṣakalpataru 6.15.23
- नानार्थार्णवसंक्षेप भस्त्रास्त्रियां च राज्यपालिन्यां दास्यां चाथ बलिध्वनिः । योनौ वायौ च भस्त्रा तु वह्निध्मानदृतावपि ॥ ७२ ॥ Nānārthārṇavasaṃkṣepa 2.1.72
- नानार्थार्णवसंक्षेप जीलजीलं करकपत्र्यां स्यात् कोशे चर्मपुटे दृतौ । तन्त्रं स्वराष्ट्रव्यापारे तन्तुवाने परिच्छदे ॥ २५ ॥ Nānārthārṇavasaṃkṣepa 2.3.25
- नानार्थार्णवसंक्षेप नैगममनःशिलायां च प्रोक्ता नेपाली बहुवेदिना । नैगमस्तूपनिषदि पुमानुक्तो दृतावपि ॥ १०४८ ॥ Nānārthārṇavasaṃkṣepa 4.1048
- वैजयन्ती जीलजीलं चर्मपुटः कोशो दृतिः करकपत्रिका । ज्योतिस्ताराग्निभाज्वालादृक्पुत्रार्थाध्वरात्मसु ॥ १० ॥ Vaijayantī 6.3.10