वर्त्तन
varttanaवि · adj.In 5 kośas: 4 synonym verses, 1 as a nānārtha head word, 3 as a meaning of another word.
वार्त्ता वृत्तिः पुनः क्लीबे वर्त्तनं जीवनं पुनः ।पुंस्याजीवोऽपि यद्भेद्यगाम्येषां त्रिष्वितः पुनः ॥ ४३ ॥
अनुष्टुप्
genderक्लीneut.
भूष्णुर्भविष्णुर्भविता वर्त्तिष्णुर्वृष्णुवर्त्तनौ ।निराकरिष्णुः क्षिप्नुः स्यात्प्रभूष्णुस्तु सहाः पुनः ॥ ६१ ॥
अनुष्टुप्
genderविadj.
मण्डनोऽलङ्कारिष्णुः स्याद् भूष्णुस्तु भाविता तथा ।भविष्णुर्वर्त्तनस्तु वै वर्तिष्णुः कथ्यते बुधैः ॥ ५७८ ॥
metre not recognised
genderविadj.
लज्जाशीलोऽपत्रपिष्णुर्वर्तिष्णुर्वर्त्तनः समौ ।निराकरिष्णुः क्षिप्नुः स्यात् वर्धिष्णुर्वर्धनः समौ ॥ ४० ॥
अनुष्टुप्
genderविadj.
वसनं छादने वस्त्रे निवासे चापि कुत्रचित् ।वर्द्धनं वृद्धिषुच्छेदे खय्यान्तु वर्द्धनी स्त्रियाम् ॥व्यञ्जनं स्याद्धिने चिह्ने श्मश्रुण्यवयवेऽपि च ।व्यसनन्तु विपत्तौ स्यात्पापे च निष्फलोद्यमे ॥पानस्त्रीमृगयासङ्गाशुभदैवादिभूषने (?) ।वर्त्तनं वर्त्तने पुंसि ह्रस्वे स्त्री पथि पेषणे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
meaningsह्रस्व
वर्त्तन as a meaning in nānārtha verses
- शब्दरत्नावली जीवनजननी स्त्री दयामात्रोर्जननं जन्मवंशयोः । जगन्नुस्तु पुमान् जन्तौ वीतिहोत्रे च कीर्त्त्यते ॥ जयनं स्याद्घोटकादिसन्नाहे च जयेऽपि च । जघनं योषितां श्रोणिपुरोभागे कटावपि ॥ ज्ञानी स्याद्गणके पुंसि ज्ञानयुक्तेऽभिधेयवत् । जीवनं वर्त्तने प्राणधारणे सलिलेऽपि च ॥ जीवनी स्यात्तु जीवन्त्यां जीवनापि च मोदके । तपनो भास्करेऽपि स्यान्नरकेऽरुस्करेऽपि च ॥ तलुनो मारुते यूनि युवत्यां तलुनी स्त्रियाम् । तलिनं तरलस्तोकस्वच्छेषु वाच्यलिङ्गकः ॥ तमोघ्नो विष्णुसूर्येन्दुबुद्धमहेशवह्निषु । त्यागी दातरि शूरे च विवेकिनि भवुत्पुमान् ॥ तेवनं केलिविपिने क्रीडायाञ्च नपुंसकम् । तेमनं व्यञ्जने क्लीबं तथार्द्रीकरणेऽपि च ॥ तेजनी तृणपूले स्यात्तेजनो वंशमात्रके ॥ Śabdaratnāvalī 7.20.56
- शब्दरत्नावली यापनमार्जनो लोध्रवृक्षे स्यात्क्लीबं मार्ष्टौ तु मार्जनम् । मानिनी तु स्त्रियां फल्यां मानी मानवति त्रिषु ॥ मैथुनं सङ्गते क्लीबं सुरते च नपुंसकम् । यमनो ना यमे क्लीबं बन्धे चोपरतावपि ॥ यवनो जातिभिद्देशभिदोर्वेगाश्वयोरपि । यवन्योषधिभेदे स्त्री वेगिनि त्वभिधेयवत् ॥ यापनं स्यान्निरसने कालक्षेपे च वर्त्तने । युवा श्रेष्ठे च तरुणे निसर्गबलसंयुते ॥ योजनं स्याच्चतुष्क्रोश्यां योगमाने परात्मनि । रसनं स्वादने शब्दे स्याद्रास्नाजिह्वयोः स्त्रियाम् ॥ Śabdaratnāvalī 7.20.68
- त्रिकाण्डशेष वर्तनीवर्तनी तर्कुपीठेऽपि स्त्रियां वर्त्तनवर्त्मनोः । वनश्वा जम्बुके व्याघ्रे विपन्नोऽहौ विपद्गते ॥ २६३ ॥ Trikāṇḍaśeṣa 3.3.263