जीवन
jīvanaक्ली · neut.In 24 kośas: 40 synonym verses, 11 as a nānārtha head word, 7 as a meaning of another word.
आजीवो जीवनं वार्ता जीविका वृत्तिवेतने ।
अनुष्टुप्
genderक्लीneut.
नीरं वारि जलं दकं कमुदकं पानीयमम्भः कुशंतोयं जीवनजीवनीयसलिलार्णांस्यम्बु वाः संवरम् ।क्षीरं पुष्करमेघपुष्पकमलान्यापः पयःपाथसीकीलालं भुवनं वनं घनरसो यादोनिवासोऽमृतम् ॥ १०६९ ॥कुलीनसं कबन्धं च प्राणदं सर्वतोमुखम् ।
शार्दूलविक्रीडितम्
genderक्लीneut.
रजते त्रापुषं वङ्गं जीवनं वसु भीरुकम् ।स्वभ्रं सौम्यं च शोध्यं च रूप्रं भीरु जवीयसम् ॥ १५९ ॥
अनुष्टुप्
genderक्लीneut.
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ।पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ।अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥ ४ ॥मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् ।
अनुष्टुप्
genderक्लीneut.
ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः ।आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
आर्या भूमिस्पृशो वैश्या ऊख्याश्च विशः स्मृताः ।जीवनं वृत्तिराजीवो वार्त्ता चेति निगद्यते ॥ ५७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
महामुखं मेघपुष्पं जीवनं जीवितं शरम् ।जीवनीयं शुचिः सारं शम्बरं चाप्यधोमुखम् ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
वार्त्ता वृत्तिः पुनः क्लीबे वर्त्तनं जीवनं पुनः ।पुंस्याजीवोऽपि यद्भेद्यगाम्येषां त्रिष्वितः पुनः ॥ ४३ ॥
अनुष्टुप्
genderक्लीneut.
हौम्यं होमोत्तमार्थं स्यादस्याघाराभिघारणौ ।मले घृतस्य विलयोथास्त्री क्षीरं तु जीवनम् ॥ २२६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
मन्थदण्डोऽथ तद्रज्जौ नेत्रं क्लीबे ततः पुनः ।स्त्रियां भिः सान्नमन्धः षण् जीवनं स्यात्प्रसाधनम् ॥ २३९ ॥
अनुष्टुप्
genderक्लीneut.
कार्त्तस्वरं लोहवरं महारजतगारुडे ।अग्निपर्यायबीजार्थं शुक्रं जीवनमोजसम् ॥ ५३५ ॥
अनुष्टुप्
genderक्लीneut.
स्वादुमांसी वयस्था तु विषाणी च पयस्विनी ।काकोली मधुरा शुक्ला क्षीरशुक्लापि जीवनः ॥ ३८४ ॥
अनुष्टुप्
genderपुंmasc.
जीवको जीवनो जीव्यः शृङ्गाख्यः प्राणदः प्रियः ।चिरञ्जीवी च मधुरो मङ्गल्यः कूर्चशीर्षकः ॥ ५३५ ॥
अनुष्टुप्
genderपुंmasc.
जीवनं भुवनं यादः पावनं क्षणदं दकम् ।अम्ब्वम्भः शंवरं तोयं कोमलं धरुणं सुखम् ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
वार्जीवनं जीवनीयं दगर्णे(?) सर्वतोमुखम् ।गवं(?)सरः कर्बुरं च पवित्रं पूतमङ्कुरः ।कम्बलं तामरं कृत्स्नं क्षणदं स्यन्दनं मधु ।क्षरं कंत्वलिगं * * न स्त्री कोडं(?)रसं विषम् ॥ ३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
स्याज्जीवनं चाथ कृषिः कर्षणं प्रमृतानृते ।उञ्छो धान्यकणादानं कणिशाद्यर्जनं शिलम् ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
भक्तौदनोन्धोमसरारनाल-[133a]प्रसादनान्नानि च जीवनं च ।याजं च वाजं कुरुरोदनोऽस्त्रीकूराशने दीदिवि चात्र भिस्सा ॥ १०० ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 प्र (wrong syllable)
genderक्लीneut.
आर्या भूमिस्पृशो वैश्या ऊरव्या ऊरुजा विशः ।आजीवो जीवका वृत्तिर्वार्ता वर्तनजीवने ॥ २०६ ॥
अनुष्टुप्
genderक्लीneut.
वार्वारि कं पयोऽम्भोऽम्बु पाथोऽर्णः सलिलं जलम् ।सरं वनं कुशं नीरं तोयं जीवनमब्विषम् ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
पानीयं जीवनं तोयं शंवरं नीरवारिणी ।पुष्करं कं जलं पाथः सलिलं सर्वतोमुखम् ॥ ३४४ ॥
अनुष्टुप्
genderक्लीneut.
क्लीबलिङ्गे जनुः षान्तं जीवातुर्जीवनागदे ।श्वसितं श्वास इत्येवमुच्छ्वासोऽन्तर्मुखे मतः ॥ २५७ ॥
अनुष्टुप्
genderक्लीneut.
वार्वारि कीलं कीलालं कमलं कि(को?)मलं जलम् ।जीवं च जीवनं चैव भुवनं वनमित्यपि ॥ २७ ॥
अनुष्टुप्
genderक्लीneut.
मृतः परासुर्निर्ज्जिवः प्रमीतस्त्यक्तजीवनः ।आसुः प्राणो वसुर्जीव आयुर्जीवितजीवने ॥ २४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र्नि (wrong syllable)
genderक्लीneut.
अमृतं जीवनं वारि सलिलं भुवनं पयः ।कबन्धमर्णोम्भस्त्योयमुदकं ककुशं शरम् ॥ २८० ॥
अनुष्टुप्
genderक्लीneut.
जीवनं सर्वभद्रं च पाथः काण्डं कुशं विषम् ।भूसारं सारसाधारं सारं नीरं जलं जडम् ॥ ४ ॥
अनुष्टुप्
genderक्लीneut.
ऊरव्यश्वोरुजो विट् च तुलाधाराग्रजीवनः ।वार्ता तु वर्तकं वार्ता वृत्तिर्वर्तनजीवने ॥ ४० ॥
अनुष्टुप्
genderक्लीneut.
नीरं वारि जलं तोयं पानीयं सलिलं कुशम् ।अम्भोऽर्णोऽम्बु पयः पाथः शम्बरं जीवनं वनम् ॥ ११० ॥
अनुष्टुप्
genderक्लीneut.
अमत्रं भाजनं पात्रं पण्यं भाण्डं क्रयाणकम् ।वर्तनं जीवनं वृत्तिराजीवो जीविकापि च ॥ ४६ ॥
अनुष्टुप्
genderक्लीneut.
आजीवो जीवनं वार्ता जीविका वृत्तिवेतने ।
अनुष्टुप्
genderक्लीneut.
रूप्यं रूपं तथा श्वेतं त्रापुषं रजतं सितम् ।दुर्वर्णकञ्च दुर्वर्णं जीवनं बङ्गजीवनम् ॥ १८०२ ॥
अनुष्टुप्
genderक्लीneut.
वारि वारं जलं क्षीरं नीरं नारं कुलीनसम् ।जीवनं जीवनीयं च भुवनं भवनं वनम् ॥ १८५४ ॥
अनुष्टुप्
genderक्लीneut.
वार्वारि तोयमुदकं नीरपानीयसम्बरम् ।अम्भः क्षीराम्बु सलिलं सर्वतोमुखजीवनम् ॥
अनुष्टुप्
genderक्लीneut.
वणिग्द्रव्येऽपि, पानीये जीवनीयं च जीवनम् ।नीरं नारं भीरं वा स्त्री-क्लीबयोर्वारे वार्दरे ॥ ९० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
दुर्वर्णवङ्गजीवनरुद्राश्रुभवानि तुल्यानि ।ताम्रं म्लेच्छमुखं म्लेच्छं सुखं शुल्बमुदुम्बरम् ॥ १४५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
अम्भःपुष्करवारितोयजलवाःपाथोवनार्णःपयः-पनीयोदकमेघपुष्पसलिलक्षीराम्बुनीरामृतम् ।कीलालं भुवनं कबन्धकमले तज्जीवनं शम्बरंनारः पुंसि कमव्यये धनरसो नापस्तु भूम्नि स्त्रियाम् ॥ ३१८ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 1 प (wrong syllable)
genderक्लीneut.
अर्या भूमिस्पृशो वैश्या ऊरव्या ऊरुजा विशः ।आजीवो जीविका वृत्तिर्वार्ता वर्तनजीवने ॥ १३९४ ॥
अनुष्टुप्
genderक्लीneut.
ठकारो लाङ्गली चैव दक्षोरुर्वर्त्तुलः पुनः ।पूर्णचन्द्रामृताख्यौ च तथा करतलद्वयम् ।वनजो जीवनो जीवो वृषघ्नश्चन्द्रकः सुधा ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
अर्या भूमिस्पृशो वैश्या ऊरव्या उरुजा विशः ।आजीवो जीविका वृत्तिर्वार्ता वर्तनजीवने ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
पानीयं जीवनीयं कं जलमंबूदकं दकम् ।विषं पाथो घनपदं भुवनं जीवनं वनम् ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
शष्कुली त्वायता पिष्टगुडतैलतिलैः कृता ।जीवनान्नाशनांघांसि कूरं भक्तं प्रसादनम् ॥ ७५ ॥
अनुष्टुप्
genderक्लीneut.
जीवनं जीवने तोये जीवनी चौषधी स्मृता ।अङ्गनं प्राङ्गणे गत्यामङ्गना कामिनी स्मृता ॥
अनुष्टुप्
meaningsतोय
प्राणित्यूर्जयति स्याच्च धुक्षते धिक्षते तथा ।बलति स्याद्बलयति तथा पियति लाट्यति ॥ ८७ ॥
अनुष्टुप्
doubtful
मेदासंज्ञौषधीभेदे टाबन्ता स्यादना पुनः ।जीवना जीवयत्यर्थे जीवदस्तु रिपौ पुमान् ॥ ८०६ ॥
अनुष्टुप्
meaningsजीवयितृ
जननी स्त्री दयामात्रोर्जननं जन्मवंशयोः ।जगन्नुस्तु पुमान् जन्तौ वीतिहोत्रे च कीर्त्त्यते ॥जयनं स्याद्घोटकादिसन्नाहे च जयेऽपि च ।जघनं योषितां श्रोणिपुरोभागे कटावपि ॥ज्ञानी स्याद्गणके पुंसि ज्ञानयुक्तेऽभिधेयवत् ।जीवनं वर्त्तने प्राणधारणे सलिलेऽपि च ॥जीवनी स्यात्तु जीवन्त्यां जीवनापि च मोदके ।तपनो भास्करेऽपि स्यान्नरकेऽरुस्करेऽपि च ॥तलुनो मारुते यूनि युवत्यां तलुनी स्त्रियाम् ।तलिनं तरलस्तोकस्वच्छेषु वाच्यलिङ्गकः ॥तमोघ्नो विष्णुसूर्येन्दुबुद्धमहेशवह्निषु ।त्यागी दातरि शूरे च विवेकिनि भवुत्पुमान् ॥तेवनं केलिविपिने क्रीडायाञ्च नपुंसकम् ।तेमनं व्यञ्जने क्लीबं तथार्द्रीकरणेऽपि च ॥तेजनी तृणपूले स्यात्तेजनो वंशमात्रके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
जीवन as a meaning in nānārtha verses
- धरणिकोश वृत्तिवृत्तिः प्रवर्तने ख्याता विवृतौ जीवनेऽपि च । कौशिकीभारतीत्यादौ नाट्यवृत्तौ च दृश्यते ॥ Dharaṇikośa 15.3.9
- नानार्थार्णवसंक्षेप पारायणसाकल्यासङ्गयोश्च स्यादङ्कुशस्य च बन्धने । जलेन चतुरो मासाञ्जीवनेऽप्यथ पाप्मनः ॥ ३५ ॥ Nānārthārṇavasaṃkṣepa 6.35
- शिवकोष दुग्धक्षीरस्य चोत्तरावस्थाभावे दुग्धं तु जीवने । क्षीराविकायां दुग्धी स्यात् मधुः पुण्ड्रमधूकयोः ॥ २३४ ॥ Śivakoṣa 15.1.234
- शब्दरत्नावली वर्तनस्त्रीपुंसयोस्तूलनाले जीवने तर्कुपीठके । वर्त्तिष्णौ च त्रिषु क्लीबं स्यात्साधारणवर्तुले ॥ Śabdaratnāvalī 7.20.72
- शब्दरत्नावली आतञ्चनअथर्वनो द्वयोर्वेदे भूमिदेवे च पुंस्यपि । अभिजनं कुले ख्यातौ जन्मभूमौ कुलध्वजे ॥ आयोधनं क्लीबलिङ्गं भवेद्युद्धे वधेऽपि च । भवेदाकलनं काङ्क्षा परिसंख्यानबन्धने ॥ आतञ्चनं प्रतीवायाप्यायनजीवनेष्वपि । आराधनं तोषणे स्यात्संप्राप्तो पचनेऽपि च ॥ आच्छादनं पिधाने स्याद्वस्त्रेऽपि वृतिमात्रके । आक्रन्दनं शोचने च तिरस्कारणे(?)पि च ॥ आवेशनं शिल्पिगृहे भूतावेशप्रवेशयोः ॥ Śabdaratnāvalī 7.20.104
- शब्दरत्नाकर वृत्तिवीर्यं पराक्रमे शुक्ले वृत्तिर्वर्तनजीवने । विधिर्ब्रह्मणि दैवे च विधाने कर्मकल्पयोः ॥ १९९७ ॥ Śabdaratnākara 4.1.1997
- वैजयन्ती यात्रापुंश्चल्यां मौक्तिके मुक्ता कारासंयमयोर्यतिः । गमने जीवने यात्रा रुजा रुग्भङ्गमृत्यवः ॥ २९ ॥ Vaijayantī 6.2.29