सह
sahaअ · indecl.In 15 kośas: 24 synonym verses, 9 as a nānārtha head word, 11 as a meaning of another word.
प्रणाय्योऽसम्मतोन्वेष्टानुपद्यथ सहः क्षमः ।शक्तः प्रभूष्णुर्भूतात्तस्त्वाविष्टः शिथिलः श्लथः ॥ ४९१ ॥
अनुष्टुप्
genderविadj.
साकं सत्त्रा समं सार्धममा सह कृतं त्वलम् ॥ १५२७ ॥भवत्वस्तु च किं तुल्याः प्रेत्यामुत्र भवान्तरे ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कां (wrong syllable)
genderअindecl.
genderअindecl.
पानं यत्तद्वीरपाणमोजः पुंसि सहोऽस्त्रियाम् ।सान्तमोजः सहः क्लीबे क्लीबे सुष्मं च शुष्म च ॥ ३४५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
भूष्णुर्भविष्णुर्भविता वर्त्तिष्णुर्वृष्णुवर्त्तनौ ।निराकरिष्णुः क्षिप्नुः स्यात्प्रभूष्णुस्तु सहाः पुनः ॥ ६१ ॥
अनुष्टुप्
genderविadj.
अनाधृष्यो वपुर्वामः कामो भीमः सहो द्युतिः ।क्षिपो विमुक्त एकान्नपञ्चाशो गणआनिलः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
मार्गशीर्षो मार्गशिरो वर्षाद्यः स्यात्सहाः सहः ।आग्रहायणिको मार्गः स च स्यादाग्रहायणः ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
genderपुंmasc.
असाकल्ये समं सत्रा साकं सार्द्धं सहार्थकम् ।स्यात्प्राध्वमानुकूल्येथ व्यर्थार्थे तु मुधा वृथा ॥ ४ ॥
अनुष्टुप्
genderअindecl.
न स्त्री बलसहे स्थाम-स्थामनी शुष्म-शुष्मणी ।ओजः शौर्यं च शक्तिः स्त्री विक्रमस्त्वतिशक्तिता ॥ ५१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
लोकंपृणस्तु लोकस्य प्रीतिकारी प्रकीर्तितः ।साधुः सहो रश्मियः (?) स्याद्भव्यस्तु भविलो भवेत् ॥प्रतिस्नातस्त्व * गथो लमकस्तीर्थशोधनः ।उपासकस्तु गोमी स्याद्गोमानिति च कीर्तितः ॥उग्रपश्यः क्रूरदर्शी द्वेष्यस्त्वक्षिगतो मतः ॥ ५० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
द्वयोः पुंस्त्वे तु खलपूरीर्ष्यालुः कुहनः स्मृतः ।दूढ्यस्तु दुर्ध्यानकरे दूणाशो दूर्वधः स्मृतः ॥दूडाशो दुःखदे[162a]यः स्याद्दुर्दभ्यो दूडभः स्मृतः ।सर्वंसहः सर्वसोढा क्षमः शक्तः सहः प्रभुः ॥समर्थः सहिता सोढा प्रभूष्णुरपि तादृशः ।बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः ॥भक्षको घस्मरो वर्विराशितश्चाद्मराशिनौ ॥ ५९ ॥
metre not recognised
genderविadj.
साकं सार्धं समा सत्रा समं सह समाभिधाः ।प्रशान्समत्वे विस्तारे प्रतान्मान्द्ये पुनः[239a]शनैः ॥ २८ ॥
अनुष्टुप्metre not read in every line
genderअindecl.
यथा तथा हि दृष्टान्ते सादृश्ये तु यथा तथा ।व वा इव च दम्भं च स्थान एवं सहेति च ॥ ३५ ॥
अनुष्टुप्
genderअindecl.
अमा सह समं साकं सार्द्धं सत्रा सजूः समाः ।सर्वदा सततं नित्यं शश्वदात्यन्तिकं सदा ॥ १५९ ॥
अनुष्टुप्
genderअindecl.
अथ मासः पक्षयुग्ममाग्रहायणिकः सहाः ।मार्गशीर्षः सहश्चाथ पौषतैषौ सहस्यवत् ॥ १३९ ॥
अनुष्टुप्
genderपुंmasc.
क्षमः सहः समर्थोऽसौ प्रभूष्णुः शक्तनामकः ।भूतगृहीतभूतात्ताविष्टा भूतनिपीडिते ॥ १५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 गृ (wrong syllable)
genderविadj.
तरण्यां नौस्तरिस्तारिः सदुर्दः सह इत्यपि ।अर्धनावं तु नावोऽर्धेऽप्यतिसं प्रचलं तथा ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
मार्गशीर्षः सहाः मार्गो वत्सरादिस्तथा सहः ।आग्रहायणिकश्चैव सहस्यस्तु सहस्यवत् ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.
सहः क्षमः समर्थश्च प्रभविष्णुस्तथैव च ।अलम्भूष्णुः प्रभूष्णुश्च शक्तश्चेति समर्थकाः ॥ ७६३ ॥
अनुष्टुप्
genderविadj.
वर्जने त्वन्तरेणर्ते नाना विना हिरुक् पृथक् ।सहार्थे स्यात् सह सत्रा साकं सार्द्धमऽमां समम् ॥ २७८५ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable); pāda 3, syllable 6 ह (wrong syllable)
genderअindecl.
genderअindecl.
मार्गशीर्षे मार्ग-सहौ सहाः सान्तोऽथ माघके ।तपाः सान्तो ह्यस्त्रियां स्यात्, फल्गुनाले तु फाल्गुनः ॥ ४३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
genderपुंmasc.
सार्धं साकं समं सत्रा सह व्यर्थे वृथा मुधा ।स्यात् प्राध्वमानुकूल्यार्थे हेतौ यत्तद्यतस्ततः ॥ २२८२ ॥
अनुष्टुप्
genderअindecl.
समकं तु सजूः साकं सार्धं सत्रा समं सह ।सुखे दिष्ट्योपजोषं शमेवमां परमं मते ॥ १७ ॥
अनुष्टुप्
genderअindecl.
सहः शक्तौ क्षमायुक्ते तुल्यार्थे तु सहाव्ययम् ।सहा भूः सहदेवा स्यादर्यमाख्यौषधिस्तथा ॥
अनुष्टुप्
सहा तु पुष्पस्तम्बेषु त्रिषु स्त्री तरणौ तथा ।नीलझिण्ट्यां पीतझिण्ट्यामित्यप्यतिवलाह्वये ॥ १४४४ ॥
अनुष्टुप्
meaningsपुष्पस्तम्ब
बलासंज्ञे च भैषज्यस्तम्बयोरोषधावपि ।मुद्गपर्ण्यभिधानायां भेद्यलिङ्गं तु सोढरि ॥ १४४५ ॥
अनुष्टुप्
meaningsसोढृ
doubtful
शक्तिर्बलं तरः शौर्यं सहः स्थाम च शुष्म च ।शुष्मं पराक्रमप्राणौ सहं सामर्थ्यमात्रके ॥
अनुष्टुप्
meaningsसामर्थ्य
सह as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् सकृत्सकृत्सहैकवारे चाप्याराद्दूरसमीपयोः ॥ २४३ ॥ Amarakośa 3.3.243
- नामलिङ्गानुशासनम् अमाअमा सह समीपे च कं वारिणि च मूर्धनि । Amarakośa 3.3.488
- हलायुधकोशः (अभिधानरत्नमाला) साकम्इतिह स्यात्सम्प्रदाये प्रेत्यामुत्र भवान्तरे । साकं सार्धं समं सत्रं सहार्थे सम्प्रकीर्तिताः ॥ ८७७ ॥ Abhidhānaratnamālā (Halāyudha) 5.877
- हलायुधकोशः (अभिधानरत्नमाला) अमाविस्तारेऽङ्गीकृतावूरी कथ्यत उररी तथा । असंशये भवेदद्धा सहार्थान्तिकयोरमा ॥ ८८५ ॥ Abhidhānaratnamālā (Halāyudha) 5.885
- धरणिकोश सकृत्स्वित्प्रश्ने च वितर्के स्यादाराद्दूरसमीपयोः । सकृत्सहैकवारे स्यात्साक्षात्प्रत्यक्षतुल्ययोः ॥ Dharaṇikośa 34.7.1
- धरणिकोश अनुअनु हीने सहार्थे च पश्चात्सादृश्ययोरनु । लक्षणादौ समीपेऽनु आया[112]मेऽनुक्रमेऽप्यनु ॥ Dharaṇikośa 34.11.3
- कोषकल्पतरु निचुम्ब्सहे रतौ नितश्चुम्बिः स्विद्यति त्वङ्गवाःक्षरे । स्याद्रज्यते रज्यति च रजते रजतीति च ॥ २३ ॥ Koṣakalpataru 3.5.23
- कोषकल्पतरु अमाप्रबाहुकं स्यात्समकाल ऊर्द्ध्वे प्रकारसादृश्यसमार्थमेवम् । जोषं तु तूष्णींभवने सुखे[स्या]- दमा सहार्थे निकटार्थके च ॥ ७ ॥ Koṣakalpataru 5.1.7
- शब्दरत्नावली सकृत्अनु प्रश्ने पुराकल्पे परिवेदनचिन्तयोः । सकृत्स्यादेकवारार्थे सहार्थपुनरर्थयोः ॥ Śabdaratnāvalī 8.1.32
- शब्दरत्नावली अनुअनु लक्षणसादृश्यपश्चादर्थेष्वनुक्रमे । वीप्सा सहार्थभागार्थभूतेष्वाख्यासमीपयोः ॥ Śabdaratnāvalī 8.1.40
- शब्दरत्नाकर सकृत्सकृत् सहैकवारे च सामि स्यादर्धनिन्दयोः । स्वस्ति मङ्गलनिष्पापक्षेमेष्वाशीर्वचस्यपि ॥ २२७७ ॥ Śabdaratnākara 5.2.2277