कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वृत्ति

vṛttiस्त्री · fem.

In 20 kośas: 28 synonym verses, 12 as a nānārtha head word, 23 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.164 · p. 15
निबन्धवृत्ती अन्वर्थे संग्रहस्तु समाहृतिः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.645 · p. 33
वृत्तिः सुगहना कुम्बा वेदी भूमिः परिष्कृता ।
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.712 · p. 35
आजीवो जीवनं वार्ता जीविका वृत्तिवेतने ।
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र देवकाण्डः Abhidhānacintāmaṇipariśiṣṭa 2.16 · p. 2
हिमागमस्तु हेमन्ते वसन्ते पिकवान्धवः ।पुष्पसाधारणश्चापि ग्रीष्मे तूष्मायणो मतः ॥ २४ ॥आखोरपद्मौ वर्षे तु ऋतुवृत्तिर्युगांशकः ।कालग्रन्थिर्मासमलः संवत्सर्वर्तुशारदौ ॥ २५ ॥वत्स इद्वत्सर इडावत्सरः परवाणिवत् ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.1
ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः ।आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने ॥ १ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.570 · p. 64
आर्या भूमिस्पृशो वैश्या ऊख्याश्च विशः स्मृताः ।जीवनं वृत्तिराजीवो वार्त्ता चेति निगद्यते ॥ ५७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर सप्तमोपदेशः Bālaprabodhikā 7.147 · p. 79
भारती सात्वती चैव कैशिक्यारभटीति च ।चतस्रो वृत्तयो भावाः संस्कृताद्या विकल्पिकाः ॥ १४७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.43 · p. 73
वार्त्ता वृत्तिः पुनः क्लीबे वर्त्तनं जीवनं पुनः ।पुंस्याजीवोऽपि यद्भेद्यगाम्येषां त्रिष्वितः पुनः ॥ ४३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.122 · p. 102
पौराद्यनुग्रहे युक्तो वृत्तिर्व्यावृत्तिरन्यतः ।पक्षे पक्षे तुलामानं भाण्डार्घप्रत्यवेक्षणम् ॥ १२२ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.50 · p. 444
टीका निरन्तरव्याख्या पञ्जिका पदभञ्जिका ।निबन्धवृत्ती अन्वर्थे संग्रहस्तु समाहृतिः ॥ ५० ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.122 · p. 474
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.58 · p. 59
शब्दव्यापृतिरुक्ता वृत्तिः * * थ विग्रहः ।वृत्त्यर्थबोधकं वाक्यं वणु(?)पुल्लिङ्गं प्रकीर्तितम् ।पदमन्ते * सुप्तिङ्युक्तं तत्तु समर्थं रहिताकाङ्क्षम् ।वाक्यं तादृक्पदसंघातः * * * * * * * * * * ॥ ५८ ॥
metre not recognised
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.2 · p. 65
भवेद्वाक्यपदीयं तु भाष्यव्याख्यानसंयुतम् ।षष्टिश्रावी भर्तृहरिर्वृत्तिः सूत्रार्थबोधिका ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.1 · p. 271
ऊरव्या ऊरुजा वैश्या अर्या भूमिस्पृशो विशः ।वृत्तिर्वार्त्ता जीविका स्यादाजीवो वर्तनं तथा ॥ १ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.206 · p. 34
आर्या भूमिस्पृशो वैश्या ऊरव्या ऊरुजा विशः ।आजीवो जीवका वृत्तिर्वार्ता वर्तनजीवने ॥ २०६ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.246 · p. 17
जीविका वेतनं वृत्तिः द्रव्यं द्युम्नं धनं वसु ।कार्त्तस्वरम् शातकुम्भं हिरण्यं हेमहाटकम् ॥ २४६ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण वैश्यप्रकरणम् Śabdacandrikā 5.3.40 · p. 45
ऊरव्यश्वोरुजो विट् च तुलाधाराग्रजीवनः ।वार्ता तु वर्तकं वार्ता वृत्तिर्वर्तनजीवने ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति विड्वर्गः Śāradīyākhyanāmamālā 3.3.46 · p. 38
अमत्रं भाजनं पात्रं पण्यं भाण्डं क्रयाणकम् ।वर्तनं जीवनं वृत्तिराजीवो जीविकापि च ॥ ४६ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.371 · p. 48
अथाऽन्वर्थे निबन्धश्च वृत्तिः स्यात् संग्रहस्तु वै ।समाहृतिः तथा ज्ञेया परिशिष्टं तु पद्धतिः ॥ ३७१ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1353 · p. 229
आजीवो जीवनं वार्ता जीविका वृत्तिवेतने ।
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1684 · p. 271
वाटो वृत्तिश्च प्राचीनमाऽऽवेष्टकश्च नाम वै ॥ १६८४ ॥
metre not recognised
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.1 · p. 138
विड्वैश्य ऊरुजोरयौ भूमिस्पृक् भूमिजीवनः ।जीविका जीव आजीवो वार्ता वृत्तिश्च वर्तनम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.45 · p. 311
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.315 · p. 214
बाहुसंभवे राजन्यो राजा च क्षत्र-क्षत्रियौ ।आर्ये विड्-वैश्यौ वेतने वृत्तिर्वार्तापि जीविका ॥ ३१५ ॥
metre not recognised
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.945 · p. 118
स्यादुद्धतं ताण्डवोऽस्त्री कैशिक्याद्यास्तु वृत्तयः ।तौर्यत्रिकं नृत्तगीतवाद्यं नाट्यं च तत् त्रयम् ॥ ९४५ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1394 · p. 169
अर्या भूमिस्पृशो वैश्या ऊरव्या ऊरुजा विशः ।आजीवो जीविका वृत्तिर्वार्ता वर्तनजीवने ॥ १३९४ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1821 · p. 221
चतस्रो वृत्तयो नान्दीकरा नान्द्याश्च पाठकाः ।रसवागङ्गभावाद्यैः शास्त्रोक्तैः रूपकाश्रयम् ॥ १८२१ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.1 · p. 123
अर्या भूमिस्पृशो वैश्या ऊरव्या उरुजा विशः ।आजीवो जीविका वृत्तिर्वार्ता वर्तनजीवने ॥ १ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.142
प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास तश्लोकः Dharaṇikośa 15.3.9 · p. 83
वृत्तिः प्रवर्तने ख्याता विवृतौ जीवनेऽपि च ।कौशिकीभारतीत्यादौ नाट्यवृत्तौ च दृश्यते ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.3 · p. 66
तरति प्रणिदाति स्यात्तरणे हवत्तांति च (Corrupt) ।तरतिर्विपरो दाने निरस्तु स्यान्निवर्तने ॥वृत्तौ निर्गमने शक्तौ बाधे प्रात्प्रस्तुतौ जने ।देवादीनामन्ययोनौ भूताद्यावेश उत्परः ॥ ३ ॥
अनुष्टुप्metre not read in every lineLatin letters: Corruptnearly अनुष्टुप्: pāda 2, syllable 5 व (wrong syllable)
meanings
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.56 · p. 213
शस्त्रे रवेस्तेजसि वह्निकीलेहेतिः स्त्रियां स्यादथ जीविकायाम् ।वृत्तिः स्त्रियां टिप्पणिकासु कौशि-क्याद्यासु रीतिष्वपि संप्रदिष्टा ॥ ५६ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.99 · p. 18
गुल्माख्येऽपि प्रतानिन्यां लतायां वृत्तिवाक् पुनः ।कृप्यादौ वर्तनेऽप्यारभट्यादिचतसृष्वपि ॥ ९९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.100 · p. 18
शब्दोच्चारणधर्मेषु द्रुतमध्यादिषु त्रिषु ।ऋक्पादस्याप्युपान्तेऽप्यप्रतिबन्धप्रवर्तने ॥ १०० ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.101 · p. 18
व्याख्याने ग्रन्थभेदे च सामगीतिगुणान्तरे ।सम्भक्तौ चापरे त्वाहुर्मरणेऽपि विचक्षणाः ॥ १०१ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1286 · p. 152
वृत्तिर्निरोधे सम्भक्तौ ना तु धात्वोः स वर्ततौ ।वृत्यतौ चाथ ना वेशो वेश्याजनसमाश्रये ॥ १२८६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.55 · p. 217
वीतिर्दीप्तौ गतौ भुक्तौ प्रजने वाधनेऽपि च ।वृत्तिर्विवरणाजीवकौशिक्यादिप्रवर्त्तने ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1997 · p. 243
वीर्यं पराक्रमे शुक्ले वृत्तिर्वर्तनजीवने ।विधिर्ब्रह्मणि दैवे च विधाने कर्मकल्पयोः ॥ १९९७ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.183 · p. 154
वर्तने विवृतौ वृत्तिर्वर्तिदीपदशास्वपि ।लाभसम्बन्धयोर्व्याप्तिर्विश्वस्ता विधवापि च ॥ १८३ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.36 · p. 222
वृत्तिर्ग्रन्थाजीवयोश्च वेलाब्धिजलवर्धने ।काले सीम्नि च वेणी तु केशबन्धे जलस्रुतौ ॥ ३६ ॥
अनुष्टुप्

वृत्ति as a meaning in nānārtha verses