कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वल्लि

valliस्त्री · fem.

In 6 kośas: 6 synonym verses.

वृघ्नी व्रघ्नश्च वल्लिः स्यात् वल्ली वेल्ली(ल्लि?)रपीष्यते ।व्रततिव्रतती चात्र प्रततिः प्रतती अपि ॥ ९३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.19 · p. 250
क्षुपेऽप्रकाण्डे गुल्मः स्यात्स्तम्बोथ व्रततिर्लता ।वल्ली च वल्लिर्व्रतती स्त्रियां वीरुत् प्रतानिनी ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.22 · p. 136
व्रततिः प्रततिर्वल्लिर्लता वल्लरिरित्यपि ।वीरुत्प्रतानिनी गुल्मिन्युलपः पुनपुंसकम् ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1962 · p. 323
प्रततिर्व्रततिर्वल्ली वल्लिर्लताऽपि कथ्यते ॥ १९६२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.16 · p. 58
वल्लिर्वल्ली च व्रततिवेल्ली स्यात् प्रतति लता ।शाखादिरहितायान्तु गुडुच्यादौ प्रकाशिता ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ति (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.126 · p. 228
क्षुपो ह्रस्वशिफाशाखे क्षुपको, व्रततिर्लता ।प्रततिर्व्रतती तद्वत् वल्लि-वल्ल्यौ च वेल्लिवत् ॥ १२६ ॥
अनुष्टुप्
genderस्त्रीfem.