कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गुल्मिनी

gulminīस्त्री · fem.

In 12 kośas: 13 synonym verses, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.10 · p. 44
क्षुपो ह्रस्वशिफाशाखः प्रततिर्व्रततिर्लता ॥ १११७ ॥वल्ल्यस्यां तु प्रतानिन्यां गुल्मिन्युलपवीरुधः ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.9
लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.248 · p. 116
अथ सेना तु पृतना वाहिनी वाहना चमूः ।वरूथिनी च ध्वजिनी बलं सैन्यं च गुल्मिनी ॥ २४८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.20 · p. 250
गुल्मिनी चोलपो वेली वेल्लिर्वेल्ली च वीरुधा ।व्रततिर्विरुधा चापि गुल्मिनी च विरुत् स्त्रियः ॥ २० ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.42 · p. 253
शुष्केऽप्यवानं स्याद्वानमथ हीनप्रकाण्डके ।स्तम्बगुल्मावथ लता गुल्मिनी च प्रतानिनी ॥ ४२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.22 · p. 136
व्रततिः प्रततिर्वल्लिर्लता वल्लरिरित्यपि ।वीरुत्प्रतानिनी गुल्मिन्युलपः पुनपुंसकम् ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.29 · p. 55
व्रततिः प्रततिस्तुल्ये लता वल्ली स्त्रियामुभे ।लतायां तु प्रतानिन्यां गुल्मिन्युलपवीरुधः ॥ २९ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.150 · p. 11
प्रतानिनी लता वीरुद्गुल्मिनी व्रततिर्द्रुगा ।अङ्कुरो द्विदलः काण्डः प्रकाण्डो मूलमस्तकम् ॥ १५० ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1963 · p. 323
ख्यातः प्रतानिनी वीरुत् उलपो गुल्मिनी पुनः ।एतन्नामानि मन्यन्ते गुच्छवत्यां लतार्थके ॥ १९६३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.17 · p. 58
शाखापत्रसमायुक्तलतायां स्यात् प्रतानिनी ।उलपो गुल्मिनी वीरुद् वीरुधा विरुदित्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.310 · p. 131
वाहना गुल्मिनी सैव वरचक्षुर्वरूथिनी ।अनीकमस्त्रियां सैन्यं बलं चक्रं चतुष्टयम् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.443 · p. 59
वल्ली च वल्लरी चाथ सैव वीरुत् प्रतानिनी ।गुल्मिन्युलपमस्त्री तु कोटरो निष्कुहः पुमान् ॥ ४४३ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.7 · p. 45
अप्रकाण्डे स्तंबगुल्मावुलपस्तु प्रतानिनी ।गुल्मिन्यपि च वल्ली तु व्रततिर्व्रतती लता ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.

गुल्मिनी as a meaning in nānārtha verses

  • नानार्थार्णवसंक्षेप उलपगुल्मिन्यां सलिले काष्ठेऽप्यूर्ध्वमूलाह्वये पुनः । स्तम्बभेदे कलापाख्यमुनेः शिष्यान्तरे च ना ॥ २४२ ॥ Nānārthārṇavasaṃkṣepa 4.242
  • शब्दरत्नावली उलपआक्षेपो भर्त्सनाकृष्टिकाव्यालङ्कारणेषु च । उडुपन्तु प्लवे न स्त्री पुमान् हिमकरे भवेत् ॥ उलपोऽस्त्री तु गुल्मिन्यां तृणभेदे भवेत्पुमान् । कच्छपो निधिभित्कूर्ममल्लबन्धान्तरेषु च ॥ Śabdaratnāvalī 7.21.15
  • त्रिकाण्डशेष उपलआक्षेपो भर्त्सनाकृष्ट्योराकल्पौ वेशकल्पने । तृणभिद्गुल्मिन्युपलश्चन्द्रे ना स्त्र्युडुपः प्लवे ॥ २७४ ॥ Trikāṇḍaśeṣa 3.3.274
  • वैजयन्ती वीरुध्वीरुधौ गुल्मगुल्मिन्यौ वीथी पंक्त्यध्वनोरपि । वीचिः पंक्त्यूर्मिलेशेषु व्युष्टी फलसमृद्धते ॥ ३५ ॥ Vaijayantī 6.2.35