कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उलप

ulapaपुं · masc.

In 12 kośas: 19 synonym verses, 4 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.10 · p. 44
क्षुपो ह्रस्वशिफाशाखः प्रततिर्व्रततिर्लता ॥ १११७ ॥वल्ल्यस्यां तु प्रतानिन्यां गुल्मिन्युलपवीरुधः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.130 · p. 46
वल्वजा उलपोऽथेक्षुः स्याद्रसालोऽसिपत्त्रकः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.9
लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.190 · p. 24
उलपस्तम्बगुल्माश्च वीरुधो विटपाः स्मृताः ।शष्पं बालतृणं प्रोक्तं सर्वं च तृणमर्जुनम् ॥ १९० ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.191 · p. 24
घासस्तु यवसः प्रोक्तो बर्हिर्दर्भः कुथः कुशः ।उलपो वल्वजः प्रोक्त इषीका काश उच्यते ।हरिताली भवेद्दूर्वा शरो मुञ्ज इति स्मृतः ॥ १९१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.20 · p. 250
गुल्मिनी चोलपो वेली वेल्लिर्वेल्ली च वीरुधा ।व्रततिर्विरुधा चापि गुल्मिनी च विरुत् स्त्रियः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.43 · p. 253
व्रततिर्व्रतती वल्ली स्यात् क्लीब उलपं पुनः ।वीरुदेषातिविस्तीर्णा तालक्रमुककेतकी ॥ ४३ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.22 · p. 136
व्रततिः प्रततिर्वल्लिर्लता वल्लरिरित्यपि ।वीरुत्प्रतानिनी गुल्मिन्युलपः पुनपुंसकम् ॥ २२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.23 · p. 136
उलपस्तृणभेदे स्याद्गुल्मिन्यामुलपं मतः ।कणीचिः स्त्री पुष्पितास्या ग्रन्थिकस्तु लताज्वरः ।प्ररोहोऽस्त्री त्वङ्कुरः स्यादङ्कूरः कन्दलस्त्रिषु ॥ २३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.13 · p. 185
इक्षुपुष्पः स्वादुकन्दो दुषिका चेक्षुबालिका ।बल्वजो ना भूम्नि* स्यादुलपश्च प्रकीर्तितः ॥इक्षुः शालिः कुशः काशः शरः स्यात्तृणपञ्चकम् ।रौहिषं रोबलं(?) पूति भूतीकं कतृणं तृणम् ॥ १३ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 ना (syllables merged)
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र तृणकाण्डः Nighaṇṭuśeṣa 5.373 · p. 199
उलपे बल्वजा वालः केशी दृढलताऽपि च ।इक्षौ रसालो गण्डीरी गण्डकी खड्गपत्रकः ॥ ३७३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.29 · p. 55
व्रततिः प्रततिस्तुल्ये लता वल्ली स्त्रियामुभे ।लतायां तु प्रतानिन्यां गुल्मिन्युलपवीरुधः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1963 · p. 323
ख्यातः प्रतानिनी वीरुत् उलपो गुल्मिनी पुनः ।एतन्नामानि मन्यन्ते गुच्छवत्यां लतार्थके ॥ १९६३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2154 · p. 354
गुन्द्रा तु सोत्तमा ख्याता स्यादपि भद्रमुस्तकः ।उलपो वल्वजा चैवं भवेत् कोमलघासकम् ॥ २१५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.17 · p. 58
शाखापत्रसमायुक्तलतायां स्यात् प्रतानिनी ।उलपो गुल्मिनी वीरुद् वीरुधा विरुदित्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.443 · p. 59
वल्ली च वल्लरी चाथ सैव वीरुत् प्रतानिनी ।गुल्मिन्युलपमस्त्री तु कोटरो निष्कुहः पुमान् ॥ ४४३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.670 · p. 85
ऊर्ध्वमूलोलपौ चास्मिन् जूर्णा कृकणपत्रिका ।नडादिकं तृणं गर्मुछ्यामाकप्रमुखा अपि ॥ ६७० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.7 · p. 45
अप्रकाण्डे स्तंबगुल्मावुलपस्तु प्रतानिनी ।गुल्मिन्यपि च वल्ली तु व्रततिर्व्रतती लता ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.229 · p. 64
मुञ्जस्तु यज्ञियो मेध्यो मृदुत्वक् ब्रह्ममेखलः ।उल्लूकस्तूलपो दर्भ ऊर्ध्वमूलः खरच्छदः ॥ २२९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पान्ताः Koṣakalpataru 6.22.13 · p. 272
अर्केऽनले स्यादुषपोऽथ मान-भेदे मुनौ ना कुटपस्तथैव ।स्यान्निष्कुटेऽथो कुतपः स्त्रियां नदिनाष्टमांशे च[26b]कुशे च वाद्ये ।स्यात्कम्बलेऽजस्य पुमांस्तु सूर्येस्वसुश्च पुत्रेऽ प्युलपस्तु न स्त्री ।वीरुद्गतो ना तु मृदौ तृणे स्या-च्चन्द्रे पुमान्स्यादुडुपः प्लवेऽस्त्री ।विटाधिपे ना विटपोऽस्त्रियां तुस्कन्धोर्ध्वशाखासु तरोस्ततौ च ।स्यात्पल्लवे चाथ निशाचरे नास्याद्रक्तपः स्त्री नुवि( ? )पादपस्तु ।स्यात्पादपीठे च तरौ च पुंसिस्त्री पादुकायां महिषे त्वनूपोऽम्बुप्रायदेशे तु विशेष्यलिङ्गः ।स्यात्पूतिगन्धे कुणपः शवेऽस्त्रीन स्त्री तथावाप इहालवाले ॥ १३ ॥
इन्द्रवज्राtwo metres in one versenearly इन्द्रवज्रा: pāda 2, syllable 1 दि (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.241 · p. 67
उपला सज्जनस्त्वाह दिशि चाथो(पलो?लपो)ऽस्त्रियाम् ।आदिसर्गस्थभूतानामन्नभेदे नपि त्वदः ॥ २४१ ॥
अनुष्टुप्metre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.242 · p. 67
गुल्मिन्यां सलिले काष्ठेऽप्यूर्ध्वमूलाह्वये पुनः ।स्तम्बभेदे कलापाख्यमुनेः शिष्यान्तरे च ना ॥ २४२ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पान्ताः Śabdaratnāvalī 7.21.15 · p. 249
आक्षेपो भर्त्सनाकृष्टिकाव्यालङ्कारणेषु च ।उडुपन्तु प्लवे न स्त्री पुमान् हिमकरे भवेत् ॥उलपोऽस्त्री तु गुल्मिन्यां तृणभेदे भवेत्पुमान् ।कच्छपो निधिभित्कूर्ममल्लबन्धान्तरेषु च ॥
अनुष्टुप्