कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वास्त्र

vāstraवि · adj.

In 9 kośas: 9 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.541 · p. 31
अथ काम्बलवास्त्राद्यास्तैस्तैः परिवृते रथे ।
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.54
रथे काम्बलवास्त्राद्याः कम्बलादिभिरावृते ॥ ५४ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.132 · p. 103
शकटोऽस्त्रीत्वनः क्लीबे शकटिः शकटी स्त्रियौ ।त्रिषु काम्बलवास्त्राद्यास्तैस्तैः परिवृते रथे ॥ १३२ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.72 · p. 260
रज्जुप्रालम्बहिन्दोलो दोला प्रेङ्खा च योषिति ।शयानिका शिशूनां सा शयनाय कृता यदि ॥उभौ तु द्वैप-वैयाघ्रौ द्वीपिचर्मावृते रथे ।तद्वत्काम्बलवास्त्राद्याः कम्बलादिभिरावृते ॥ ७२ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.312 · p. 64
काम्बलो वास्त्र इत्यादिस्तदावृतरथे स्मृतः ।रथ्या च रथकट्या च रथबन्धेऽथ धूः स्मृता ॥ ३१२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1230 · p. 193
वस्त्रादाच्छादितो वास्त्रो दौगूलोऽपि निगद्यते ।यः पाण्डुकम्बली स स्यात् संवीतः पाण्डुकम्बलैः ॥ १२३० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.273 · p. 129
रथे पाण्डुकम्बले तु स भवेत् पाण्डुकम्बली ।अथ वास्त्रः काम्बलञ्च वस्त्रैर्वा कम्बलैर्वृतः ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ण्डु (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1318 · p. 160
वैयाघ्रो द्वैप इत्येतौ व्याघ्रचर्मावृते रथे ।वस्त्रावृते रथे वास्त्रः काम्बलः कम्बलावृते ॥ १३१८ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.129 · p. 114
वृते रथे पाण्डुभिः स्यात्कंबलैः पाण्डुकंबली ।एवं कांबलवास्त्राद्याः कंबलादिभिरावृते ॥ १२९ ॥
अनुष्टुप्
genderपुंmasc.