कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विष्य

viṣyaवि · adj.

In 7 kośas: 7 synonym verses.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.45
विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः ॥ ४५ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.86 · p. 223
द्वेष्यस्त्वक्षिगतो वध्यः शीर्षच्छेद्यो विषेण यः ।वध्यो विष्यो मुसल्यस्तु यो वध्यो मुसलेन च ॥ ८६ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.39 · p. 305
अहितुण्डिक उक्तोऽथ विषादो विषभक्षकः ।विष्यो विषेण वध्यो यो व्यालग्राह्यादयस्त्रिषु ॥ ३९ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.664 · p. 112
विधोद्यते त्वाततायी द्वेष्ये त्वक्षिगतोऽपि च ।विषवध्ये तु विष्यः स्याच्चिकुरश्चपले स्मृतः ॥ ६६४ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.61 · p. 163
मुषल्यो मुषलैर्वध्यो विषेण विष्य इत्यपि ।शिश्विदानः कृष्णकर्मा द्वयं मलिनकर्मणि ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1686 · p. 202
वैरागिको विरागार्ह आपन्नस्त्वापदायुतः ।वधार्हस्त्वाततायी स्याद्विष्यो वध्यो विषेण यः ॥ १६८६ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.71 · p. 206
वध्यो विष्यो विषेण स्यात् मुसल्यो मुसलेन च ।निष्कासितोऽपकृष्टः स्यादपध्वस्तस्तु धिक्कृतः ॥ ७१ ॥
अनुष्टुप्
genderविadj.