All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
पातालकाण्डः · पातालवर्गः
इति श्रीविश्वनाथरचिते कोषकल्पतरौ द्वितीयो भूकाण्डः समाप्तः ॥ श्री ॥
यो लोकपाता पाताले बबन्ध भवबन्धहृत् ।बलिं बलिष्ठं स श्रेयोधाम नो वामनोऽवतु ॥ १ ॥
3.1.1 · p. 302
अनुष्टुप्
पातालनारकातङ्कैर्वर्गैः संगतिशालिभिः ।नामालिविलसत्स्कन्धः ( ? ) पातालस्कन्ध उच्यते ॥ २ ॥
3.1.2 · p. 302
अनुष्टुप्
पातालं बलिसद्माधोभुवनं वाडवोऽस्त्रियाम् ।रसातलं नागलोकोऽधोलोकोऽप्यव्ययं त्वधः ॥ ३ ॥
3.1.3 · p. 302
अनुष्टुप्
छिद्रं तु कुहरं रोकं रन्ध्रं[148b] निर्व्यथनं बिलम् ।निम्नं रोपं च विवरं भूकं श्वभ्रं तथान्तरम् ॥ ४ ॥
3.1.4 · p. 302
अनुष्टुप्metre not read in every line
शुषिरं सुषिरं चास्त्री पुंस्यगाधो वपा-शुषी ।द्वयोर्गर्ता दरस्त्रय्यामवटो युजि भूबिले ॥ ५ ॥
3.1.5 · p. 302
अनुष्टुप्
श्वभ्रं क्लीबे चाथ रन्ध्रयुक्ते स्यात्सुषिरं त्रिषु ।भावे सौषिर्यमच्छिद्रे नीरन्ध्रं क्लीबमव्ययम् ॥ ६ ॥
3.1.6 · p. 302
अनुष्टुप्
तमो निशाचर्म खचर्म वृत्रो-पकुञ्चकं स्यात्तमसं तमं च ।वृत्रोऽत्र ना ना न तमिस्रमुर्वी-छाया षडस्त्री तिमिरान्धकारौ ॥ ७ ॥
3.1.7 · p. 302
उपजातिः
स्यान्नीलपङ्कं दिनकेसरान्ध-ध्वान्तानि तत्संतमसं प्रसारि ।गाढेऽन्धपूर्वं तमसं विहीनेत्वत्रावपूर्वं तमसं प्रदिष्टम् ॥ ८ ॥
3.1.8 · p. 302
इन्द्रवज्रा
अनन्धेऽन्धे भवत्यन्धंभावुकोऽन्धभविष्णुवत् ।अनन्धमन्धं कुर्वाणे स्यादन्धंकरणं त्रिषु ॥ ९ ॥
3.1.9 · p. 302
अनुष्टुप्
पातालौको दानवः पूर्वदेवोदैतेयः स्यादासुरश्चासुरश्च ।दैत्यो देवद्वेषणः शुक्रशिष्य-स्तुञ्जः शक्रद्वेषणः स्याद्दितीजः ॥ १० ॥
3.1.10 · p. 302
शालिनी
हिरण्यकशिपुर्दैत्यराजो वैरोचनो बलिः ।शिशुपालश्चे[149a]दिपतिः कंसो भोजपतिर्भवेत् ॥ ११ ॥
3.1.11 · p. 303
अनुष्टुप्metre not read in every line
द्वैमातुरो जरासंधो मगधाधिपतिश्च सः ।भौमस्तु नरको दैत्यभेदा बाणादयः परे ॥ १२ ॥
3.1.12 · p. 303
अनुष्टुप्
काद्रवेयाः पुनर्नागास्तेषां भोगवती पुरी ।शेषो नागाधिपोऽनन्त-आलुकौ द्विसहस्रदृक् ॥ १३ ॥
3.1.13 · p. 303
अनुष्टुप्
सितपङ्कजचिह्नश्च सर्पराजस्तु वासुकिः ।श्वेतो नीलसरोजाङ्को लोहिताङ्गस्तु तक्षकः ॥ १४ ॥
3.1.14 · p. 303
अनुष्टुप्
स्वस्तिकाङ्कितमौलिश्च महापद्मोऽतिशुक्लकः ।दशबिन्दुकमौलिश्च शङ्खः स्यात्पीतवर्णकः ॥ १५ ॥
3.1.15 · p. 303
अनुष्टुप्
इन्दुरेखाङ्कितगलो ज्वालाधूमसमप्रभः ।कुलिकोऽर्द्धेन्दुमौलिः स्यान्नागभेदास्तु कम्बलः ॥ १६ ॥
3.1.16 · p. 303
अनुष्टुप्
बलाहकोऽश्वतरको धृतराष्ट्रादयः परे ।कालीयः स्यात्कालियको गोनासस्तु तिलत्सकः ॥ १७ ॥
3.1.17 · p. 303
अनुष्टुप्
गोनसो घोणसो चो(व्या?)डो मण्डली वाहसः पुनः ।शयुस्तनजोऽजगरः शीवा शीरः शयानकः ॥ १८ ॥
3.1.18 · p. 303
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
शयुनः शयथश्चक्रमण्डल्यन्ते शयालु च ।पारीन्द्रो राजसर्पस्तु भवेत्पन्नगभोजनः[149b] ॥ १९ ॥
3.1.19 · p. 303
अनुष्टुप्
कुकुटाहिः कुकुटाभो राजिलो डुण्डुभः समौ ।अलगर्द्दोऽलगर्धश्च जलव्यालो द्वितुण्डकः ॥ २० ॥
3.1.20 · p. 303
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
ब्रह्मसर्पोऽश्वलाला स्यान्मालुधानस्तु मातुलः ।सुरकस्तु सुरावर्णो दन्दशूको निगद्यते ॥ २१ ॥
3.1.21 · p. 303
अनुष्टुप्
निर्मुक्तश्च निर्लयनिर्भेद्यवन्मुक्त * [कञ्]चुकः ।सविषा निर्विषा वापि सर्पा दृग्विषनामकाः ॥ २२ ॥
3.1.22 · p. 303
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
वृश्चिकाद्या लूमविषा व्याघ्राद्या लोमसद्विषाः ।लालाविषास्तु लूताद्या कालान्तरविषाः पुनः ॥ २३ ॥
3.1.23 · p. 304
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लू (wrong syllable)
सर्पः पृदाकुर्भुजगो भुजंगोभुजंगमाशीविष-गूढपादाः ।दर्वीकरः स्यादुरगश्च भोगीचक्षुःश्रवश्चक्रि-सरीसृपाश्च ॥ २५ ॥
3.1.25 · p. 304
उपजातिः
फणी कुण्डली मण्डली दन्दशूकोद्विजिह्वस्तथा जिह्मगः पन्नगश्च ।भवेद्भेकभुक्कञ्चुकी दीर्घपृष्ठ-स्तथा दीर्घजिह्वः स काकोदरश्च ॥ २६ ॥
3.1.26 · p. 304
भुजङ्गप्रयातम्
व्यालानिलाशन-विषायुध-लेलिहानाद्वंद्वे त्वहिर्विषधरो रसनाविषश्च ।कुम्भीनसोऽपि सृदरश्च बिलेशय[150a]श्चगोकर्ण-नागक-फणायुध-काद्रवेयाः ॥ २७ ॥
3.1.27 · p. 304
वसन्ततिलकाmetre not read in every line
त्रिष्वाहेयं तदङ्गादि भोगस्तु व्यालविग्रहः ।निर्मोकः कञ्चुकस्त्वस्त्री*[स्त्रि]यां निर्व्लयनी तथा ॥ २८ ॥
3.1.28 · p. 304
अनुष्टुप्
भोगो दर्वी द्वयोस्तु स्युः फण-स्फट-फट-स्फुटाः ।कफेलुः स्त्री च दाढा स्यादाशीराश्यहिदंष्ट्रिका ॥ २९ ॥
3.1.29 · p. 304
अनुष्टुप्
सर्पक्षतं तु दंशः स्यात्सर्पाण्डे पुनरीरितौ ।समौ सुनार-सारण्डौ न तु स्त्री गरलं विषम् ॥ ३० ॥
3.1.30 · p. 304
अनुष्टुप्
हालाहलं हालहलं काकोलं च हलाहलम् ।कालकूटं रसस्तीक्ष्णं क्लीबे मधुरकं च तत् ॥ ३१ ॥
3.1.31 · p. 304
अनुष्टुप्
कृत्रिमं तु विषं*[घो]रं गरश्चोपविषं समम् ।दूषीविषं त्ववीर्यं तदौषधादिप्रभावतः ॥ ३२ ॥
3.1.32 · p. 304
अनुष्टुप्
आदीपनौ दारदश्च मकरश्च परे पुनः ।अहिच्छत्रो मेषशृङ्गो कुष्ठ-वालुक-नन्दनाः ॥ ३४ ॥
3.1.34 · p. 305
अनुष्टुप्
कैराटिको हैमवतो मर्कटः करवीरकः ।सर्षपो मूलको गारार्द्रकः सक्तुक-कर्द्दमौ ॥ ३५ ॥
3.1.35 · p. 305
अनुष्टुप्
अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ।विस्फुलिङ्गः पिङ्गले[150b]न्द्रौ सगरं लाङ्गलिकाद[यः] ॥ ३६ ॥
3.1.36 · p. 305
अनुष्टुप्metre not read in every line
स्थावरा विषभेदाः स्युर्हयत्तालाहि फेनकः ।विषशास्त्रं जाङ्गलं स्याच्चक्राटो विषशास्त्रवित् ॥ ३७ ॥
3.1.37 · p. 305
अनुष्टुप्
कथाप्रसङ्गश्च मतो भवेज्जाङ्गलिकान्यवत् ।व्यालग्राही जीवकः स्यादाहितुण्डिक इत्यपि ॥ ३८ ॥
3.1.38 · p. 305
अनुष्टुप्
अहितुण्डिक उक्तोऽथ विषादो विषभक्षकः ।विष्यो विषेण वध्यो यो व्यालग्राह्यादयस्त्रिषु ॥ ३९ ॥
3.1.39 · p. 305
अनुष्टुप्