द्वेष्य
dveṣyaवि · adj.In 11 kośas: 14 synonym verses.
चक्षुष्यः सुभगो द्वेष्योऽक्षिगतोऽथांसलो बली ॥ ४४८ ॥निर्दिग्धो मांसलश्चोपचितोऽथ दुर्बलः कृशः ।क्षामः क्षीणस्तनुश्छातस्तलिनामांसपेलवाः ॥ ४४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
genderविadj.
genderविadj.
प्रियवाग्दानशीलश्च वदान्यः परिकीर्तितः ।भवेदक्षिगतो द्वेष्यः प्रणाय्योऽसम्मतो मतः ॥ ३६६ ॥
अनुष्टुप्
genderविadj.
अरिः षष्ठं विपक्षं च द्वेष्यः शत्रुश्च षट् द्विषन् ।विरोधी वैरिसंज्ञं च षट्कोणं चैव सप्तकं ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
जातीफलं जातिसस्यं शालूकं सुमनः फलम् ।मजुसारं जातिसारं पुटं द्वेष्यं तु कोलकम् ॥ ३९५ ॥
अनुष्टुप्
genderक्लीneut.
द्वेष्यस्त्वक्षिगतो वध्यः शीर्षच्छेद्यो विषेण यः ।वध्यो विष्यो मुसल्यस्तु यो वध्यो मुसलेन च ॥ ८६ ॥
अनुष्टुप्
genderविadj.
लोकंपृणस्तु लोकस्य प्रीतिकारी प्रकीर्तितः ।साधुः सहो रश्मियः (?) स्याद्भव्यस्तु भविलो भवेत् ॥प्रतिस्नातस्त्व * गथो लमकस्तीर्थशोधनः ।उपासकस्तु गोमी स्याद्गोमानिति च कीर्तितः ॥उग्रपश्यः क्रूरदर्शी द्वेष्यस्त्वक्षिगतो मतः ॥ ५० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
प्रतिपक्षो विपक्षश्च दुर्हृद्द्वेष्यभियातिकः ।मित्रं स्निग्धो वयस्यश्व हितोऽत्मीयो निजः प्रियः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
अक्षिगतस्तथा द्वेष्यो द्वेष्ये वस्तुनि कथ्यते ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ग (wrong syllable)
genderविadj.
आततायी स हि भवेत् सन्नद्धो यो वधोद्यतः ।अथ द्वेष्यश्चाक्षिगतो द्वेषयोग्ये भवेद्द्वयम् ॥
अनुष्टुप्
genderविadj.
विमताहितशात्रववैरिरिपुद्विषतो द्विडरात्यभिधात्यरयः ।प्रत्यनीकप्रतिद्वन्द्विप्रत्यवस्थातृदस्यवः ।द्वेष्यानिष्टप्रतिस्पर्धिप्रत्यवस्कन्दिनोऽपि च ॥ १२८३ ॥
तोटकम्two metres in one verse
genderपुंmasc.
आश्रवो वचनग्राही पुरोभागी तु दोषभाक् ।समावक्षिगतद्वेष्यौ मलिनस्तु मलीमसः ॥ १६३२ ॥
अनुष्टुप्
genderविadj.
प्रत्यर्थी पर्यवस्थाता प्रतिपक्षो विपक्षकः ।दुर्हृद्द्वेष्यभियातिश्च परिपन्थी विरोध्यपि ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
शत्रूणां तापयितरि द्विषंतपपरंतपौ ।द्वेष्यस्त्वक्षिगतोऽनिष्टो दुर्भगोऽपि च विप्रिये ॥ ६९ ॥
अनुष्टुप्
genderविadj.