चिकुर
cikuraपुं · masc.In 19 kośas: 22 synonym verses, 10 as a nānārtha head word.
genderविadj.
तज्जाः केशास्तीर्थवाकाश्चिकुराः कुन्तलाः कचाः ॥ ५६७ ॥वालाः स्युस्तत्पराः पाशो रचना भार उच्चयः ।हस्तः पक्षः कलापश्च केशभूयस्त्ववाचकाः ॥ ५६८ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
genderविadj.
केशाः शिरसिजमूर्धजकचचिकुरशिरोरुहाः स्मृता वालाः ।तद्बन्धविशेषाः स्युर्वेणी धम्मिल्लकुन्तलकवर्यः ॥ ५३० ॥
गीतिः
genderपुंmasc.
रोमलोमा च विख्यातं मस्तं स्यान्मस्तकं तथा ।चिकुरश्चिकुरश्चोक्तो जटा जटिरपि स्मृतः ॥ १८५ ॥
अनुष्टुप्
genderपुंmasc.
द्वयोर्मौलिः कपालं षण् केशपर्यायभूरपि ।शिरसोरुड्रुहभवपर्यायाश्चिकुराः कचाः ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
शीर्षं स्यात्करणत्राणं मुण्डं मूर्द्धा कमव्ययम् ।चिकुरश्चिहुरः केशो मूर्द्धजो वृजिनोऽङ्गजः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
विक्लवो विह्वलः स्यात्तु विवशोऽनिष्ट[ दुष्ट ]धीः ।चलाचलश्चाचलिश्च चिकुरश्चपलस्तथा ॥ ६४ ॥
अनुष्टुप्
genderविadj.
केशं शिरोरुहं वालं कचं चिकुरमीहयेत् ।चूडापाशं च धम्मिल्लं कबरी केशबन्धनम् ॥ १९५ ॥
अनुष्टुप्
genderपुंmasc.
अलंकृतां कनीं दत्ते यः स कूकुदसंज्ञकः ।स्थिरप्रीतौ नरे नीलीरागश्चिकुर इत्यपि ॥ १४० ॥
अनुष्टुप्
genderपुंmasc.
मुण्डं मौलिः कचाः केशास्तीर्थवाकाश्च कुन्तलाः ।वालाः स्युश्चिकुरास्तुल्या रचना भार उच्चयः ॥ २३३ ॥
अनुष्टुप्
genderपुंmasc.
विधोद्यते त्वाततायी द्वेष्ये त्वक्षिगतोऽपि च ।विषवध्ये तु विष्यः स्याच्चिकुरश्चपले स्मृतः ॥ ६६४ ॥
अनुष्टुप्
genderविadj.
क्लिष्टकृत्ये शिश्विदानो निकृति(त?)स्तु शठे स्मृतः ।चञ्चले चिकुरः पोटी दोषदृक्परिको मतः ॥ ६६५ ॥
अनुष्टुप्
genderविadj.
मूर्द्धोत्तमाङ्गं मौलिः कं मस्तकं शीर्षकं शिरः ।शिरोरुहः शिरसिजः कुन्तलश्चिकुरः कजः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
केशा बालाश्च चिकुरा अलकाः कुन्तलाः कचाः ।शिरोरुहास्तीर्थवाका मूर्धजास्तत्समुच्चये ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
genderविadj.
शिरसिजाः कचाः केशाः तीर्थवाकाश्च कुन्तलाः ।वालाश्च वेल्लिताग्रोऽस्रः चिकुराश्चिहुरास्तथा ॥ ९०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 सि (wrong syllable)
genderपुंmasc.
उत्तमाङ्गं कं शिरञ्च कञ्चापि मान्तव्ययम् ।चिकुरः कचवालौ च केशकुन्तलकुञ्जराः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 4 मा (syllables merged)
genderपुंmasc.
चिकुरश्चिहुरः केशे ललाटस्यालके पुनः ।भ्रमरकः स्याद्भ्रमरालको वेणिः प्रवेणियुक् ॥ १५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 म (wrong syllable)
genderपुंmasc.
भिन्नार्थवाचकास्त्वेत एकान्यान्यतरेतरे ।चपलश्चिकुरस्तुल्यौ वन्ध्यो मोघो निरर्थकः ॥ १६८८ ॥
अनुष्टुप्
genderविadj.
चिकुरं चटुलङ्कंप्रं पारिप्लवपरिप्लवौ ।स्थास्न्वेकरूपं कूटस्थं स्थेयान् स्थेष्ठोऽप्यतिस्थिरे ॥ ७९ ॥
अनुष्टुप्
genderविadj.
खगद्रुभेदे च गिरौ चले तुविशेष्यगः स्यादथ चाङ्कुरोऽपि ।रथे तरौ योषिति नाङ्कुरः स्या-दङ्कूरवद्रोम्णि जले च रक्ते ॥ ९ ॥
उपजातिः
doubtful
द्वयोस्तु गृहबभ्रौ स्यात् सरीसृपविहङ्गयोः ।चञ्चले च त्रिषु ज्ञेयं युवतीनां विलोचने ॥ ७४७ ॥
अनुष्टुप्
doubtful
ईषन्निमीलिते क्लीबं चिक्कणस्त्वभिधेयवत् ।मसृणे ना तु कट्वाख्यधान्येऽथ चिपिटः पुमान् ॥ ७४८ ॥
अनुष्टुप्
meaningsईषन्निमीलित
doubtful
चपले त्रिषु केशे ना चिकुरश्चपलो रसे ।तडिति स्त्री द्रुते क्लीबश्चत्वरस्तु चतुष्पथे ॥ २०८९ ॥
अनुष्टुप्
meaningsकेश