कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वीक्ष्य

vīkṣyaपुं · masc.

In 5 kośas: 2 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र देवकाण्डः Abhidhānacintāmaṇipariśiṣṭa 2.37 · p. 4
आश्चर्ये फुल्लकं मोहो वीक्ष्यो लोतस्तु दृग्जले ।
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.444 · p. 56
अथ स्याद्विस्मयो मोहः चित्रं चोद्यं तथाऽद्भुतम् ।आश्चर्यं फुल्लकं वीक्ष्यं शान्तिस्तु शमथस्तथा ॥ ४४४ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास यपादः Dharaṇikośa 25.1.5 · p. 148
पथ्यं हितेऽभया पथ्या वीक्ष्यं विस्मयदृश्ययोः ।दैत्योऽसुरः सुरा दैत्या गेयौ गातव्यगायनौ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.47 · p. 293
कक्ष्यार्थके स्यादथ वीक्ष्यमाहु-र्दृश्ये तथा विस्मयवाचकं च ।पुमांस्तुरङ्गेऽपि च नर्तकेऽथतार्क्ष्यः सुपर्णे गरुडाग्रजे च ॥ ४७ ॥
उपजातिः
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.31 · p. 259
वीक्ष्यन्तु विस्मये दृश्ये पुंसि लासकवाजिनोः ।वेश्या स्त्री गणिकायान्तु वेश्यं वेश्यागृहे मतम् ॥
अनुष्टुप्