कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आश्चर्य

āścaryaक्ली · neut.

In 16 kośas: 15 synonym verses, 13 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.304 · p. 16
जुगुप्सा तु घृणाथ स्याद्विस्मयश्चित्रमद्भुतम् ॥ ३०३ ॥चोद्याश्चर्ये शमः शान्तिः शमथोपशमावपि ।तृष्णाक्षयः स्थायिनोऽमी रसानां कारणं क्रमात् ॥ ३०४ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.20
विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम् ॥ १९ ॥दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् ।भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.745 · p. 85
समाजः संसदास्थानी सभा स्यात्परिषत्सदः ।चित्रमद्भुतमाश्चर्यं विस्मयश्चोद्यमुच्यते ॥ ७४५ ॥
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर सप्तमोपदेशः Bālaprabodhikā 7.129 · p. 77
बीभत्सो विकृतं चित्रं त्वाश्चर्यं फुल्लमद्भुतम् ।भयानकं प्रतिभयं भीमं भीष्मं च भीषणम् ॥ १२९ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.106 · p. 428
स्त्रियां जुगुप्सा कुलेच्छा विस्मयः पुंस्यथापि च ।आश्चर्यमद्भुतं चोद्यं चित्रं पुंल्लकमित्यपि ॥ १०६ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.137 · p. 89
चौद्यमाश्चर्य-वीक्षे च चित्राद्या भेद्यलिङ्गकाः ।ऋतिंकरस्त्रिषु भवेज्जुगुप्साकृत्समार्थकाः ।डम्बरः स्याच्चमत्कारः प्रश्रयः प्रेम न स्त्रियाम् ॥ १३७ ॥
अनुष्टुप्
genderविadj.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 174 · p. 84
चित्राश्चर्याद्भुतं चोद्यं विस्मयः कौतुकोऽप्यहो ।अभियोगोद्यमोद्योगा उत्साहो विक्रमो मतः ॥ १७४ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.214 · p. 31
आश्चर्यमद्भुतं चित्रं विस्मयश्चोद्यमेव च ।शमश्चोपशमः शान्तिः शमथोऽपि निगद्यते ॥ २१४ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.166 · p. 23
आश्चर्यमद्भुते चित्रं चाथ दिव्ये भयानके ।स्याद्दारुणं प्रतिभयं भीष्मं घोरं भयकरम् ॥ १६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 य (wrong syllable)
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.85 · p. 27
आश्चर्यमद्भुतं चित्रं विस्मयश्चोद्यमित्यपि ।कौतूहलं च कुतुकं कौतुकं च कुतूहलम् ॥ ८५ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.444 · p. 56
अथ स्याद्विस्मयो मोहः चित्रं चोद्यं तथाऽद्भुतम् ।आश्चर्यं फुल्लकं वीक्ष्यं शान्तिस्तु शमथस्तथा ॥ ४४४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.448 · p. 56
आश्चर्यं विस्मयश्चित्रं स्थायी भावोऽद्भुते रसे ।शान्तरसे च तृष्णान्तः स्थायिभावश्च जायते ॥ ४४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.464 · p. 33
अद्भुतञ्चित्रमाश्चर्यं त्रितयं त्रिषु विस्मयः ।करुणोऽपि च कारुण्यं करुणा च दया दयः ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.972 · p. 122
अत्याहितं महाभीतिः समौ संवेगसंभ्रमौ ।आश्चर्यमद्भुतं चित्रं चोद्यं पुंस्येव विस्मयः ॥ ९७२ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.78 · p. 142
बीभत्सो विकृतश्चित्रं त्वाश्चर्यं फुल्लमद्भुतम् ।भयानकं प्रतिभयं भीमं भीष्मं भयंकरम् ॥ ७८ ॥
अनुष्टुप्
genderविadj.

आश्चर्य as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् चित्रआलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः । Amarakośa 3.3.337
  • धरणिकोश चोद्यचोद्ये चोदनाश्चर्ये चान्त्यावन्तभवाधमौ । सेव्यमुशीरे सेवार्हे कुड्यं भित्तौ विलेपने ॥ Dharaṇikośa 25.1.8
  • कोषकल्पतरु अत्यादधातिसंध्युरीकृत्यभिषवे सङ्गे संनेस्तु संनिधौ । अत्याङोऽनर्थशङ्कोपश्लेषाश्चर्यमहाभये ॥ ७१ ॥ Koṣakalpataru 3.5.71
  • कोषकल्पतरु यत्रचतुष्कमूर्यादि तनौ मतौ परै * तु प्रदाने च तिरस्कृतौ च । यत्र त्वमर्षानवक्लृप्तिगर्हा- श्च[246a]र्येषु चार्याः समुदाहरन्ति ॥ १७ ॥ Koṣakalpataru 5.1.17
  • नानार्थार्णवसंक्षेप चित्रचित्रं नपुंसकं पुण्ड्रे स्यादालेख्येऽप्यथ त्रिषु । आश्चर्ये कर्बुराभिख्यवर्णयुक्तेऽप्यथो पुमान् ॥ ४१६ ॥ Nānārthārṇavasaṃkṣepa 2.5.416
  • नानार्थार्णवसंक्षेप फुल्लआश्चर्ये स्याद्विकसितेऽप्यथो विशरणे नपि । निष्पत्तौ चाथ शण्डे स्यात् पुंसि चत्यपरे विदुः ॥ ८३२ ॥ Nānārthārṇavasaṃkṣepa 2.5.832
  • नानार्थार्णवसंक्षेप अद्भुतनाद्भुतो वैश्वदेवाग्नौ महदाश्चर्ययोस्त्रिषु । अखातं क्ली देवखातजलाधारेऽथ भेद्यवत् ॥ ५६ ॥ Nānārthārṇavasaṃkṣepa 4.56
  • परमानन्दीयनाममाला किम्किमाश्चर्ये वितर्के च प्रश्ने क्षेपजुगुप्सयोः । कियत्यथ खमित्युक्तमिन्द्रियाकाशयोनये ? ॥ ११ ॥ Paramānandīyanāmamālā 1.11
  • शब्दरत्नावली विस्मयपानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् । पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे ॥ वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् । वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् ॥ ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः । भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ ॥ भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके । स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् ॥ मलयो ना चलारामदेशेषु स्त्री तथौषधे । मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके ॥ स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च । अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु ॥ मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च । रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् ॥ विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् । विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि ॥ विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि । विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे ॥ रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.46
  • शब्दरत्नावली चित्रकुम्भकारोपकरणे क्लीबं ना चक्रवाकके । चारो गतौ पियालद्रुबन्धापसर्पणेषु च ॥ चित्रा नक्षत्र गोडुम्बा नदी भिद्दन्तिकासु च । मायासर्पाखुपर्णीषु नाडीसुभद्रयोः स्त्रियाम् ॥ आलेख्यतिलकाश्चर्यकर्बुरेषु च न द्वयोः । चीरं वस्त्रान्तरे रेखागोस्तनलेखनेषु च ॥ Śabdaratnāvalī 7.27.11
  • शब्दरत्नावली हीही पूरणाश्चर्ययोः स्याद्धि हेतावनधारणे । Śabdaratnāvalī 7.33.2
  • शब्दरत्नावली अहोअह कोपे प्रशंसायां नियोगे च विनिग्रहे । अहो धिगर्थे शोके च करुणार्थविषादयोः ॥ सम्बोधने प्रशंसायामाश्चर्ये पादपूरणे । असूयायां वितर्के च खेदाख्याने निगद्यते ॥ Śabdaratnāvalī 8.1.64
  • शब्दरत्नाकर चित्रआलेख्याश्चर्ययोश्चित्रं चिह्नमङ्के ध्वजेऽपि च । स्तुतिवादे चटुश्चाटुरुभौ पशुपिचण्डके ॥ १९१८ ॥ Śabdaratnākara 4.1.1918