अद्भुत
adbhutaपुं · masc.In 17 kośas: 31 synonym verses, 1 as a nānārtha head word, 22 as a meaning of another word.
शृङ्गारहास्यकरुणारौद्रवीरभयानकाः ॥ २९४ ॥बीभत्साद्भुतशान्ताश्च रसा भावाः पुनस्त्रिधा ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
जुगुप्सा तु घृणाथ स्याद्विस्मयश्चित्रमद्भुतम् ॥ ३०३ ॥चोद्याश्चर्ये शमः शान्तिः शमथोपशमावपि ।तृष्णाक्षयः स्थायिनोऽमी रसानां कारणं क्रमात् ॥ ३०४ ॥
अनुष्टुप्
genderक्लीneut.
शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम् ॥ १९ ॥दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् ।भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।बीभत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
समाजः संसदास्थानी सभा स्यात्परिषत्सदः ।चित्रमद्भुतमाश्चर्यं विस्मयश्चोद्यमुच्यते ॥ ७४५ ॥
अनुष्टुप्
genderक्लीneut.
नृत्तं गीतं वाद्यमिति नाट्यत्तौर्यत्रिकं त्रिकम् ।शृङ्गारवीरबीभत्सहास्याद्भुतभयानकाः ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
बीभत्समाने बीभत्सो विस्मये त्वद्भुतो रसः ।भयानको रसो भीते हास्यो हसितरि स्थितः ॥ १२८ ॥
अनुष्टुप्
genderपुंmasc.
बीभत्सो विकृतं चित्रं त्वाश्चर्यं फुल्लमद्भुतम् ।भयानकं प्रतिभयं भीमं भीष्मं च भीषणम् ॥ १२९ ॥
अनुष्टुप्
genderविadj.
महिमा तु विवाहाग्निर्वैश्वदेवाग्निरद्भुतः ।पाकयज्ञस्तु सुलभः अपसव्यस्तु सूतके ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।रौद्रबीभत्सवात्सल्यशान्ता नाट्ये रसा दश ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
स्त्रियां जुगुप्सा कुलेच्छा विस्मयः पुंस्यथापि च ।आश्चर्यमद्भुतं चोद्यं चित्रं पुंल्लकमित्यपि ॥ १०६ ॥
अनुष्टुप्
genderविadj.
अथेन्द्राः स्युर्विपश्चिच्च सुशान्तिश्च शिविर्विभुः ।मनोजवः पुरंदरो वलिरद्भुत इत्यपि ॥ २३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द (wrong syllable)
genderपुंmasc.
शृङ्गार-हास्य-करुणा भयानको रौद्र-वीर-बीभत्साः ।शान्ता[57a]द्भुताविति रसा दशमो वात्सल्यनामापि ॥ १२० ॥
आर्या
genderपुंmasc.
घृणा जुगुप्सा वीज्या स्यादृतीया च हृणीयमा(?) ।ऋतिर्ह्रणीयाथ शमः शमथोपशमावपि ।तृष्णा[58a]क्षयः स्त्रियां शीतिर्विस्मयश्चित्रमद्भुतम् ॥ १३६ ॥
अनुष्टुप्metre not read in every line
genderविadj.
चित्राश्चर्याद्भुतं चोद्यं विस्मयः कौतुकोऽप्यहो ।अभियोगोद्यमोद्योगा उत्साहो विक्रमो मतः ॥ १७४ ॥
अनुष्टुप्
genderक्लीneut.
आश्चर्यमद्भुतं चित्रं विस्मयश्चोद्यमेव च ।शमश्चोपशमः शान्तिः शमथोऽपि निगद्यते ॥ २१४ ॥
अनुष्टुप्
genderक्लीneut.
दीपदारुणिका दीपयष्टिकाऽकरयष्टिका ।उत्पातमद्भुतं ज्वाला जालोल्केभ्रपिणचिका? ॥ ३२४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ण (wrong syllable)
genderक्लीneut.
आश्चर्यमद्भुतं चित्रं विस्मयश्चोद्यमित्यपि ।कौतूहलं च कुतुकं कौतुकं च कुतूहलम् ॥ ८५ ॥
अनुष्टुप्
genderक्लीneut.
शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।बीभत्साद्भुतशान्ताश्चेत्येते नव रसाः स्मृताः ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
भयानकश्च बीभत्सोऽद्भुतशान्तौ रसाः नव ।ज्ञेयाः पुन स्त्रिधा भावा स्थायिनः सात्त्विकास्तथा ॥ ४३२ ॥
अनुष्टुप्
genderपुंmasc.
अथ स्याद्विस्मयो मोहः चित्रं चोद्यं तथाऽद्भुतम् ।आश्चर्यं फुल्लकं वीक्ष्यं शान्तिस्तु शमथस्तथा ॥ ४४४ ॥
अनुष्टुप्
genderक्लीneut.
शृङ्गारवीरबीभत्साः रौद्रहास्यभयानकाः ।अद्भुतः करुणः शान्तो नाट्ये नवरसा अमी ॥
अनुष्टुप्
genderपुंmasc.
अद्भुतञ्चित्रमाश्चर्यं त्रितयं त्रिषु विस्मयः ।करुणोऽपि च कारुण्यं करुणा च दया दयः ॥
अनुष्टुप्
genderविadj.
अथ वैश्वदेवसवनाहुतिवह्नी अद्भुतयविष्ठौ ।महिमान् विवाहवह्निर्बह्वन्नादो व्रतान्ताग्निः ॥ १०३ ॥
उपगीतिः
genderपुंmasc.
बीभत्साद्भुतशान्ताश्च नव नाट्यरसा इमे ।स्याच्चित्तविकृतिर्भावोऽनुभावस्तस्य बोधकः ॥ ९५५ ॥
अनुष्टुप्
genderपुंmasc.
अत्याहितं महाभीतिः समौ संवेगसंभ्रमौ ।आश्चर्यमद्भुतं चित्रं चोद्यं पुंस्येव विस्मयः ॥ ९७२ ॥
अनुष्टुप्
genderक्लीneut.
महिमांस्तु विवाहाग्निर्वैश्वदेवाग्निरद्भुतः ।व्रतांते बहुरन्नादः सुलभः पाकयाज्ञिकः ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
शृंगारहास्यबीभत्सवीराद्भुतभयानकाः ।रौद्रश्च करुणश्चाष्टौ रसाः शान्तोऽपि च क्वचित् ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
बीभत्समाने बीभत्सो विस्मेतर्यद्भुतो रसः ।भयानको रसो भीते हास्यो हसितरि स्थितः ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
बीभत्सो विकृतश्चित्रं त्वाश्चर्यं फुल्लमद्भुतम् ।भयानकं प्रतिभयं भीमं भीष्मं भयंकरम् ॥ ७८ ॥
अनुष्टुप्
genderविadj.
नाद्भुतो वैश्वदेवाग्नौ महदाश्चर्ययोस्त्रिषु ।अखातं क्ली देवखातजलाधारेऽथ भेद्यवत् ॥ ५६ ॥
अनुष्टुप्
अद्भुत as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् अहहअहहेत्यद्भुते खेदे हि हेताववधारणे । Amarakośa 3.3.502
- धरणिकोश स्मयमय उष्ट्रे दैत्यभेदे मन्युर्दैन्ये क्रतौ क्रुधि । स्मयौ गर्वाद्भुतौ ज्ञेयौ गोप्यौ संरक्ष्यचेटकौ ॥ Dharaṇikośa 25.1.3
- धरणिकोश विस्मयअपत्ये दुहितृसुतौ लौहित्यौ व्रीहिसागरौ । श्वशुर्यौ देवरश्यालौ विस्मयाऽद्भुतगर्वयोः ॥ Dharaṇikośa 25.1.12
- धरणिकोश चित्रचित्रा मूषिकपर्णिका निगदिता चित्रा सुभद्रा स्मृता गोडुम्बापि च दन्तिकापि च तथा सर्पप्रभेदेऽपि सा । हस्तालम्भनतारका निगदिता चित्रा तथा शाम्बरी चित्रं कर्बुरमद्भुतं तु तिलकं चालेख्यमुत्कीर्तितम् ॥ Dharaṇikośa 26.3.4
- धरणिकोश अहहहंहो संबोधने प्र[114]श्नेऽहहेत्यद्भुतखेदयोः । अह क्षेपे नियोगे स्यादहो प्रश्ननियोगयोः ॥ Dharaṇikośa 34.21.1
- धरणिकोश मक्षुमङ्क्षु शीघ्रे भृशार्थे च मक्षु चाद्भुतखेदयोः ॥ Dharaṇikośa 34.22.1
- कोषकल्पतरु हीहीहा दुःखे शुचि ही तु विस्मयविषादार्थेऽथ हाहा तथा हू हूं खेद विषादयोरथ मतो हू विस्मयामन्त्रणे । हं हो विस्मयदुःखयोः सह पुनः साकल्यसादृश्ययोः संबन्धर्द्धिसमानकाल उदितं ही ही तु हास्येऽद्भुते ॥ २८ ॥ Koṣakalpataru 5.1.28
- कोषकल्पतरु इङ्गविष्कम्भकादौ वपुषः स्थिरत्वे रोगस्तु कुष्ठौषध आमये च । वेगो महाकालफले प्रवाहे प्लवे च पूगः क्रमुके च वृन्दे । चङ्गस्तु दक्षे रुचिरेऽन्यलिङ्गो- ऽथेङ्गोऽद्भुतज्ञानस[263a]मिङ्गितेषु । स्याज्जङ्गमे चाथ कृपाणभेद- जङ्घाखनित्रेष्वपि टङ्गमस्त्री ॥ ९३ ॥ Koṣakalpataru 6.3.93
- कोषकल्पतरु स्मयतथा विलासेऽद्भुतगर्वयोस्तु स्मयोऽपि गेयोऽपि[35a]च गायनेऽपि । क्षयो निवासेऽपि च राजरोगे कल्पान्तकालेऽपचये, प्रियस्तु ॥ ५ ॥ Koṣakalpataru 6.26.5
- कोषकल्पतरु चोद्यवशत्वकृद्वेदमनौ तु पुंसि स्त्रियां तु वृद्ध्याह्वय औषधे च । प्रश्नेऽद्भुते चोद्यमुशन्ति षण्ढे विशेष्यवत्प्रेरणवाचकं च ॥ २६ ॥ Koṣakalpataru 6.26.26
- कोषकल्पतरु विस्मयन च योषिति स स्त्रियां पुनः त्रिवृति स्यादथ विस्मयोऽद्भुते । अपि गर्वगतेऽथ मृत्युवाची प्रलयः कल्पविराममूर्च्छिते च ॥ ५९ ॥ Koṣakalpataru 6.26.59
- कोषकल्पतरु टङ्कारभेदे प्रकारः सदृशे तथा स्या- ट्टङ्कार उक्तोऽद्भुतकुप्रसिद्ध्योः । मौर्वीध्वनौ स्याच्छरयन्त्रके तु दण्डार उक्तोऽपि कुलालचक्रे ॥ ४४ ॥ Koṣakalpataru 6.27.44
- कोषकल्पतरु वीक्षवस्त्रे च भित्तावथ वीक्षमीक्ष्ये- द्भुतेऽथ मोक्षो नरि मुष्ककद्रौ । निःश्रेयसे मोचनवाचकोऽथ रूक्षस्तु वृक्षे त्रिषु हार्दही[85b]ने ॥ ५४ ॥ Koṣakalpataru 6.30.54
- नानार्थार्णवसंक्षेप चोद्यचुल्लः क्लिन्नाक्षजन्तौ च क्लिन्ने चाक्ष्ण्यथ चोद्यवाक् । चोदनीयेऽद्भुते छन्नश्छादितेऽपि रहस्यपि ॥ ८ ॥ Nānārthārṇavasaṃkṣepa 2.4.8
- नानार्थार्णवसंक्षेप विस्मयविस्मयस्त्वद्भुते दर्पे विशयस्त्वपि संशये । वे(श्या?श्वा)पि शयने ज्ञेयो विषयस्त्वपि गोचरे ॥ १९७ ॥ Nānārthārṇavasaṃkṣepa 3.2.197
- परमानन्दीयनाममाला चित्रशस्त्रे दम्भान्तरे दुष्टे चित्रा दन्तीसुभद्रयोः । दिव्यस्त्रियां च नक्षत्रमेदे चित्रमथाद्भुते ॥ १७७ ॥ Paramānandīyanāmamālā 5.11.177
- शब्दरत्नावली चोद्यचैत्यमायतनेऽपि स्यात्पुमानुद्देशभूरुहे । चोद्यन्तु प्रश्नाद्भुतयोश्चोदनार्हेतु वाच्यवत् ॥ Śabdaratnāvalī 7.26.14
- शब्दरत्नावली स्मयस्मयोऽद्भुते च गर्वे च सव्यं वामप्रतीपयोः । सायो दिनान्ते बाणे च साध्यो योगभिदि स्मरे ॥ Śabdaratnāvalī 7.26.36
- शब्दरत्नावली अहहहं सम्बोधने च दर्पे च दम्भप्रश्ने च कीर्त्यते । अहह स्यात्परिक्लेशखेदेऽद्भुतप्रहर्षयोः । Śabdaratnāvalī 8.1.67
- शब्दरत्नाकर परावीप्सायां परितोभागे वर्जनेऽप्यपवत् परि । परा विहीनेऽनावृत्तौ हिते चामन्त्रणेऽद्भुते ॥ २२७३ ॥ Śabdaratnākara 5.2.2273
- वैजयन्ती बतपरा निहीनेऽनावृत्तौ बत त्वामन्त्रणेऽद्भुते । तोषे खेदे कृपायां च बाढं त्वनुमते भृशे ॥ २६ ॥ Vaijayantī 8.7.26
- वैजयन्ती अहहअञ्जसा त्वरिते तत्वेऽप्यहहाद्भुतखेदयोः । समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः ॥ ३१ ॥ Vaijayantī 8.7.31