विस्मय
vismayaपुं · masc.In 17 kośas: 20 synonym verses, 6 as a nānārtha head word, 25 as a meaning of another word.
जुगुप्सा तु घृणाथ स्याद्विस्मयश्चित्रमद्भुतम् ॥ ३०३ ॥चोद्याश्चर्ये शमः शान्तिः शमथोपशमावपि ।तृष्णाक्षयः स्थायिनोऽमी रसानां कारणं क्रमात् ॥ ३०४ ॥
अनुष्टुप्
genderपुंmasc.
विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम् ॥ १९ ॥दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् ।भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
समाजः संसदास्थानी सभा स्यात्परिषत्सदः ।चित्रमद्भुतमाश्चर्यं विस्मयश्चोद्यमुच्यते ॥ ७४५ ॥
अनुष्टुप्
genderपुंmasc.
रागोऽनुरागोऽनुरतिः वीक्षाव्यामोहविस्मयौ ।शोषिण्या उषकोदन्या पिपासा पिपलासिका ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
रौद्रश्च करुणश्चाष्टौ रसाः शान्तोऽपि च क्वचित् ।उत्साहो विस्मयो भीतिः क्रोधः शोकः शमोऽपि च ॥ १२७ ॥
अनुष्टुप्
genderपुंmasc.
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।जुगुप्सा विस्मयश्चेति स्थायिभावाः क्रमादमी ॥ ९३ ॥
अनुष्टुप्
genderपुंmasc.
स्त्रियां जुगुप्सा कुलेच्छा विस्मयः पुंस्यथापि च ।आश्चर्यमद्भुतं चोद्यं चित्रं पुंल्लकमित्यपि ॥ १०६ ॥
अनुष्टुप्
genderपुंmasc.
घृणा जुगुप्सा वीज्या स्यादृतीया च हृणीयमा(?) ।ऋतिर्ह्रणीयाथ शमः शमथोपशमावपि ।तृष्णा[58a]क्षयः स्त्रियां शीतिर्विस्मयश्चित्रमद्भुतम् ॥ १३६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
चित्राश्चर्याद्भुतं चोद्यं विस्मयः कौतुकोऽप्यहो ।अभियोगोद्यमोद्योगा उत्साहो विक्रमो मतः ॥ १७४ ॥
अनुष्टुप्
genderपुंmasc.
आश्चर्यमद्भुतं चित्रं विस्मयश्चोद्यमेव च ।शमश्चोपशमः शान्तिः शमथोऽपि निगद्यते ॥ २१४ ॥
अनुष्टुप्
genderपुंmasc.
आश्चर्यमद्भुतं चित्रं विस्मयश्चोद्यमित्यपि ।कौतूहलं च कुतुकं कौतुकं च कुतूहलम् ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
अथ स्याद्विस्मयो मोहः चित्रं चोद्यं तथाऽद्भुतम् ।आश्चर्यं फुल्लकं वीक्ष्यं शान्तिस्तु शमथस्तथा ॥ ४४४ ॥
अनुष्टुप्
genderपुंmasc.
आश्चर्यं विस्मयश्चित्रं स्थायी भावोऽद्भुते रसे ।शान्तरसे च तृष्णान्तः स्थायिभावश्च जायते ॥ ४४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
genderपुंmasc.
अद्भुतञ्चित्रमाश्चर्यं त्रितयं त्रिषु विस्मयः ।करुणोऽपि च कारुण्यं करुणा च दया दयः ॥
अनुष्टुप्
genderपुंmasc.
हर्ष-प्रहर्ष-हरिषा आनन्दानन्दथू समौ ।गर्वेऽभिमान-मानौ च विस्मयः स्मय इत्युभौ ॥ १२५ ॥
अनुष्टुप्
genderपुंmasc.
स्थायिभावो विभावाद्यैः स्थायितां प्रापितो रसः ।रतिर्हासक्रोधशोकजुगुप्सोत्साहविस्मयाः ॥ ९५६ ॥
अनुष्टुप्
genderपुंmasc.
अत्याहितं महाभीतिः समौ संवेगसंभ्रमौ ।आश्चर्यमद्भुतं चित्रं चोद्यं पुंस्येव विस्मयः ॥ ९७२ ॥
अनुष्टुप्
genderपुंmasc.
रागोऽनुरागोऽनुरतिर्वीक्षायां मोहविस्मयौ ।शोषुर्ना शुषिकोदन्या पिपासाप्यपलासिका ॥ १८१ ॥
अनुष्टुप्
genderपुंmasc.
स्थायिभावाः क्रमादेषां रतिर्हासो जुगुप्सनम् ।उत्साहो विस्मयो भीतिः क्रोधः शोकः शमोऽपि च ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
पानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् ।पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे ॥वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् ।वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् ॥ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः ।भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ ॥भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके ।स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् ॥मलयो ना चलारामदेशेषु स्त्री तथौषधे ।मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके ॥स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च ।अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु ॥मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च ।रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् ॥विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् ।विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि ॥विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि ।विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे ॥रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 सू (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 3, syllable 7 द्भ (wrong syllable)
विस्मय as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् बतखेदानुकम्पासन्तोषविस्मयामन्त्रणे बत । Amarakośa 3.3.476
- हलायुधकोशः (अभिधानरत्नमाला) वतअधरस्तादधरतः स्यादधस्तादधोऽधरे । अत इत्युच्यते हेतौ निन्दायां विस्मये वत ॥ ८७८ ॥ Abhidhānaratnamālā (Halāyudha) 5.878
- धरणिकोश वीक्ष्यपथ्यं हितेऽभया पथ्या वीक्ष्यं विस्मयदृश्ययोः । दैत्योऽसुरः सुरा दैत्या गेयौ गातव्यगायनौ ॥ Dharaṇikośa 25.1.5
- धरणिकोश वीक्षवीक्षं स्याद्विस्मये दृश्ये न्यक्षं कार्त्स्ननिकृ[109]ष्टयोः । यक्षौ गुह्यकयक्षेशौ चोक्षौ तीक्ष्णमनोहरौ ॥ Dharaṇikośa 33.1.1
- धरणिकोश बतहन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः । बत मन्त्रणसंतोषखेदानुक्रोशविस्मये ॥ Dharaṇikośa 34.7.4
- धरणिकोश हीहि हेतौ स्याद्विशेषार्थे एकार्थे पूरणेऽपि च । ही विषादे विस्मये स्याद्दुःखहेत्वोरपि स्मृतः ॥ Dharaṇikośa 34.21.3
- कोषकल्पतरु बतसंतोषसंबोधनविस्मयानु- कम्पाविषादेषु च तत्प्रदिष्टम् । हन्त प्रदाने प्रमदे दयायां खेदे तथा[244a]वाक्यमुखे वदन्ति ॥ ९२ ॥ Koṣakalpataru 5.1.92
- कोषकल्पतरु अहोअहो बतामन्त्रणविस्मयेषु कष्टे दयायामपि चाभिमुख्ये । ततो यतः स्तो नियमे विभागेऽ- थातिः प्रशंसापचितिप्रकर्षे । अतिक्रमासंप्रतिवाचकः स्या- दारात्तु दूरान्तिकवाचकश्च ॥ ९४ ॥ Koṣakalpataru 5.1.94
- कोषकल्पतरु हीहा दुःखे शुचि ही तु विस्मयविषादार्थेऽथ हाहा तथा हू हूं खेद विषादयोरथ मतो हू विस्मयामन्त्रणे । हं हो विस्मयदुःखयोः सह पुनः साकल्यसादृश्ययोः संबन्धर्द्धिसमानकाल उदितं ही ही तु हास्येऽद्भुते ॥ २८ ॥ Koṣakalpataru 5.1.28
- कोषकल्पतरु वीक्ष्यकक्ष्यार्थके स्यादथ वीक्ष्यमाहु- र्दृश्ये तथा विस्मयवाचकं च । पुमांस्तुरङ्गेऽपि च नर्तकेऽथ तार्क्ष्यः सुपर्णे गरुडाग्रजे च ॥ ४७ ॥ Koṣakalpataru 6.26.47
- कोषकल्पतरु चित्रपोत्रं तु वस्त्रे किटिलाङ्गलस्या- ग्रकेऽथ चित्रं तिलकेऽन्तरिक्षे । आलेख्यकिर्मीरकविस्मयेषु त्रये तु किर्मीरिणि विस्मिते च ॥ २८ ॥ Koṣakalpataru 6.27.28
- नानार्थार्णवसंक्षेप वीक्षाविस्मये वीक्षणाभिख्यक्रियायां चाप्यथ स्त्रियाम् । वीचिः पङ्क्त्यूर्मिलेशेषु स्यात् पुंस्यपि च कश्चन ॥ १२७० ॥ Nānārthārṇavasaṃkṣepa 2.5.1270
- परमानन्दीयनाममाला हीह संबुद्धौ पादपूर्तौ हा दुःखे शुग्विषादयोः । ही विस्मये विषादे हुं स्वापे प्रश्नवितर्कयोः ॥ ४२ ॥ Paramānandīyanāmamālā 1.42
- शब्दरत्नावली वीक्ष्यवीक्ष्यन्तु विस्मये दृश्ये पुंसि लासकवाजिनोः । वेश्या स्त्री गणिकायान्तु वेश्यं वेश्यागृहे मतम् ॥ Śabdaratnāvalī 7.26.31
- शब्दरत्नावली टङ्कारझर्झरो नदभिद्वाद्यभेदयोस्तु भवेत्कलौ । टहरी स्यान्मृषावाचिझम्पापटहवाद्ययोः ॥ टङ्कारः शिञ्जिनीध्वाने प्रसिद्धौ विस्मये पुमान् । डिङ्गरो डङ्गरे क्षेपे खले धूर्ते च चोरके ॥ Śabdaratnāvalī 7.27.75
- शब्दरत्नावली पश्यतजात्वसम्भावितार्थे च गर्हा कदाचिदर्थयोः । निद्विकल्पे निषेधे च प्रतिज्ञालङ्घनेऽपि च ॥ प्रति प्रतिनिधौ वीप्सेत्थम्भूताख्यानलक्षणे । प्रतिदाने चाभिमुख्ये स्वभावमात्रयोरपि ॥ हन्त हर्षार्त्तिवादेषु वाक्यारम्भे च सम्भ्रमे । पश्यत स्यात्प्रशंसायां विस्मयाक्षेपभाषणे ॥ बत हर्षामन्त्रणयोः खेदानुक्रोशविस्मये । स्वस्ति स्यान्मङ्गलाशसापुण्यसन्तोषणेषु च ॥ Śabdaratnāvalī 8.1.26
- शब्दरत्नावली यदितदप्रकाशे विभागे च शक्तौ प्राधान्यबन्धयोः । भावे मोक्षे च लाभे च स्यादाबद्धोर्द्ध्वकर्मणोः (?) ॥ यद्गर्हायामधृतौ च हेतावपि निगद्यते । यदि स्यात्तु विगर्हायां विकल्पे विस्मयेपि च ॥ Śabdaratnāvalī 8.1.37
- शब्दरत्नावली चनइनायासपराक्रान्ते किन्नु प्रश्नवितर्कयोः । चन पक्षान्तरे कार्त्स्न्ये विस्मये च निगद्यते ॥ Śabdaratnāvalī 8.1.41
- शब्दरत्नावली अमामा विकल्पे वारणे स्यात्स्मातीते पादपूरणे ॥ मा स्म स्यान्मङ्गले तथ्ये वारणेऽन्यकृतावपि । अमासहार्थे रश्म्यर्थे निकरार्थे रसार्थके ॥ अज्ञाते विस्मये स्मृत्यामुद्यमार्थे निगद्यते । उं प्रश्ने चाभ्युपगमे क्रोधे च कोपगर्जिते ॥ ऊं पृच्छायामपक्रोशे रोषोक्तौ दम्भभाषिते । उमङ्गीकारकल्याणप्रणवोपक्रताह्वये ॥ Śabdaratnāvalī 8.1.48
- शब्दरत्नावली ?किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50
- शब्दरत्नावली हीही विस्मये विषादे च दुःखहेतुशुचोरपि । हे च सम्बोधनाह्वानासूयादम्भादरेषु च ॥ Śabdaratnāvalī 8.1.62
- शब्दरत्नावली हीहीआहो प्रश्ने विचारे च उताह प्रश्नचिन्तयोः । सह साकल्य-सामर्थ्य-विद्यमान-समृद्धिषु ॥ सम्बन्धे यौगपद्ये च साहाय्ये च निगद्यते । हीही हास्ये विस्मये च हेहै सम्बोधनाख्ययोः ॥ Śabdaratnāvalī 8.1.66
- शब्दरत्नाकर हीआमन्त्रणे भर्त्सने हुं हुं संप्रश्नवितर्कयोः । ही विषादे विस्मये च हा विषादशुगर्तिषु ॥ २२५७ ॥ Śabdaratnākara 5.1.2257
- शब्दरत्नाकर बततोषे खेदे कृपायां च बाढं त्वनुमतौ दृढे । खेदानुकम्पासंतोषविस्मयामन्त्रणे बत ॥ २२७४ ॥ Śabdaratnākara 5.2.2274
- त्रिकाण्डशेष हीही विस्मये प्रमोदे च ओमेवं प्रणवार्थयोः । युक्तार्थे चाधुनार्थे च साम्प्रतं तद्विदो विदुः ॥ ४६६ ॥ Trikāṇḍaśeṣa 3.3.466