कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)

प्रथमः काण्डः · पातालाध्यायः

इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे चित्ताध्यायोऽष्टमः ॥

पातालाध्यायः

पातालमधोभुवनं बलिसद्म रसातलं च फणिलोकः ।अतलं वितलं नितलं सुतलं प्रतलं तलातलं भेदाः ॥ २९५ ॥
1.10.295 · p. 40
गीतिः
कुहरं तु रन्ध्रविवरछिद्रबिलश्वभ्ररोकनिर्व्यथनम् ।अपि सुषिवपे स्त्रियौ स्यादवटो गर्तश्च भूतलश्वभ्रे ॥ २९६ ॥
1.10.296 · p. 40
गीतिःmetre not read in every line
तिमिरं तमस्तमिस्रं ध्वान्तं क्लीबेऽपि चान्धकारः स्यात् ।अवतमसमन्धतमसं संतमसं क्षयिणि भूयसि ततेऽस्मिन् ॥ २९७ ॥
1.10.297 · p. 40
गीतिः
सर्पः पृदाकुभुजगाहिभुजंगभोगि-कुम्भीनसोरगभुजंगमगूढपादाः ।व्यालद्विजिह्वफणिजिह्मगदन्तशूक-काकोदराण्डजसरीसृपकाद्रवेयाः ॥ २९८ ॥
1.10.298 · p. 40
वसन्ततिलका
विषधरचक्रिबिलेशयदर्वीकरदीर्घपृष्ठदृक्छ्रवणाः ।पन्नगपवनभुगाशीविषकुण्डलिनागलेलिहानाश्च ॥ २९९ ॥
1.10.299 · p. 41
गीतिः
शेषोऽनन्तो वासुकिरहिराडथ शङ्खतक्षकाश्वतराः ।कम्बलगुलिकस्वस्तिककर्कोटकशङ्खचूडकौरव्याः ॥ ३०० ॥
1.10.300 · p. 41
गीतिः
वैशालेयमहान्तकपद्ममहापद्मनहुषधृतराष्ट्राः ।कुञ्जरकुमुदैरावतकुण्डोदरपुण्डरीकबहुकुण्डाः ॥ ३०१ ॥
1.10.301 · p. 41
गीतिः
कैलासैलापत्रश्वेतमुखाः स्युर्भुजंगमप्रवराः ।फणिनः कुण्डलचक्रे वेष्टनमाशीस्तु दंष्ट्रायाम् ॥ ३०२ ॥
1.10.302 · p. 41
आर्या
डुण्डुभः पुण्डरीकश्च राजिलो राजिमत्यहौ ।रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशलक्षणाः ॥ ३०३ ॥
1.10.303 · p. 41
अनुष्टुप्
फणिनः शीघ्रगतयः सर्पा दर्वीकराभिधाः ।मन्दा दीर्घा मण्डलिनो विविधैर्मण्डलैर्युताः ॥ ३०४ ॥
1.10.304 · p. 41
अनुष्टुप्
मालुधानो मातुलाहिरलगर्दोऽम्बुपन्नगः ।अहीरणोऽहिर्द्विमुखो राजसर्पो भुजंगभुक् ॥ ३०५ ॥
1.10.305 · p. 41
अनुष्टुप्
स भुजंगस्त्वजो नाम यः स्यादुभयतोमुखः ।गोनसस्तु तिलित्सः स्याद्वाहसोऽजगरः शयुः ॥ ३०६ ॥
1.10.306 · p. 41
अनुष्टुप्
बलाहकस्तु कृष्णाहिरन्धाहिरवनीशयः ।दर्वीकरादिभिर्भेदैरशीतिः सर्पजातयः ॥ ३०७ ॥
1.10.307 · p. 41
अनुष्टुप्
वर्षाभूः शकलज्योतिः पैङ्गराजो बलाहकः ।शुकपत्रः पुष्पकोऽहिपताको निर्विषाहयः ॥ ३०८ ॥
1.10.308 · p. 42
अनुष्टुप्
निर्मुक्तोऽहिर्विमुक्तत्वगहिनिर्लयनी स्त्रियाम् ।समौ कञ्चुकनिर्मोकौ स्फटायां तु फणः फणा ॥ ३०९ ॥
1.10.309 · p. 42
अनुष्टुप्
गतिर्भुजो भुजंगस्य भोगस्तु फणकाययोः ।त्रिष्वाहेयं त्वगस्थ्यादि व्यालग्राह्यहितुण्डिकः ॥ ३१० ॥
1.10.310 · p. 42
अनुष्टुप्
गरलं तु विषं क्ष्वेलस्तत्प्रभेदास्तु दारदः ।सौराष्ट्रिको ब्रह्मपुत्रो वत्सनाभः प्रदीपनः ॥ ३११ ॥
1.10.311 · p. 42
अनुष्टुप्
शौक्लिकेयो महाघोषः शृङ्गी चेत्येवमादयः ।त्रयः क्लीबे च काकोलकालकूटहलाहलाः ॥ ३१२ ॥
1.10.312 · p. 42
अनुष्टुप्
हालाहलो हालहलो हालहालोऽपि न स्त्रियाम् ।विषवैद्यो जाङ्गलिको विषविद्या तु जाङ्गलम् ॥ ३१३ ॥
1.10.313 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
नदी पुरी च नागानां भोगवत्यथ कर्दमः ।पुमान्निषद्वरः शादो जम्बालः पङ्कमस्त्रियाम् ॥ ३१४ ॥
1.10.314 · p. 42
अनुष्टुप्
अर्णव उदधिरुदन्वानब्धिरकूपार आपगानाथः ।वरुणालयमकरालयवाराकरसिन्धुसागरसमुद्राः ॥ ३१५ ॥
1.10.315 · p. 42
गीतिःmetre not read in every line
रत्नाकरः पयोराशिः पारावारः पयोनिधिः ।सरस्वानूर्मिमाली च तत्प्रभेदाः स्युरुत्तरे ॥ ३१६ ॥
1.10.316 · p. 43
अनुष्टुप्
लवणेक्षुसुरासर्पिर्दधिक्षीरोदकात्मकाः ॥ ३१७ ॥
1.10.317 · p. 43
अम्भःपुष्करवारितोयजलवाःपाथोवनार्णःपयः-पनीयोदकमेघपुष्पसलिलक्षीराम्बुनीरामृतम् ।कीलालं भुवनं कबन्धकमले तज्जीवनं शम्बरंनारः पुंसि कमव्यये धनरसो नापस्तु भूम्नि स्त्रियाम् ॥ ३१८ ॥
1.10.318 · p. 43
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 1 प (wrong syllable)
तरङ्गो भङ्ग ऊर्मिर्वा स्त्री वीचिर्लहरी समे ।गुरुषूल्लोलकल्लोलौ तनुषूत्कलिकोर्मिषु ॥ ३१९ ॥
1.10.319 · p. 43
अनुष्टुप्
कूलं रोधः प्रतीरं त्रिषु तटमुदधेस्तोयवृद्धौ च कूलेवेला द्वीपस्तु न स्त्री तटमधिसलिलं न द्वयोरन्तरीपम् ।पारावारे तु तीरे परमितरदुमे पात्रमन्तस्तयोः स्या-दावर्तश्चक्रमम्बुभ्रम उदधिकफः पुंसि डिण्डीरफेनौ ॥ ३२० ॥
1.10.320 · p. 43
स्रग्धरा
पूरः स्यादम्भसां वृद्धिरोघः स्रोतोऽम्भसां स्रुतिः ।स्फूर्जथुर्वीचिविक्षेपे पुलिनं सैकतं समे ॥ ३२१ ॥
1.10.321 · p. 43
अनुष्टुप्
वालुका स्त्री स्त्रियां भूंम्नि सिकताः सिकतावति ।त्रिषु देशे सिकतिलं भ्रमाः सलिलनिर्गमाः ॥ ३२२ ॥
1.10.322 · p. 43
अनुष्टुप्
परीवाहो जलोच्छ्वासः प्रभवो मूलमम्भसाम् ।चक्राणि पुटभेदाः स्युर्बुद्बुदस्थासकौ समौ ॥ ३२३ ॥
1.10.323 · p. 43
अनुष्टुप्
समुद्रीयं तु त्रिष्वब्धिभवे सामुद्रिकस्त्वयम् ।समुद्रयात्रादैवज्ञो नौस्तरिस्तरणिः स्त्रियाम् ॥ ३२४ ॥
1.10.324 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
नौदण्डः क्षेपणी नावमतिक्रान्तेऽतिनु त्रिषु ।नौतार्ये त्रिषु नाव्यं स्यान्नौशृङ्गे मङ्गमस्त्रियाम् ॥ ३२५ ॥
1.10.325 · p. 44
अनुष्टुप्
अर्धनावं तु नावोऽर्धं कूपको गुणवृक्षकः ।सेचनं सेकपात्रं स्यादरित्रं केनिपातकः ॥ ३२६ ॥
1.10.326 · p. 44
अनुष्टुप्
अभ्रिः स्त्री काष्ठकुद्दालः कर्णधारस्तु नाविकः ।काष्ठाम्बुवाहिनी द्रोणी नियामः कर्णधारकः ॥ ३२७ ॥
1.10.327 · p. 44
अनुष्टुप्
कर्णं पृष्ठस्थितारित्रमुडुपं प्लवकोलकौ ।यानपात्रं प्रवहणं पोतो भेदे तरण्डकः ॥ ३२८ ॥
1.10.328 · p. 44
अनुष्टुप्
सांयात्रिकः पोतवणिक् पोतवाहा नियामकाः ।आतरस्तरपण्यं स्यात्कूपकास्तु विदारकाः ॥ ३२९ ॥
1.10.329 · p. 44
अनुष्टुप्
पौलिन्दास्तु जलाजीवा जालिको दासधीवरौ ।कैवर्तो जालमानायः पवित्रं शणसूत्रकम् ॥ ३३० ॥
1.10.330 · p. 44
अनुष्टुप्
कुवेणी मत्स्यधानी स्याद् बडिशं मीनवेधनम् ।उद्गालो मत्स्यबन्धः स्याद्वराटस्तु कपर्दकः ॥ ३३१ ॥
1.10.331 · p. 44
अनुष्टुप्
मत्स्यझषानिमिषाण्डजपृथुलोमविसारशकुलिमीनाः स्युः ।वैसारिणोऽथ शकलं शल्कमुलूपं च तत्त्वचि त्रितयम् ॥ ३३२ ॥
1.10.332 · p. 44
गीतिः
राजीवमकरमद्गुरवागुरपल्लवकशकुलशालाश्च ।नन्द्यावर्तकरोहितकुलिशप्रमुखाश्च मत्स्यभेदाः स्युः ॥ ३३३ ॥
1.10.333 · p. 45
गीतिः
तिमिस्तिमिंगिलः शृङ्गी वीरल्लश्च महाझषाः ।शफरः शफरी प्रोष्ठी गण्ड(ड?)कः शकुलार्भकः ॥ ३३४ ॥
1.10.334 · p. 45
अनुष्टुप्
महाङ्गाः क्रूरहृदयाः यादांसि जलजन्तवः ।सहस्रदंष्ट्रपाठीनौ शिशुकोलूपिनौ समौ ॥ ३३५ ॥
1.10.335 · p. 45
अनुष्टुप्
नलमीने चिलिचिमः क्षुद्राण्डो मत्स्यसंहतिः ।पोतधानं च शङ्खस्तु जलजः कम्बुरस्त्रियाम् ॥ ३३६ ॥
1.10.336 · p. 45
अनुष्टुप्
क्षुद्रशङ्खाः शङ्खनखाः शम्बूकास्त्वम्बुशुक्तयः ।मुक्तास्फोटस्तु शुक्तिः स्त्री कूर्मः कमठकच्छपौ ॥ ३३७ ॥
1.10.337 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
मण्डूके भेकवर्षाभूशालूरप्लवदर्दुराः ।मण्डूकी दर्दुरी भेकी वर्षाभ्वी कमठी दुलिः ॥ ३३८ ॥
1.10.338 · p. 45
अनुष्टुप्
वारिपिण्डः शिलान्तःस्थमण्डूकोऽथ महीलता ।गण्डूपदः किञ्चुलुकः शिली गण्डूपदी समे ॥ ३३९ ॥
1.10.339 · p. 45
अनुष्टुप्
जलौकसः स्त्रियां भूम्नि जलूका रक्तपा च सा ।तन्तुनागो वराहः स्याद् ग्राहो वरुणपाशकः ॥ ३४० ॥
1.10.340 · p. 45
अनुष्टुप्
नागोऽथ नक्रः कुम्भीरः कुम्भी गोमुख इत्यपि ।जले भ्रमन्ति ये शीघ्रं कीटास्ते जलजालिकाः ॥ ३४१ ॥
1.10.341 · p. 46
अनुष्टुप्
दीर्घकोशी तु दुर्नामा निहाका गोधिका समे ।स्यात्कुलीरः कर्कटकस्तस्मिन् षोडशपादपि ॥ ३४२ ॥
1.10.342 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
स्रोतस्विनी द्वीपवती सैव शैवलिनीति च ।मन्दाकिनी विष्णुपदी गङ्गा गीर्वाणनिम्नगा ॥ ३४४ ॥
1.10.344 · p. 46
अनुष्टुप्
जह्नुकन्या त्रिपथगा त्रिस्रोताः स्कन्दसूरपि ।पतंगकन्या कालिन्दी यमुना च यमस्वसा ॥ ३४५ ॥
1.10.345 · p. 46
अनुष्टुप्
कवेरकन्या कावेरी सहयोनिर्मरुद्वृधा ।ताम्रपर्णी तु ताम्राथ रेवा मेखलकन्यका ॥ ३४६ ॥
1.10.346 · p. 46
अनुष्टुप्
सोमोद्भवा नर्मदा च विपाशायां विपाट् स्त्रियाम् ।गोदा गोदावरी सैतवाहिनी बाहुदार्जुनी ॥ ३४७ ॥
1.10.347 · p. 46
अनुष्टुप्
करतोया सदानीरा कृष्णा स्यात्कृष्णवेणिका ।शतद्रुस्तु शितद्रुः स्यात्प्रणीता पारियात्रजा ॥ ३४८ ॥
1.10.348 · p. 46
अनुष्टुप्
हिरण्यबाहुः शोणः स्यात् संभेदः सिन्धुसंगमः ।शरावती वेत्रवती चन्द्रभागा सरस्वती ॥ ३४९ ॥
1.10.349 · p. 47
अनुष्टुप्
शिवा पयोष्णी निर्विन्ध्या पुष्पभद्रा पयस्वती ।देविका गोमती वेत्रा चित्रकूटा कुमुद्वती ॥ ३५२ ॥
1.10.352 · p. 47
अनुष्टुप्
त्रिसामा कौशिकी मालिन्याद्या बह्व्यो महापगाः ।नदभेदौ तु भिद्योद्ध्यौ त्रिषु स्यात्सौरसैन्धवम् ॥ ३५३ ॥
1.10.353 · p. 47
अनुष्टुप्
सुरसिन्धुभवं यत्तद्दाविकं देविकाभवम् ।नदीभवं तु नादेयं सारवं सरयूभवम् ॥ ३५४ ॥
1.10.354 · p. 47
अनुष्टुप्
प्रसन्नमच्छं कलुषमनच्छं चाविलं त्रिषु ।कासारः सरसी सरः कमलिनी पद्माकरो दीर्घिकावाणी द्वौ तु महाजलौ हृदनदौ क्षुद्रा सरित्कृत्रिमा ॥ ३५५ ॥
1.10.355 · p. 47
अनुष्टुप्two metres in one verse
कुल्या स्यादथ खातके तु सलिलाधारस्तटाकोऽस्त्रियांवेशन्तोऽल्पसरश्च पल्वलमथो अन्धुश्च कूपः प्रहिः ।उदपानोऽस्त्र्यथाहाव उपकूपजलाशये ॥ ३५६ ॥
1.10.356 · p. 47
शार्दूलविक्रीडितम्two metres in one verse
निपानमवखातस्तु स्यादुत्कीर्णश्चुरी स्त्रियाम् ।पद्मोऽस्त्री शतपत्रं पङ्कजमरविन्दमम्बुजं नलिनम् ॥ ३५७ ॥
1.10.357 · p. 48
अनुष्टुप्metre not read in every line
सरसीरुहतामरसे सारसमम्भोरुहं कमलम् ।सहस्रपत्रं राजीवं नालीकं बिसनाभिजम् ॥ ३५८ ॥
1.10.358 · p. 48
अनुष्टुप्metre not read in every line
पङ्केरुहं सरसिजं महोत्पलकुशेशये ।पुष्करं पुण्डरीकं तु पाण्डरे सरसीरुहे ॥ ३५९ ॥
1.10.359 · p. 48
अनुष्टुप्
रक्ते तस्मिन् कोकनदं रक्तोत्पलमिति द्वयम् ।स्यादुत्पलं कुवलयं नीलाब्जेन्दीवरे समे ॥ ३६० ॥
1.10.360 · p. 48
अनुष्टुप्
सौगन्धिके तु कल्हारं रक्तसंध्यकहल्लके ।कुमुदं कैरवं पद्मप्रभृतीनां कदम्बके ॥ ३६१ ॥
1.10.361 · p. 48
अनुष्टुप्
षण्डमस्त्री शिफाकन्दः शालूकं नालमस्त्रियाम् ।मृणालं तु त्रिषु बिसं किञ्जल्कः केसरोऽस्त्रियाम् ॥ ३६२ ॥
1.10.362 · p. 48
अनुष्टुप्
बीजकोशो वराटः स्यात्पद्माक्षं पद्मकर्कटी ।संवर्तिका नवं पर्णं वारिपर्णी तु कुम्भिका ॥ ३६३ ॥
1.10.363 · p. 48
अनुष्टुप्
मृणालिनीबिसिन्यौ तु कमलिन्यां कुमुद्वती ।कुमुदिन्यां स्त्रियां नीली शेवालं शैवलः पुमान् ॥ ३६४ ॥
1.10.364 · p. 48
अनुष्टुप्
आदिदेवहरित्पालग्रहऋष्यब्दनिःस्वनैः ।कालचित्तादिपातालैरिहाध्याया नवोदिताः ॥ ३६५ ॥
1.10.365 · p. 49
अनुष्टुप्