इति नरकवर्गः
अथ वारिवर्गः
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ १ ॥रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ।तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २ ॥
1.10.2
अनुष्टुप्
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ।पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ।अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥ ४ ॥मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् ।
1.10.2
अनुष्टुप्
भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु ॥ ५ ॥
1.10.5
अनुष्टुप्
महत्सूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः ।
1.10.4
अनुष्टुप्
पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम् ॥ ६ ॥
1.10.6
अनुष्टुप्
वक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः ।
1.10.6
अनुष्टुप्
कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु ॥ ७ ॥
1.10.7
अनुष्टुप्
पारावारे परार्वाची तीरे पात्रं तदन्तरम् ।
1.10.8
अनुष्टुप्
द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् ॥ ८ ॥
1.10.8
अनुष्टुप्
तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम् ।
1.10.10
अनुष्टुप्
निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ ॥ ९ ॥
1.10.9
अनुष्टुप्
जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः ।
1.10.12
अनुष्टुप्
नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः ॥ १० ॥
1.10.10
अनुष्टुप्
उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः ।
1.10.14
अनुष्टुप्
आतरस्तरपण्यं स्याद्द्रोणी काष्ठाम्बुवाहिनी ॥ ११ ॥
1.10.11
अनुष्टुप्
सांयात्रिकः पोतवणिक्कर्णधारस्तु नाविकः ।
1.10.16
अनुष्टुप्
नियामकाः पोतवाहाः कूपको गुणवृक्षकः ॥ १२ ॥
1.10.12
अनुष्टुप्
नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः ।
1.10.18
अनुष्टुप्
अभ्रिः स्त्री काष्ठकुद्दालः सेकपात्रं तु सेचनम् ॥ १३ ॥
1.10.13
अनुष्टुप्
क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु ।
1.10.20
अनुष्टुप्
त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः ॥ १४ ॥
1.10.14
अनुष्टुप्
निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये ।
1.10.22
अनुष्टुप्
अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ ॥ १५ ॥
1.10.15
अनुष्टुप्
आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम् ।
1.10.24
अनुष्टुप्
मत्स्याधानी कुवेणी स्याद्बडिशं मत्स्यवेधनम् ॥ १६ ॥
1.10.16
अनुष्टुप्
पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः ।विसारः शकुली चाथ गडकः शकुलार्भकः ॥ १७ ॥
1.10.17
अनुष्टुप्
सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ ।नलमीनश्चिलिचिमः प्रोष्ठी तु शफरीद्वयोः ॥ १८ ॥
1.10.18
अनुष्टुप्
क्षुद्राण्डमत्स्यसङ्घातः पोताधानमथो झषाः ।रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः ॥ १९ ॥
1.10.19
अनुष्टुप्
तिमिङ्गलादयश्चाथ यादांसि जलजन्तवः ।तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः ॥ २० ॥
1.10.20
अनुष्टुप्
स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ ।
1.10.30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता ॥ २१ ॥
1.10.21
अनुष्टुप्metre not read in every line
गण्डूपदः किञ्चुलको निहाका गोधिका समे ।
1.10.32
अनुष्टुप्
रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः ॥ २२ ॥
1.10.22
अनुष्टुप्
मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ ।
1.10.34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः ॥ २३ ॥
1.10.23
अनुष्टुप्metre not read in every line
भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः ।
1.10.36
अनुष्टुप्
शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः ॥ २४ ॥
1.10.24
अनुष्टुप्
मद्गुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका ।
1.10.38
अनुष्टुप्
जलाशयो जलाधारस्तत्रागाधजलो ह्रदः ॥ २५ ॥
1.10.25
अनुष्टुप्
आहावस्तु निपानं स्यादुपकूपजलाशये ।
1.10.40
अनुष्टुप्
पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा ॥ २६ ॥
1.10.26
अनुष्टुप्
नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत् ।
1.10.42
अनुष्टुप्
पुष्करिण्यां तु खातं स्यादखातं देवखातकम् ॥ २७ ॥
1.10.27
अनुष्टुप्
पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः ।
1.10.44
अनुष्टुप्
वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका ॥ २८ ॥
1.10.28
अनुष्टुप्
खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम् ।स्यादालवालमावालमावापोऽथ नदी सरित् ॥ २९ ॥तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी ।स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा ॥ ३० ॥कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती ।
1.10.46
अनुष्टुप्
गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा ।भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि ॥ ३१ ॥
1.10.31
अनुष्टुप्
कालिन्दी सूर्यतनया यमुना शमनस्वसा ।
1.10.48
अनुष्टुप्
रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका ॥ ३२ ॥
1.10.32
अनुष्टुप्
करतोया सदानीरा बाहुदा सैतवाहिनी ।
1.10.50
अनुष्टुप्
शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट्स्त्रियाम् ॥ ३३ ॥
1.10.33
अनुष्टुप्
शोणो हिरण्यवाहः स्यात्कुल्याल्पा कृत्रिमा सरित् ।
1.10.52
अनुष्टुप्
शरावती वेत्रवती चन्द्रभागा सरस्वती ॥ ३४ ॥
1.10.34
अनुष्टुप्
कावेरी सरितोऽन्याश्च सम्भेदः सिन्धुसङ्गमः ।
1.10.54
अनुष्टुप्
द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ ॥ ३५ ॥
1.10.35
अनुष्टुप्
देविकायां सरय्वां च भवे दाविकसारवौ ।
1.10.56
अनुष्टुप्
सौगन्धिकं तु कल्हारं हल्लकं रक्तसंध्यकम् ॥ ३६ ॥
1.10.36
अनुष्टुप्
स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च ।इन्दीवरं च नीलेऽस्मिन्सिते कुमुदकैरवे ॥ ३७ ॥
1.10.37
अनुष्टुप्
शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका ।
1.10.59
अनुष्टुप्
जलनीली तु शेवालं शैवलोऽथ कुमुद्वती ॥ ३८ ॥
1.10.38
अनुष्टुप्
कुमुदिन्यां नलिन्यां तु बिसिनीपद्मिनीमुखाः ।
1.10.61
अनुष्टुप्
वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् ॥ ३९ ॥सहस्रपत्रं कमलं शतपत्रं कुशेशयम् ।पङ्केरुहं तामरसं सारसं सरसीरुहम् ॥ ४० ॥बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च ।
1.10.62
अनुष्टुप्
पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे ॥ ४१ ॥रक्तोत्पलं कोकनदं नाला नालमथास्त्रियाम् ।
1.10.63
अनुष्टुप्
मृणालं बिसमब्जादिकदम्बे षण्डमस्त्रियाम् ॥ ४२ ॥
1.10.42
अनुष्टुप्
करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम् ।
1.10.65
अनुष्टुप्
संवर्तिका नवदलं बीजकोशो वराटकः ॥ ४३ ॥
1.10.43
अनुष्टुप्
इति वारिवर्गः
काण्डसमाप्तिः ।
उक्तं स्वर्व्योमदिक्कालधीशब्दादि सनाट्यकम् ।पातालभोगि नरकं वारि चैषां च सङ्गतम् ॥ ४४ ॥इत्यमरसिंहकृतौ नामलिङ्गानुशासने ।स्वरादिकाण्डः प्रथमः साङ्ग एव समर्थितः ॥ ४५ ॥
1.10.45
अनुष्टुप्metre not read in every line