कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गण्डक

gaṇḍakaपुं · masc.

In 17 kośas: 22 synonym verses, 7 as a nānārtha head word, 12 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1288 · p. 49
खड्गी वाध्रीणसः खड्गो गण्डकोऽथ किरः किरिः ।भूदारः सूकरः कोलो वराहः क्रोडपोत्रिणौ ॥ १२८७ ॥घोणी घृष्टिः स्तब्धरोमा दंष्ट्री किट्यास्यलाङ्गलौ ।आखनिकः शिरोमर्मा स्थूलनासो बहुप्रजः ॥ १२८८ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 नि (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.4
कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः ।मर्कटो वानरः कीशो वनौका अथ भल्लुके ॥ ३ ॥ऋक्षाच्छभल्लभल्लूका गण्डके खड्गखड्गिनौ ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.227 · p. 28
महिषः सैरिभ उक्तो रक्ताक्षः कासरो लुलायश्च ।वाध्रीणसश्च खड्गी गण्डक इति कथ्यते सद्भिः ॥ २२७ ॥
आर्या
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चदशोपदेशः Bālaprabodhikā 15.309 · p. 94
भल्लूके दीर्घरोमा स्याद्भल्लूवासः सिताननः ।गण्डके खड्गपादः स्यात् कोके त्वीहायनो वृकः ॥ ३०९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.105 · p. 246
अपराधे त्वपादाङोऽनुत्थानेऽनुगमे त्वनोः ।प्रतिसंभ्यां तु संहारे प्रत्यूहे विघ्नगण्डकौ ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.21 · p. 320
गन्धपर्यायमार्जारः खट्टाशोऽथ विलम्बिताः ।गज उक्तो गणोत्साहो वज्रचर्मा च गण्डकः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.13 · p. 190
खड्गी वाध्रीणसोऽपि स्याद्गण्डको महिषः पुनः ।कृष्णशृङ्गो दंशभीरुः शृङ्गी च यमवाहनः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.192 · p. 75
स्मृतो वनगवश्चाश्ववारणोऽप्यथ गण्डकः ।वाध्रीणसः खड्गिखड्गौ भूदारः कोलसूकरौ ॥ १९२ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.57 · p. 130
नडमीनस्तिली(चिलि?)चीमः प्रेत्यहारी बहुप्रियः ।पोतेऽप्युलुपिः शिशुको गण्डदः(कः?) शकुलार्भके ॥ ५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 लु (wrong syllable)
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त चतुःपदमरीचिः Pañcatattvaprakāśa 1.3.131 · p. 10
गण्डकः खड्गकः खड्गी सैरिभो महिषोऽश्वहा ।ईहामृगो वृकः कोकः श्वा कौलेयकुक्कुरौ ॥ १३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
संसारावर्त Saṃsārāvarta · विक्रमादित्य Saṃsārāvarta 17 · p. 468
खड्गी गण्डी गण्डकः स्यादृक्षभालूकभल्लुकाः ॥ १७ ॥
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.138 · p. 376
खड्गो वाध्रीणसः खड्गी कथ्यते गण्डकोऽपि वै ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.10 · p. 82
ऋक्षोऽच्छभल्लभाल्लुको भीलुको भील्लुकोऽपि च ।खड्गः खड्गी गणोत्साहो गण्डो गण्डक इत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ल्लु (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.334 · p. 45
तिमिस्तिमिंगिलः शृङ्गी वीरल्लश्च महाझषाः ।शफरः शफरी प्रोष्ठी गण्ड(ड?)कः शकुलार्भकः ॥ ३३४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.384 · p. 51
भौरिकाः स्युः समतटा महाराष्ट्रास्तु गण्डकाः ।कुमालकास्तु सौवीरा विदेहास्तीरभुक्तयः ॥ ३८४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.414 · p. 55
गिरेरुपत्यकाधोभूरूर्ध्वभूमिरधित्यका ।स्थूलोपला गिरेर्भ्रष्टा गण्डशैलाश्च गण्डकाः ॥ ४१४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.679 · p. 87
ऋक्षोऽच्छभल्लो भल्लूको भल्लुकोऽप्यथ गण्डकः ।खड्गी वाध्रीणसः खड्गस्तच्छृङ्गे खड्गमस्त्रियाम् ॥ ६७९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.738 · p. 94
दन्तालिका कुशा वल्गा ग्रीवाभूषा तु गण्डकम् ।चर्मदण्डः कशा वक्त्रपट्टके तलसारकम् ॥ ७३८ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1317 · p. 160
अपस्करो रथाङ्गं स्यात्तद्भेदे गण्डकोऽस्त्रियाम् ।प्रवाहिर्ना वृत्तमध्ये रथे कूबरवर्जिते ॥ १३१७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सिंहादिवर्गः Trikāṇḍaśeṣa 2.5.3 · p. 43
अथ हिंस्रपशुर्व्याडः श्वापदः शिबिरित्यपि ।बाघ्नीणसस्त्वेकचरो गणोत्साहश्च गण्डकः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.116 · p. 113
आयानं स्यादलंकारो ग्रीवाभूषा तु गण्डकः ।लवणस्य प्रदानाय कृता लवणलायिका ॥ ११६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.45 · p. 151
नलमीनश्चिलिचिमो गण्डकाः शकुलार्भकाः ।क्षुद्राण्डो मत्स्यसंघातः पोताधानं नपुंसकम् ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास कार्धश्लोकः Dharaṇikośa 1.2.32 · p. 9
पेचको द्विरदपुच्छसमीपे काकशाश्वतविरोधिखगे च ।गण्डकौ पशुवरचतुष्कौ गण्डकी च सरिदन्तरमुक्ता ॥
स्वागताmetre not read in every linenearly स्वागता
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.95 · p. 149
स्याद्गण्डकः खड्गिनि चान्तरायेसंख्याकलाभिद्यबला तु नद्याम् ।स्यात्तण्डको भूरिसमासवाक्येफेने च मायाविनि खञ्जने च ॥ ९५ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.330 · p. 71
गण्डको रुजि विद्यायां खड्गे पदचतुष्टये ।गञ्जा तु स्त्री सुरागेह आकरेऽन्यस्त्ववोचत ॥ ३३० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.648 · p. 103
चव्ये च स्त्री तु गण्डीरी विपत्रायां स्नुहि स्मृता ।गण्डकस्तु द्वयोः खड्गमृगे ना शिशुभूषणे ॥ ६४८ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास गकारादयः Paramānandīyanāmamālā 5.9.162 · p. 182
विडङ्गे ग्रन्थिपर्णेऽपि गण्डको विघ्नखड्गिनोः ।गण्डकी तु नदीभेदे गोरङ्कुः खगनग्नयोः ॥ १६२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.67 · p. 180
गण्डको ना खड्गजन्तौ विद्यासंख्याप्रभेदयोः ।अन्तरायेऽप्यवच्छेदे नदीभेदे तु गण्डकी ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.18 · p. 97
खगे नग्ने च गोरङ्कुः सङ्ख्याभेदेऽपि गण्डकः ।शृङ्ग्यां च ग्रामयुद्धे च ग्राममद्गुरिका स्त्रियाम् ॥ १८ ॥
अनुष्टुप्

गण्डक as a meaning in nānārtha verses